हनुमन्मन्त्रप्रयोगविधिः अथवा हनुमत्पटलः
(मन्त्रमहोदधितः) अथोच्यन्ते हनुमतो मन्त्राःसर्वेष्टसिद्धये । इन्द्रस्वरेन्दुसंयुक्तो वराहोहसफाग्नयः ॥ १॥ हौं, ह् स् फ् र् एं = ह्स्फ्रें झिण्टीशबिन्दुसंयुक्ताद्वितीयं बीजमीरितम् । गदी (ख) पान्ताग्निरुद्रेन्दुसंयुतः स्यात्तृतीयकम् ॥ २॥ (ख्, फ्, र्, एं = ख्फ्रें) हसरासमुचन्द्रेढ्याश्चतुर्थं हसखाःफराः । (ह् स् र् ॐ = ह्स्रौं) (ह् स् ख् फ् र् एं = हस्ख्फ्रें) शिवेन्द्वाढ्याःपञ्चमः स्याद्धसौमबिन्दुगौपरम् ॥ ३॥ (ह् स् = ह्सौं) ङेयुतो हनुमान्हार्दं (नमः) मन्त्रोऽयं द्वादशाक्षरः १. हौं हृदयाय नमः । २. ह्स्फ्रें शिरसे स्वाहा । ३. ख्फ्रें शिखायै वषट् । ४. ह्स्त्रौं कवचाय हुं । ५. ह्स्ख्फ्रें नेत्रत्रयाय वौषट् । ह्सैं अस्त्राय फट् । हनुमते नमः ॥ रामचन्द्रो मुनिश्चास्य जगतीछन्द ईरितम् ॥ हनुमान्देवता बीजं षष्ठं शक्तिद्वितीयकम् । षड्बीजैरङ्गषट्कं स्यान्मूर्ध्नि भाले दृशोर्मुखे ॥ ५॥ कण्ठे च बाहुद्वितये हृदि कुक्षौ च नाभितः । लिङ्गे जानुद्वये चैव मन्त्रवर्णान्क्रमान्न्यसेत् ॥ ६॥ षड्बीजानि पदद्वन्द्वे भाले चैव मुखे हृदि । नाभावूर्वोर्जङ्घयोश्च पादयोर्विन्यसेत्क्रमात् ॥ ७॥ बालार्कायुततेजसं त्रिभुवनप्रक्षोभकं सुन्दरं सुग्रीवादिसमस्तवानरगणैः संसेव्यपादाम्बुजम् । नादेनैव समस्तराक्षसगणान्सन्त्रासयन्तं प्रभुं श्रीमद्रामपदाम्बुजस्मृतिरतं ध्यायामि वातात्मजम् ॥ ८॥ एवं ध्यात्वा जपेदर्कसहस्रं जितमानसः । दशांशं जुहुयाद् व्रीहीन्पयोदध्याज्यसंयुतान् ॥ ९॥ केसरेष्वङ्गपूजा स्याद्दलेष्वन्यांस्तदाह्वयन् ॥ १०॥ रामभक्तो महातेजा कपिराजो महाबलः । द्रोणाद्रिहारको मेरुपीठकार्चनकारकः ॥ ११॥ दक्षिणाशाभास्करश्च सर्वविघ्ननिवारकः । एवं नामानि सम्पूज्य दलाग्रेषु च वानरान् ॥ १२॥ सुग्रीवमङ्गदं नीलं जाम्बवन्तं नलं तथा । सुषेणं द्विविदं मैन्दं पूजयेद्दिक्पतीनपि ॥ १३॥ एवं सिद्धे मनौ मन्त्री स्वपरेष्टं प्रसाधयेत् । कदलीबीजपूराम्रफलैर्हुत्वा सहस्रकम् ॥ १४॥ द्वाविंशतिब्रह्मचारिविप्रान्सम्भोजयेदथ । एवं कृते महाभूतविषचौराद्युपद्रवाः ॥ १५॥ नश्यन्ति क्षणमात्रेण विद्वेषिग्रहदानवाः । अष्टोत्तरशतं वारि मन्त्रितं विषनाशनम् ॥ १६॥ रात्रौ नवशतं मन्त्रं जपेद्दशदिनावधि । यो नरस्तस्य नश्यन्ति राजशत्रूत्थभीतयः ॥ १७॥ अभिचारोत्थभूतोत्थज्वरे तन्मन्त्रितैर्जलैः । भस्मभिः सलिलैर्वापि ताडयेज्ज्वरिणः क्रुधा ॥ १८॥ दिनत्रयाज्ज्वरान्मुक्तः स सुखं लभते नरः । तन्मन्त्रितौषधं जग्ध्वा नीरोगो जायते ध्रुवम् ॥ १९॥ तन्मन्त्रितं पयः पीत्वा योद्धुं गच्छेन्मनुं जपन् । तज्जप्तभस्मलिप्ताङ्गः शस्त्रसङ्घैर्न बाध्यते ॥ २०॥ शस्त्रक्षतं व्रणः शोफो लतास्फोटोऽपि भस्मना । त्रिर्मन्त्रितेन संस्पृष्टाः शुष्यन्त्यचिरतो नृणाम् ॥ २१॥ वश्यादिप्रयोगाः - सूर्यास्तमयमारभ्य जपेत्सूर्योदयावधि । कीलकं भस्म चादाय सप्ताहावधि संयतः ॥ २२॥ निखनेद्भस्मकीलौ तौ विद्विषां द्वार्यलक्षितम् । विद्वेषं मिथ आपन्नाः पलायन्तेऽरयोऽचिरात् ॥ २३॥ अभिमन्त्रितभस्माम्बुदेहचन्दनसंयुतम् । खाद्यादियोजितं यस्मै दीयते स च दासवत् ॥ क्रूराश्च जन्तवोऽनेन भवन्ति विधिना वशाः । ईशानदिक्स्थमूलेन भूताङ्कुशतरोः शुभाम् ॥ २५॥ अङ्गुष्ठमात्रां प्रतिमां प्रविधाय हनूमतः । प्राणसंस्थापनं कृत्वा सिन्दूरैः परिपूज्य च ॥ २६॥ गृहस्याभिमुखे द्वारे निखनेन्मन्त्रमुच्चरन् । भूताभिचारचौराग्निविषरोगनृपोद्भवाः ॥ २७॥ सञ्जायन्ते गृहे तस्मिन्न कदाचिदुपद्रवाः । प्रत्यहं धनपुत्राद्यैरेधते तद्गृहं चिरम् ॥ २८॥ निशि श्मशानभूमिस्थो भस्मना मृत्स्नयापि वा । शत्रोः प्रतिकृतिं कृत्वा हृदि नाम समालिखेत् ॥ २९॥ कृतप्राणप्रतिष्ठां तां भिन्द्याच्छस्त्रैर्मनुं जपन् । मन्त्रान्ते प्रोच्चरेच्छत्रोर्नाम छिन्धि च भिन्धि च ॥ ३०॥ मारयेति च तस्यान्ते दन्तैरोष्ठं निपीड्य च । पाण्योस्तले प्रपीड्यात्र त्यक्त्वा तां सदनं व्रजेत् ॥ ३१॥ एवं सप्तदिनं कुर्वन्हन्याच्छत्रुं शिवावितम् । अर्धचन्द्राकृते कुण्डे स्थण्डिले वा हुतं चरेत् ॥ ३२॥ मुक्तकेशः श्मशानस्थे लवणराजिकायुतैः । उन्मत्तफलपुष्पैश्च नखरोमविषैरपि ॥ ३३॥ काककौशिकगृध्राणां पक्षैः श्लेष्मातकाक्षजैः । समिद्वरैश्च त्रिशतं दक्षिणाशामुखो निशि ॥ ३४॥ सप्तघस्रानिदं कुर्वन्मारयेद्रिपुमुद्धतम् । शतषट्कं जपेद्रात्रौ श्मशाने दिवसत्रयम् ॥ ३५॥ ततो वेताल उत्थाय वदेद्भावि शुभाशुभम् । उदितं कुरुते सर्वं किङ्करीभूय मन्त्रिणः ॥ ३६॥ हनुमत्प्रतिमां भूमौ विलिखेत्तत्पुरो मनून् । साध्यनाम द्वितीयान्तं विमोचय विमोचय ॥ ३७॥ तत्सर्वं मार्जयेद्वामहस्तेनाथ पुनलिर्खेत् । एवमष्टोत्तरशतं लिखित्वा मार्जयेत्पुनः ॥ ३८॥ एवं कृते पराधीनो मुच्यते निगडात्क्षणात् । एवं विद्वेषणादीनि कुर्यात्तत्पल्लवं लिखन् ॥ ३९॥ वश्यार्थे सर्षपैर्होमो विद्वेषे करवीरजैः । कुसुमैरिध्मकाष्ठैर्वा जीरकैर्मरिचैरपि ॥ ४०॥ ज्वरे दूर्वागुडूचीभिर्दध्न क्षीरेण वा घृतैः । शूले होमः कुबेराक्षैरेरण्डसमिधा तथा ॥ ४१॥ तैलाक्ताभिश्च निर्गुण्डीसमिद्भिर्वा प्रयत्नतः । सौभाग्ये चन्दनैश्चन्द्रैः रोचनैलालवङ्गकैः ॥ ४२॥ सुगन्धिपुष्पैर्वस्त्राप्त्यै तत्तद्धान्यैः तदाप्तये । तत्पादरजसा राजीलवणाक्तेन मृत्यवे ॥ ४३॥ किम्बहूक्तैर्विषे व्याधौ शान्तौ मोहे च मारणे । विवादे स्तम्भने द्यूतभूतभीतौ च सङ्कटे ॥ ४४॥ वश्ये युद्धे नृपद्वारे समरे चौरसङ्कटे । मन्त्रोऽयं साधितो दद्यादिष्टसिद्धिं ध्रुवं नृणाम् ॥ हनुमद्यन्त्रम् -धारणाय वक्ष्ये हनुमतो यन्त्रं सर्वसिद्धिप्रदायकम् । वलयत्रितयं लेख्यं पुच्छाकारसमन्वितम् ॥ ४६॥ साध्यनाम लिखेन्मध्ये पाशबीजप्रवेष्टितम् । उपर्यष्टदलं कृत्वा वर्मपत्रेषु संलिखेत् ॥ ४७॥ वलयं बहिरालिख्य तद्वहिश्चतुरस्रकम् । चतुरस्रस्य रेखाग्रे त्रिशूलानि समालिखेत् ॥ ४८॥ भूपुरस्याष्टवज्रेषु ह्सौबीजं तु लिखेत्ततः । कोणेष्वङ्कुशमालिख्य मालामन्त्रेण वेष्टयेत् ॥ ४९॥ तत्सर्वं वेष्टयेद्यन्त्रं वलयत्रितयेन च । वस्त्रे शिलायां फलके ताम्रपात्रेऽथ कुड्यके ॥ ५०॥ भूर्जे वो ताडपत्रे वा रोचनानाभिकुङ्कुमैः । यन्त्रमेतत्समालिख्य त्यक्ताशो ब्रह्मचर्यवान् ॥ ५१॥ कपेः प्राणान्प्रतिष्ठाप्य पूजयेत्तं यथाविधि । सर्वदुःखनिवृत्त्यै तद्यन्त्रमात्मनि धारयेत् ॥ ५२॥ ज्वरमार्यभिचारघ्नं सर्वोपद्रवशान्तिकृत् । योषितामपि बालानां धृतं जनमनोहरम् ॥ ५३॥ मालामन्त्रः मालामन्त्रमथो वक्ष्ये प्रणवो वाग्घरिप्रिया । दीर्घत्रयान्विता माया पूर्वोक्तं कूटपञ्चकम् ॥ ५४॥ तारो नमो हनुमते प्रकटान्ते पराक्रम । आक्रान्तदिङ्मण्डलतोयशोवीति च तान च ॥ ५५॥ धवलीकृतवर्णान्ते जगत्त्रितयवज्र च । देहज्वलदग्निसूर्यकोट्यन्ते तु समप्रभ ॥ ५६॥ तनूरुहपदं रुद्रावतारपदमीरयेत् । लङ्कापुरीदहान्तेनोदधिलङ्घनवर्णकाः ॥ ५७॥ दशग्रीवशिरः पश्चात्कृतान्तकपदं ततः । सीताश्वासनवाय्वन्ते सुतशब्दमुदीरयेत् ॥ ५८॥ अञ्जनागर्भसम्भूत श्रीरामान्ते तु लक्ष्मण । नन्दकान्ते रकपिचसैन्यप्राकारवर्णकाः ॥ ५९॥ सुग्रीवसख्यकावर्णा रणवालिनिबर्हण । कारणद्रोणपर्वान्ते तोत्पाटनपदं वदेत् ॥ ६०॥ अशोकवनवीत्यन्तदारणाक्षकुमारक । च्छेदनान्ते वनपदं रक्षाकरसमूह च ॥ ६१॥ विभञ्जनान्ते ब्रह्मास्त्रब्रह्मशक्तिग्रसेति च । लक्ष्मणान्ते शक्तिभेदनिवारणपदं पुनः ॥ ६२॥ विशल्यौषधिवर्णान्ते समानयनवर्णकाः । बालोदितान्ते भान्वन्ते मण्डलग्रसनेति च ॥ ६३॥ राक्षसीसङ्घवर्णान्ते विदारण च कुम्भ च ॥ ६४॥ कर्णादिवधशब्दान्ते परायणपदं वदेत् । श्रीरामभक्तिशब्दान्ते तत्परेति समुद्र च । व्योमद्रुमलङ्घनेति महासामर्थ्यमिति च ॥ ६६॥ महातेजःपुञ्ज वीत्यन्ते राजमानपदं पुनः । स्वामिवचनसम्पादितार्जुनान्ते च संयुगे ॥ ६७॥ सहायान्ते कुमारेति ब्रह्मचारिन्पदं वदेत् । गम्भीरशब्दोऽत्रिर्वायुर्दक्षिणाशापदं पुनः ॥ ६८॥ मार्तण्डमेरुशब्दान्ते सकलेति पदं वदेत् । पीठिकार्चनशब्दान्ते सकलेति पदं पुनः ॥ ६९॥ मन्त्रागमाचार्य्य मम सर्वग्रहविनाशन । सर्वज्वरोच्चाटनेति सर्वविषविनाशन ॥ ७०॥ सर्वापत्तिनिवारण सर्वदुष्टेति सम्पठेत् । निबर्हणपदं सर्वव्याघ्रादिभयतत्परम् ॥ ७१॥ निवारण सर्वशत्रुच्छेदनेति पदं मम । परस्य च त्रिभुवनपुंस्त्रीनपुंसकात्मकम् ॥ ७२॥ सर्वं जीवपदं पश्चाज्जातं वशययुग्मकम् । ममाज्ञाकारकं पश्चात्सम्पादय पदद्वयम् ॥ ७३॥ नानानामपदं धेयान्सर्वान्राज्ञः स सम्पठेत् । परिवारान्ममेत्यन्ते सेवकान्कुरु युग्मकम् ॥ ७४॥ सर्वशस्त्रास्त्रवीत्यन्ते षाणिविध्वंसयद्वयम् । मायादीर्घत्रयोपेताहात्रयं चैहियुग्मकम् ॥ ७५॥ विलोमपञ्चकूटानि सर्वशत्रून्हनद्वयम् । परदान्तेलानि परसैन्यानि क्षोभयद्वयम् ॥ ७६॥ मम सर्वकार्यजातं साधय द्वितयं ततः । सर्वदुष्टदुर्जनान्ते मुखानि कीलय द्वयम् ॥ ७७॥ घेत्रयं हात्रयं वर्मत्रितयं फट्त्रयं ततः । वह्निप्रियान्तो मन्त्रोयं मालासञ्ज्ञोऽखिलेष्टदः ॥ ७८॥ महोपद्रवसम्पाते स्मृतोऽयं दुःखनाशनः ॥ ७९॥ पञ्चकूटमन्त्रः । द्वादशार्णान्तिमान्वर्णान्षट्त्यक्त्वैकं तथादिमम् । पञ्चकूटात्मको मन्त्रो निखिलाभीष्टसाधकः ॥ ८०॥ मुनी रामोऽथ गायत्रीछन्दो देवः कपीश्वरः । पञ्चबीजैःसमस्तेन षडङ्गं मुनिभिः स्मृतम् ॥ ८१॥ रामदूतो लक्ष्मणान्ते प्राणदाताञ्जनासुतः । सीताशोकविनाशोऽथ लङ्काप्रासादभञ्जनः ॥ ८२॥ हनूमदाद्याः पञ्चैते बीजाद्या ङेसमन्विताः । षडङ्गमन्त्राः सन्दिष्टा ध्यानपूजादिपूर्वकम् ॥ ८३॥ (ॐ) (ऐं) (श्रीं) एकादशाक्षरो मन्त्रः तारो वाक्कमलामायादीर्घत्रयसमन्विताः (ह्रां ह्रीं ह्रूं) पञ्चकूटानि मन्त्रोऽयं रुद्रार्णोऽभीष्टसिद्धिदः ॥ (ह्स्फ्रें ख्फ्रें ह्सौं ह्स्ख्फ्रें ह्सौः) अष्टादशाक्षरो मन्त्रः अर्चना पूर्ववच्चास्य परो मन्त्रोऽभिधीयते । हृदयं (नमः) भगवन्ङेन्तं (भगवते) आञ्जनेयमहाबलौ (आञ्जनेयाय महाबलाय) ॥ ८५॥ तद्वद्वह्निप्रियान्तोऽयं मनुरष्टादशाक्षरः । मुनिरीश्वर एवास्यानुष्टुप्छन्दः समीरितम् ॥ ८६॥ हनुमान्देवता बीजं हुं शक्तिर्वह्निवल्लभा । आञ्जनेयो रुद्रमूर्तिर्वायुपुत्रस्तथैव च ॥ ८७॥ अग्निगर्भो रामदूतो ब्रह्मास्त्रविनिवारणः । एतैर्ङेन्तैः षडङ्गानि कृत्वा ध्यायेत्कपीश्वरम् ॥ ८८॥ दहनतप्तसुवर्णसमप्रभं भयहरं हृदये विहिताञ्जलिम् । श्रवणकुण्डलशोभिमुखाम्बुजं नमत वानरराजमिहाद्भुतम् ॥ ८९॥ अयुतं प्रजपेन्मन्त्रं दशांशं जुहुयात्तिलैः । वैष्णवे पूजयेत्पीठे पूर्ववत्कपिनायकम् ॥ ९०॥ जितेन्द्रियो नक्तभोजी प्रत्यहं साष्टकं शतम् । जपित्वा क्षुद्ररोगेभ्यो मुच्यते दिवसत्रयात् ॥ ९१॥ भूतप्रेतपिशाचादिनाशायैवं समाचरेत् । महारोगनिवृत्त्यै तु सहस्रं प्रत्यहं जपेत् ॥ ९२॥ यताशनोऽयुतं नित्यं जपन्ध्यायन्कपीश्वरम् । राक्षसौघं विनिघ्नन्तमचिराज्जयति द्विषम् ॥ ९३॥ सुग्रीवेण समं रामं सन्दधानं स्मरन्कपिम् । प्रजप्यायुतमेतस्य सन्धिं कुर्याद्विरुद्धयोः ॥ ९४॥ लङ्कां दहन्तं तं ध्यायन्नयुतं प्रजपेन्मनुम् । शत्रूणां प्रदहेद्ग्रामानचिरादेव साधकः ॥ ९५॥ प्रयाणसमये ध्यायन्हनूमन्तं मनुं जपन् । यो याति सोऽचिरात्स्वेष्टं साधयित्वा गृहं व्रजेत् ॥ ९६॥ यः कपीशं सदा गेहे पूजयेज्जपतत्परः । आयुर्लक्ष्म्यौ प्रवर्धेते तस्य नश्यन्त्युपद्रवाः ॥ ९७॥ शादूर्लतस्करादिभ्यो रक्षेन्मनुरयं स्मृतः । प्रस्वापकाले चौरेभ्यो दुष्टस्वप्नादपि ध्रुवम् ॥ ९८॥ पवनद्वितयं सद्योजातयुक्तं हनुपदम् । महाकालः शशाङ्काढ्यः कामिकाफलकः क्रिया ॥ ९९॥ सनेत्राणां तमीनोगसातोगित आयुरा । ??? प्लीहनिवारको मन्त्रः प्लीहरोगहरश्चास्य मुन्याद्यं पूर्ववन्मतम् । प्लीहयुक्तोदरे स्थाप्यं नागवल्लीदलं शुभम् ॥ १०१॥ तदुपर्यष्टगुणितं वस्त्रमाच्छादयेत्ततः । वंशजं शकलं तस्योपरि मुञ्चेत्कपिं स्मरन् ॥ १०२॥ आरण्यप्रस्तरोत्पन्ने वह्नौ यष्टिं प्रतापयेत् । बदरीतरुसम्भूतां मन्त्रेणानेन सप्तशः ॥ १०३॥ तया सन्ताडयेद्वंशं शकलं जठरस्थितम् । सप्तकृत्वःप्लीहरोगो नश्यत्येव नृणां क्षणात् ॥ १०४॥ (ॐ यो यो हनुमन्त फलफलित धगधगित आयुराषपरुडाह ॥ ) पुच्छाकारे सुवसने लेखिन्या कोकिलोत्थया । अष्टगन्धैर्लिखेद्रूपं कपिराजस्य सुन्दरम् ॥ १०५॥ तन्मध्ये द्वादशार्णं तु शत्रुनामयुतं लिखेत् । तेन मन्त्राभिजप्तेन शिरोबद्धेन भूमिपः ॥ १०६॥ जयत्यरिगणं सर्वं दर्शनादेव निश्चितम् । विजयध्वजः युद्धे जिगीषुर्नृपतिः पूर्वोक्तं लेखयेद्ध्वजे ॥ १०७॥ ध्वजमादायोपरागे संस्पर्शान्मोक्षणावधि । मातृकां जापयेत्पश्चाद्दशांशेन च हावयेत् ॥ १०८॥ सर्षपैस्तिलसम्मिश्रैः संस्पर्शान्मोक्षणावधि । गजस्थं तं ध्वजं दृष्ट्वा पलायन्तेऽरयोऽचिरात् ॥ १०९॥ रक्षायन्त्रः अथो हनुमतो यन्त्रं वक्ष्ये रक्षाविधायकम् । लिखेदष्टदलं पद्मं साध्याख्यायुतकर्णिकम् ॥ ११०॥ दलेष्वष्टार्णमालिख्य मालामन्त्रेण वेष्टयेत् । तद्बहिर्माययावेष्ट्य प्राणस्थापनमाचरेत् ॥ १११॥ लिखितं स्वर्णलेखिन्या दले भूर्जतरोः शुभे । रोचनाकुङ्कुमाभ्यां तु वेष्टितं कनकादिभिः ॥ ११२॥ सम्पातसाधितं यन्त्रं भुजं वा मूर्ध्नि धारयेत् । रणे जयमवाप्नोति व्यवहारे दुरोदरे ॥ ११३॥ ग्रहैर्विघ्नैर्विषैःशस्त्रैश्चौरैर्नैवाभिभूयते । रोगान्सर्वानपाकृत्य चिरं जीवति भाग्यवान् ॥ ११४॥ अष्टाक्षरो मन्त्रः वियदग्नियुतं दीर्घषट्काद्यं तारसम्पुटम् । अष्टार्णो मन्त्र आख्यातो मूलमन्त्रोऽथ कथ्यते ॥ ११५॥ (ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॐ) मालामन्त्रोद्धारः वज्रकाय वज्रतुण्ड कपिलेत्यथ पिङ्गल । ऊर्ध्वकेश महावर्ण बल रक्तमुखेति च ॥ ११६॥ तडिज्जिह्व महारौद्र दंष्ट्रोत्कटक हद्वयम् । करालिने महादृढप्रहारिन्नितिवर्णकाः ॥ ११७॥ लङ्केश्वरवधायान्ते महासेतुपदं ततः । बन्धान्ते च महाशैलप्रवाह गगनेचर ॥ ११८॥ एह्येहि भगवन्नन्ते महाबलपराक्रम । भैरवाज्ञापयैह्येहि महारौद्रपदं पुनः ॥ ११९॥ दीर्घपुच्छेन वर्णान्ते वेष्टयान्ते तु वैरिणम् । भञ्जय द्वितयं फट्प्रणवादिसमीरितः ॥ १२०॥ युद्धे जप्तो जयं दद्याद्व्याधौ व्याधिविनाशनः ॥ १२१॥ (ॐ वज्रकाय वज्रतुण्ड कपिल पिङ्गल ऊर्ध्वकेश महाबल रक्तमुख तडिज्जिह्व महारौद्र दंष्ट्रोत्कटक ह ह करालिने महादृढप्रहारिन् लङ्केश्वरवधाय महासेतुबन्ध महाशैलप्रवाह गगनेचर एह्येहि भगवन् महाबलपराक्रम भैरवाज्ञापय एह्येहि महारौद्र दीर्घपुच्छेन वैरिणं भञ्जय भञ्जय हुं फट् ॥ ) अष्टार्णमालामन्वोस्तु मुन्याद्यर्च्य तु पूर्ववत् । भूरिणा किमिहोक्तेन सर्वं दद्यात्कपीश्वरः ॥ १२२॥From Hanumatstutimanjari, Mahaperiaval Publication