श्रीहनुमद्व्रतम्
तत्रादौ हनुमद्व्रतं कर्तुमारभमाण आचारानुसारेण विशिष्टाचारपरम्पराप्राप्तां यथाशक्तिद्रव्यैः पम्पापूजां करिष्ये । इति सङ्कल्प्य, मार्गशीर्षमासे शुक्लत्रयोदश्यां व्रतं करिष्यमाणः द्वादश्यामेव नियतो ब्रह्मचारी जितेन्द्रियः सम्यग्रात्रिं यापयित्वा ब्राह्मे मुहूर्ते उत्थाय कर्तव्यं सर्वमालोकयति ॥ शौनक उवाच हनुमद्व्रतसङ्कल्पं कर्तुकामोऽब्रवीज्जनः । कस्मिन्देशे व्रतं सम्यक्कर्तव्यं वद सूतज ॥ १॥ किं च व्रतं पूर्वतरैः कुत्राचरितमद्भुतम् । सन्ति स्थलानि बहुधा गोष्ठवृन्दावनादयः ॥ २॥ वापीकूपतडागाद्याः कुल्याः कृत्रिमविस्तृताः । नद्यो नदाः सागराद्याः पर्वताः सरितो द्रुमाः । विचार्य बहुधा तच्च वद नो वदतां वर ॥ ३॥ सूत उवाच साधु पृष्टं महाभागाः सम्यगेवोच्यते मया । बहवः सन्ति देशाश्च पुण्याः पुण्यविवर्धनाः ॥ तथापि वक्ष्ये यद्गुह्यं तच्छृण्वन्तु मुनीश्वराः ॥ ४॥ पूर्वं हनुमतः पूजा कृता पम्पासरित्तटे । तस्मात् पम्पासरित्तीरे हनुमद्व्रतमुत्तमम् ॥ ५॥ नानादेशेषु कर्तव्या पम्पापूजा प्रयत्नतः । ब्राह्मे मुहुर्ते चोत्थाय शौचादिभिरतन्द्रितः ॥ ६॥ नित्यकर्म समाप्याशु योगक्षेमं समाविशेत् । ततश्च पञ्चभिर्वाद्यैरुपेतो बन्धुभिवृर्तः ॥ ७॥ तत्रत्यां च नदीं काञ्चिद्गत्वा स्नात्वा च वाग्यतः । अघमर्षणमन्त्रैश्च शुचिः प्रयतमानसः ॥ ८॥ सन्ध्यावन्दनपूर्वं च नित्यकर्म समाप्य च । पितॄन् सन्तर्प्य यत्नेन ललाटे तिलकोज्ज्वलः ॥ ९॥ षोडशाप्युपचारांश्च पम्पायाः सर्वतो व्रती ॥ १०॥ पम्पा पूजा ॥ हेमकूटगिरिप्रान्तजनानां गिरिसानुगाम् । पम्पामावाहयाम्यस्यां नद्यां हृद्यां प्रयत्नतः ॥ आवाहनम् तरङ्गशतकल्लोलैः रिङ्गत्तामरसोज्ज्वले । पम्पानदि नमस्तुभ्यं गृहाणासनमुत्तमम् ॥ आसनम् हृद्यं सुगन्धसम्पन्नं शुद्धं शुद्धाम्बुसत्कृतम् । पाद्यं गृहाण पम्पाख्ये महानदि नमोऽस्तु ते ॥ पाद्यम् भागीरथि नमस्तुभ्यं सलिलेन सुशोभने । अनर्घ्यमर्घ्यमनघे गृह्यतामिदमुत्तमम् ॥ अर्घ्यम् पम्पानदि नमस्तुभ्यं महापुण्ये सुशोभने । गोदावरीजलेनाद्य गृहाणाचमनीयकम् ॥ आचमनीयम् दुग्धाज्येक्षुरसैः पुण्यैर्दध्नश्च मधुना तथा । पञ्चामृतैः स्नापयिष्ये पम्पानदि नमोऽस्तु ते । पञ्चामृतस्नानम् शुद्धक्षीरैः शुद्धजलैर्नारिकेलाम्बुभिस्तथा । पुण्यैः कृष्णानदीतोयैः सिञ्चामि त्वां सरिद्वरे ॥ स्नानम् महामूल्यं च कार्पासं दिव्यवस्त्रमनुत्तमम् । पम्पानदि महापुण्ये पम्पाशोभातिशोभने ॥ वस्त्रम् श्रौतस्मार्तादिसत्कर्मफलदं पावनं शुभम् । यज्ञोपवीतमधुना कल्पये सरिदुत्तमे ॥ यज्ञोपवीतम् कर्पूरगुटिकामिश्रं कस्तूर्या च विमर्दितम् । यत्नेन कल्पितं गन्धं लेपयेऽङ्गं सरिद्वरे ॥ गन्धम् लक्षणोक्तान्हरिद्राक्तानक्षतांश्चोत्तमाञ्छुभान् । पम्पानदि गृहाणेमाञ्छुभशोभातिवृद्धये ॥ अक्षतान् अतसीकुसुमोपेतं पङ्केरुहदलोज्ज्वलम् । कुङ्कुमं शङ्करजटासम्भूते सरिदर्पये ॥ कुङ्कुमम् कज्जलं त्रिजगद्वन्द्ये महापुण्ये तरङ्गिणि । नेत्रयोः पादमनघं गृह्यतां सरितां वरे ॥ नेत्राञ्जनम् शतपत्रैश्च कह्लारैः कुमुदैर्वकुलैरपि । मल्लिकाजातिपुन्नागैः केवलैश्चापि चम्पकैः ॥ तुलसीदामभिश्चापि तथा बिल्वदलैरपि । पूजयामि महापुण्ये पम्पानदि नमोऽस्तु ते ॥ पुष्पाणि अथ अङ्गपूजा ॥ गोदावर्यै नमः पादौ पूजयामि । कृष्णायै नमः गुल्फौ पूजयामि । पापहारिण्यै नमः जङ्घे पूजयामि । सुभ्रुवे नमः जानुनी पूजयामि । उरुतरङ्गिण्यै नमः ऊरू पजयामि । तडिदुज्ज्वलजवायै नमः कटिं पूजयामि । अम्बुशोभिन्यै नमः नितम्बं पूजयामि । अणुमध्यायै नमः मध्यं पूजयामि । सुस्तनायै नमः स्तनौ पूजयामि । कम्बुकण्ठ्यै नमः कण्ठं पूजयामि । ललिताबाहुरङ्गायै नमः बाहू पूजयामि । दीर्घवेण्यै नमः वेणीं पूजयामि । सुवक्त्रायै नमः वक्त्रं पूजयामि । दुर्वारवारिपूरायै नमः शिरः पूजयामि । सहस्रमुखायै नमः सर्वाङ्गं पूजयामि ॥ सदशाङ्गं शुभं दिव्यं सगुग्गुलमनुत्तमम् । साज्यं परिमलोद्भूतं धूपं स्वीकुरु पावने ॥ धूपम् साज्यमग्निप्रकाशोद्यत्कोटिसूर्यसमद्युति । पश्य दीपं प्रसन्नाङ्गे पम्पानदि नमोऽस्तु ते ॥ दीपम् शाल्यन्नं स्वर्णपात्रस्थं शाकापूपसमन्वितम् । साज्यं दधिपायसं च नैवेद्यं प्रतिगृह्यताम् ॥ नैवेद्यम् पूगैः सुशोभनैश्चापि नागवल्लीदलैर्युतम् । ताम्बूलं गृह्यतां देवि पम्पानदि नमोऽस्तु ते ॥ ताम्बूलम् व्रतपूर्तिमहाकीर्तिदिव्यस्फूर्तिप्रकीर्तिदम् । कर्तुकामो व्रतमिदं सौवर्णं पुष्पमर्पये ॥ सुवर्णपुष्पम् प्रदक्षिणत्रयं देवि प्रयत्नेन प्रकल्पितम् । पश्याद्य पावने देवि पम्पानदि नमोऽस्तु ते ॥ प्रदक्षिणं नमस्ते नमस्ते विशालोज्ज्वलाङ्गे नमस्ते नमस्ते लसत्सत्तरङ्गे । नमस्ते नमस्ते गिरिप्रान्तरङ्गे नमस्ते नमस्ते कलद्बर्हिरङ्गे ॥ नमस्कारं अपराधशतं देवि मत्कृतं च दिने दिने । क्षम्यतां पावने देवि पम्पानदि नमोऽस्तु ते ॥ क्षमापणम् पम्पानदि महापुण्ये तरङ्गिणि ! नमोऽस्तु ते । त्वत्तीरे हनुमत्पूजा कृता रामेण धीमता ॥ मनोरथफलावाप्तिस्तस्याभीष्टं न संशयः । सुग्रीवेण च तीरेऽस्मिन्कपिवर्येण ते कृतम् ॥ संस्कृतं च मनोवाञ्छा सहस्तस्य बभूव सा । अतस्त्वन्नीरपुलिने कृते हनुमतो व्रते ॥ श्रेयांसि मम सर्वाणि न विघ्नानि भवन्त्विह । इति सम्प्रार्थ्य पम्पाख्यां नदीं शुभतरङ्गिणीम् ॥ कलशोदकपाणिश्च गच्छेत् स्वगृहमादरात् ॥ इति पम्पापूजा ॥ देशकालौ स्मृत्वा, मयाऽऽचरितस्य व्रतस्य सम्पूर्णफलावाप्त्यर्थं भार्यया सह हनुमत्पूजां करिष्ये । इति सङ्कल्प्य (पीठस्य अधोभागे)-अतलाय नमः । वितलाय नमः । सुतलाय नमः । रसातलाय नमः । तलातलाय नमः । महातलाय नमः । पातालाय नमः । तत्र अगाधसर्वतःशब्दात्मने नमः । तत्र कमले कमठाय नमः । तदुपरि सहस्रमणिफणाप्रकाशमानशेषाय नमः । अष्टदिग्गजेभ्यो नमः । तदुपरि भूमण्डलाय नमः । तपोलोकाय । महर्लोकाय नमः । सत्यलोकाय । अष्टदिक्पालकेभ्यो नमः । तन्मध्ये मेरवे नमः । मेरोर्दक्षिणदिग्भागे द्रोणशैलाय नमः । तन्मध्ये सुरतरवे नमः । तन्मूले सुवर्णवेदिकायै नमः । वेद्यां वृक्षस्य पूर्वभागे नवरत्नखचितचारुरत्नपीठाय नमः । (हनुमत् पीठे अलङ्कृतं कलशं निधाय) ॐ नमो भगवते वायुनन्दनाय नमः । इति कलशस्थापनम् । ततः देशकालौ सङ्कीर्त्य सीतासमेतश्रीरामचन्द्रध्यानादि मानसं कृत्वा श्रीहनुमन्तमावाहयेत् । प्राणप्रतिष्ठां च विधिवत्कुर्यात् ॥ द्वादशग्रन्थिपूजा - अञ्जनीसूनवे नमः प्रथमग्रन्थिं पूजयामि । हनुमते नमः द्वितीयग्रन्थिं पूजयामि । वायुपुत्राय नमः तृतीयग्रन्थिं पूजयामि । महाबलाय नमः चतुर्थग्रन्थिं पूजयामि । रामेष्टाय नमः पञ्चमग्रन्थिं पूजयामि । फाल्गुनसखाय नमः षष्ठग्रन्थिं पूजयामि । पिङ्गाक्षाय नमः सप्तमग्रन्थिं पूजयामि । अमितविक्रमाय नमः अष्टमग्रन्थिं पूजयामि । कपीश्वराय नमः नवमग्रन्थिं पूजयामिः । सीताशोकविनाशनाय नमः दशमग्रन्थिं पूजयामि । लक्ष्मणप्राणदात्रे नमः एकादशग्रन्थिं पूजयामि । दशग्रीवदर्पघ्नाय नमः द्वादशग्रन्थिं पूजयामि । भविष्यद्ब्रह्मणेनमः त्रयोदशग्रन्थिं पूजयामि । (अङ्ग पूजा) हनुमते नमः पादौ पूजयामि । सुग्रीवसखाय नमः गुल्फौ पूजयामि । अङ्गदमित्राय नमः जङ्घे पूजयामि । रामदासाय नमः ऊरू पूजयामि । अक्षघ्नाय नमः कटिं पूजयामि । लङ्कादहनाय नमः वालं पूजयामि । रामदासाय नमः नाभिं पूजयामि । सागरोल्लङ्घनाय नमः मध्यं पूजयामि । लङ्कामर्दनाय नमः केशावलिं पूजयामि । सञ्जीवनीहर्त्रे नमः स्तनौ पूजयामि । सौमित्रिप्राणदाय नमः वक्षः पूजयामि । कुण्ठितदशकण्ठाय नमः कण्ठं पूजयामि । रामाभिषेककारिणे नमः हस्तौ पूजयामि । मन्त्ररचितरामायणाय नमः वक्त्रं पूजयामि । प्रसन्नदवदनाय नमः वदनं पूजयामि । पिङ्गनेत्राय नमः नेत्रं पूजयामि । श्रुतिपारगाय नमः श्रुतिं पूजयामि । ऊर्ध्वपुण्ड्रधारिणे नमः कपोलं पूजयामि । मणिकण्ठमालिने नमः शिरः पूजयामि । सर्वाभीष्टप्रदाय नमः सर्वाङ्गं पूजयामि । दोरग्रहणम् अञ्जनीगर्भसम्भूत रामकार्यार्थसम्भव । वरदातः कृता पूजा रक्ष मां प्रतिवत्सरम् । व्रतोद्यापनं - यजमानो महानद्यां माध्याह्निकस्नानं कृत्वा, नित्यकर्म विधायाऽऽचार्य-ब्रह्मऋत्विग्भिः सहोपविश्य, प्राणानायम्य, अद्य शुभतिथौ धर्मपत्नीसमेतस्य मम हनुमद्-व्रतकल्पोक्त-सम्पूर्णफलावाप्तये धर्मार्थ-काम-मोक्ष-चतुर्विध-पुरुषार्थसिद्ध्यर्थं श्रीमदाञ्जनेयप्रीत्यर्थं च हनुमद्व्रतोद्यापनाख्यं कर्म करिष्ये । अस्मिन् कर्मणि आचार्यत्वं भवन्तः कुर्वन्त्विति वेदवेत्तारं कुटुम्बिनं वित्तहीनं शान्तमाचारवन्तं ब्राह्मणमाचार्यत्वे नियोज्य, एवं लक्षणसहयुक्तमपरं ब्राह्मणं नियोज्य, ततः त्रयोदशकलशावाहनार्थं त्रयोदशब्राह्मणानृत्विग्विधौ नियोज्य एवमावरणं कृत्वा, ततो निष्कमात्रसुवर्णेन, तदर्धेन यथाशक्ति वा हनुमत्प्रतिमां कृत्वा प्राणानायम्य, हनुमद्-व्रतोद्यापनाङ्गत्वेन पम्पापूजां कृत्वा, पुनः प्राणानायम्य, शुभतिथौ धर्मपत्नीसमेतस्य मम मनोवाञ्छाफलसिद्ध्यर्थं श्रीमदाञ्जनेयप्रीत्यर्थमाञ्जनेयप्रतिमापूजां करिष्ये । इति सङ्कल्प्य, तत्प्रतिमाशुद्ध्यर्थं पञ्चामृतस्नपनं कृत्वा, मूलमन्त्रेण शुद्धोदकस्नपनं कृत्वा, पञ्चप्रस्थपरिमितश्वेततण्डुलोपरि अलङ्कृतपूर्णकलशं संस्थाप्य तदुपरि प्रतिमामाधाय प्राणप्रतिष्ठां कृत्वा।ततस्त्रयोदशकलशान् प्रतिमावेष्टितांस्तण्डुलेषु निधाय, कलशपूजां कृत्वा, तेषु कलशेषु वस्त्राण्यावेष्ट्य, तेषु नानाविधफलानि दत्वा, कलशपूजां कृत्वा, ततः पीठार्चनं कुर्यात् ॥ पीठस्याधस्तले - अतलाय नमः । वितलाय नमः । सुतलाय नमः । रसातलाय नमः । तलातलाय नमः । महातलाय नमः । पातालाय नमः । तथागाधसर्वतोमुख-सुधाधिभ्यां नमः । तत्र कमठाय नमः । तदुपरि - सहस्रफणिफणामण्डित-मणिप्रकाशिताशेषलोकशेषाय नमः । अष्टदिग्गजेभ्यो नमः । तदुपरि भूमण्डलाय नमः । दिक्पालेभ्यो नमः । तन्मध्ये मेरवे नमः । मेरोर्दक्षिणदिग्भागे रत्नसानवे नमः । तन्मध्ये सुरतरवे नमः । तन्मूले सुवर्णवेदिकायै नमः । वेद्यां वृक्षस्य पूर्वभागे नवरत्नखचितनूतनपीठाय नमः । (एवं भावयित्वा) स्वामिन् ! सर्वजगन्नाथ ! यावत् पूजावसानकम् । तावत् त्वं प्रीतिभावेन प्रतिमायां स्थिरो भव ॥ ततस्त्रयोदशग्रन्थियुक्तदोरकं प्रतिष्ठाप्य, ध्यानम् - वन्दे विद्युद्वलयलसितं ब्रह्मसूत्रं दधानं, कर्णद्वन्द्वे कनकवलये कुण्डले धारयन्तम् । सत्कौपीनं कटिपरिहृतं कामरूपं कपीन्द्रं नित्यं ध्यायाम्यनिलतनयं वज्रदेहं वरिष्ठम् ॥ प्रतप्त-जाम्बूनद-दिव्यमंसं देदीप्यमानाग्निविभासुराक्षम् । प्रफुल्ल-पङ्केरुह-शोभनास्यं ध्याये हृदिस्थं पवमानसूनुम् ॥ अथ कल्पोक्तप्रकारेण आवाहनादि -षोडशोपचारान् कृत्वा नमःसर्वहितार्थाय जगदाराध्यकर्मणे । अमेयायाञ्जनेयाय पुनरर्घ्यं पुरोऽर्पये । इति प्रसन्नार्घ्यं समर्पयामि नमः । भक्त्या प्रकल्पितैरेतैरुपचारैश्च षोडशैः । भगवन् हनुमन्नीश ! प्रीयतां मे प्रियोक्तिभिः ॥ उपचारसमर्पणं यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ एवं रात्रौ प्रथमयामपूजां कृत्वा, तस्यां रात्र्यां प्रतियामपूजां कुर्वन्, गीतवादित्रादिभिर्मङ्गलध्वनिभिर्भागवतपठनादिपुराण- श्रवणादिभिर्जागरणं कृत्वा, परेद्युः प्रभाते महानद्यां ब्राह्मणैः सह स्नानं कृत्वा, नित्यकर्म विधाय गन्धादिभिरलङ्कृत्य, गृहमागत्य, पूर्ववत्पूजां कृत्वा, हनुमद्व्रतोद्यापनाङ्गहोमं कुर्यात् । क्षीरान्नेनाज्येन पिप्पलसमिद्भिः कल्पोक्तद्रव्येण मूलमन्त्रेणाष्टोत्तरसहस्रमष्टोत्तरशतं वा होमं कुर्यात् । पूर्णाहुतिं दत्वा, ब्रह्मणे दक्षिणां दत्वा, तत आचार्यं पूजयित्वा, प्रतिमां सवस्त्रां सालङ्कारां सतण्डुलां च दत्वा, तद्दानसाद्गुण्यार्थं दक्षिणां दत्वा, आचार्याय सवत्सां सालङ्कारां पयस्विनीं गां दद्यात् । तत ऋत्विग्भ्यः सवस्त्रान् कलशान् दत्वा दक्षिणां च दत्वा, विशिष्टपङ्गुदीनान्धकृपणजनान् ब्राह्मणान् सन्तर्प्य, ऋत्विगादि- ब्राह्मणान् शतं पञ्चाशत्, पञ्चविंशतिं त्रयोदश वा ब्राह्मणान् मिष्टान्नभोजनेन सन्तर्प्य, भूरिदानं विभवानुसारेण कुर्यात् । एवं कुर्वन् यजमानः कृतार्थो भवति । हनुमान् सुप्रीतो वरदो भूत्वा पुत्रपौत्रादि सर्वकामान् प्रयच्छति । इति शौनकादिकान् प्रति सूतः प्रोवाच । इति ॥From Hanumatstutimanjari, Mahaperiaval Publication