अक्षर आकार:

श्रीहनुमद्वन्दनम्

shrIhanumadvandanam

श्रीहनुमद्वन्दनम्

अञ्जनानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥ १॥ अञ्जनीगर्भसम्भूत कपीन्द्रसचिवोत्तम । रामप्रिय नमस्तुभ्यं हनूमन् रक्ष सर्वदा ॥ २॥ अतुलितबलधामं स्वर्णशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् । सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि ॥ ३॥ अपराजित पिङ्गाक्ष नमस्ते राजपूजित । दीने मयि दयां कृत्वा मम दुःखं विनाशय ॥ ४॥ अशेषलङ्कापतिसैन्यहन्ता श्रीरामसेवाचरणैककर्ता । अनेकदुःखाहतलोकगोप्ता त्वसौ हनूमान्मम सौख्यकर्ता ॥ ५॥ आञ्जनेयं पाटलास्यं स्वर्णाद्रिसमविग्रहम् । पारिजातद्रुमूलस्थं वन्दे साधकनन्दनम् ॥ ६॥ आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् । पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥ ७॥ आधिव्याधिमहामारिग्रहपीडापहारिणे । प्राणापहर्त्रे दैत्यानां रामप्राणात्मने नमः ॥ ८॥ आपन्नाखिललोकार्तिहारिणे श्रीहनूमते । अकस्मादागतोत्पातनाशनाय नमोऽस्तु ते ॥ ९॥ उद्यत्कोट्यर्कसङ्काशं जगत्प्रक्षोभहारकम् । श्रीरामाङ्घ्रिध्याननिष्ठं सुग्रीवप्रमुखार्चितम् । वित्रासयन्तं नादेन राक्षसान् मारुतिं भजे ॥ १०॥ उद्यदादित्यसङ्काशमुदारभुजविक्रमम् । कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम् ॥ ११॥ श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम् । अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ १२॥ उद्यन्मार्तण्डकोटिप्रकटरुचियुतं चारुवीरासनस्थं मौञ्जीयज्ञोपवीतारुणरुचिरशिखाशोभनं कुण्डलाङ्कम् । भक्तानामिष्टदं तं प्रणतमुनिजनं मेघनादप्रमोदं वन्दे देवं विधेयं प्लवगकुलपतिं गोष्पदीभूतवार्धिम् ॥ १३॥ उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ १४॥ कदापि शुभ्रैर्वरचामरैः प्रभुं गायन् गुणान् वीजयति स्थितोऽग्रतः । कदाप्युपश्लोकयति स्वनिर्मितैः स्तवैः शुभैः श्रीहनुमान् कृताञ्जलिः॥१५॥ करात्तशैलशस्त्राय द्रुमशस्त्राय ते नमः । बालैकब्रह्मचर्याय रुद्रमूर्तिधराय च ॥ १६॥ कारागृहे प्रयाणे च सङ्ग्रामे देशविप्लवे । स्मरन्ति त्वां हनूमन्तं तेषां नास्ति विपत्तदा ॥ १७॥ कृतक्रोधे यस्मिन्नमरनगरी मङ्गलरवा नवातङ्का लङ्का समजनि वनं वृश्चति सति । सदा सीताकान्तप्रणतिमतिविख्यातमहिमा हनूमानव्यान्नः कपिकुलशिरोमण्डनमणिः ॥ १८॥ गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् । रामायणमहामालारत्नं वन्देऽनिलात्मजम् । १९ जानुस्थवामबाहुं च ज्ञानमुद्रापरं हरिम् । अध्यात्मचित्तमासीनं कदलीवनमध्यगम् । बालार्ककोटिप्रतिमं वन्दे ज्ञानप्रदं हरिम् ॥ २०॥ ज्वलत्काञ्चनवर्णाय दीर्घलाङ्गूलधारिणे । सौमित्रिजयदात्रे च रामदूताय ते नमः ॥ २१॥ तप्तचामीकरनिभं भीघ्नं संविहिताञ्जलिम् । चलत्कुण्डलदीप्तास्यं पद्माक्षं मारुतिं भजे ॥ २२॥ द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम् । मौञ्जीकौपीनसहितं तं वन्दे रामसेवकम् ॥ २३॥ दहनतप्तसुवर्णसमप्रभं भयहरं हृदये विहिताञ्जलिम् । श्रवणकुण्डलशोभिमुखाम्बुजं नमत वानरराजमिहाद्भुतम् ॥ २४॥ नखायुधाय भीमाय दन्तायुधधराय च । विहङ्गाय च शर्वाय वज्रदेहाय ते नमः ॥ २५॥ नादबिन्दुकलातीतं उत्पत्तिस्थितिवर्जितम् । साक्षादीश्वरसद्रूपं हनूमन्तं भजाम्यहम् ॥ २६॥ पञ्चास्यमच्युतमनेकविचित्रवर्णवक्त्रं शशाङ्कशेखरं कपिराजवर्यम् । पीताम्बरादिमुकुटैरुपशोभिताङ्गं पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि ॥ २७॥ पद्मरागमणिकुण्डलत्विषा पाटलीकृतकपोलमण्डलम् । दिव्यहेमकदलीवनान्तरे भावयामि पवमाननन्दनम् ॥ २८॥ प्रतप्तस्वर्णवर्णाभं संरक्तारुणलोचनम् । सुग्रीवादियुतं वन्दे पीताम्बरसमावृतम् । गोष्पदीकृतवारीशं (राशिं) पुच्छमस्तकमीश्वरम् ज्ञानमुद्रां च बिभ्राणं सर्वालङ्कारभूषितम् ॥ २९॥ बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता । अजाड्यं वाक्पटुत्वं च हनूमत्स्मरणाद्भवेत् ॥ ३०॥ भान्विन्दूचरणारविन्दयुगलं कौपीनमौञ्जीधरं काञ्चिश्रेणिधरं दुकूलवसनं यज्ञोपवीताजिनम् । हस्ताभ्यां धृतपुस्तकं च विलसद्धारावलिं कुण्डलं खेचालं विशिखं प्रसन्नवदनं श्रीवायुपुत्रं भजे ॥ ३१॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ ३२॥ मरुत्सुतं रामपदारविन्दवन्दारुबृन्दारकमाशु वन्दे । धीशक्तिभक्तिद्युतिसिद्धयो यं कान्तं स्वकान्ता इव कामयन्ते ॥ ३३॥ मर्कटेश महोत्साह सर्वशत्रुहरोत्तम । शत्रुं संहर मां रक्ष श्रीमन्नापद उद्धर ॥ ३४॥ मर्कटेश महोत्साह सर्वातङ्कनिवारक । अरीन्संहर मां रक्ष सुखं दापय मे प्रभो ॥ ३५॥ महाशैलं समुत्पाट्य धावन्तं रावणं प्रति । तिष्ठ तिष्ठ रणे दुष्ट घोररावं समुच्चरन् ॥ ३६॥ लाक्षारसारुणं वन्दे कालान्तकयमोपमम् । ज्वलदग्निलसन्नेत्रं सूर्यकोटिसमप्रभम् । अङ्गदाद्यैर्महावीरैर्वेष्टितं रुद्ररूपिणम् ॥ ३७॥ मारुतिं वीरवज्राङ्गं भक्तरक्षणदीक्षितम् । हनूमन्तं सदा वन्दे राममन्त्रप्रचारकम् ॥ ३८॥ यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् । बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥ ३९॥ यो वारांनिधिमल्पपल्वलमिवोल्लङ्घ्य प्रतापान्वितो वैदेहीघनशोकवह्निहरणो वैकुण्ठभक्तप्रियः । अक्षाद्यर्जितराक्षसेश्वरमहादर्पापहारी रणे सोऽयं वानरपुङ्गवोऽवतु सदा चास्मान् समीरात्मजः ॥ ४०॥ राजद्वारि बिलद्वारि प्रवेशे भूतसङ्कुले । गजसिम्हमहाव्याघ्रचौरभीषणकानने । ४१ शरणाय शरण्याय वातात्मज नमोस्तु ते । नमः प्लवगसैन्यानां प्राणभूतात्मने नमः ॥ ४२॥ रामेष्टं करुणापूर्णं हनूमन्तं भयापहम् । शत्रुनाशकरं भीमं सर्वाभीष्टफलप्रदम् ॥ ४३॥ प्रदोषे त्वां प्रभाते वा ये स्मरन्त्यञ्जनासुतम् । अर्थसिद्धिं यशःपूर्तिं प्राप्नुवन्ति न संशयः ॥ ४४॥ लाक्षारसारुणं वन्दे कालान्तकयमोपमम् । ज्वलदग्निलसन्नेत्रं सूर्यकोटिसमप्रभम् । अङ्गदाद्यैर्महावीरैर्वेष्टितं रुद्ररूपिणम् ॥ ४५॥ वज्रदेहाय कालाग्निरुद्रायामिततेजसे । ब्रह्मास्त्रस्तम्भनायास्मै नमः श्रीरुद्रमूर्तये ॥ ४६॥ वज्राङ्गं पिङ्गकेशाढ्यं स्वर्णकुण्डलमण्डितम् । नियुद्धमुपसङ्क्रम्य पारावारपराक्रमम् ॥ ४७॥ वामहस्तगदायुक्तं पाशहस्तकमण्डलुम् । उद्यद्दक्षिणदोर्दण्डं हनूमन्तं विचिन्तये ॥ ४८॥ वज्राङ्गं पद्मनेत्रं कनकमयलसत्कुण्डलाक्रान्तगण्डं दम्भोलिस्तम्भसारप्रहरणसुवशीभूतरक्षोऽधिनाथम् । उद्यल्लाङ्गूलसप्ताचलविचलकरं भीममूर्तिं कपीन्द्रं वन्दे तं रामचन्द्रप्रमुखदृढतरं सत्प्रसारं प्रसन्नम् ॥ ४९॥ वन्दे बालदिवाकरद्युतिनिभं देवारिदर्पापहं देवेन्द्रप्रमुखैःप्रशस्तयशसं देदीप्यमानं रुचा । सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥ ५०॥ वन्दे रणे हनुमन्तं कपिकोटिसमन्वितम् । धावन्तं रावणं जेतुं दृष्ट्वा सत्वरमुत्थितम् ॥ ५१॥ लक्ष्मणं च महावीरं पतितं रणभूतले । गुरुं च क्रोधमुत्पाद्य गृहीत्वा गुरुपर्वतम् ॥ ५२॥ हाहाकारैः सदर्पैश्च कम्पयन्तं जगत्त्रयम् । ब्रह्माण्डं स समावाप्य कृत्वा भीमकलेवरम् ॥ ५३॥ वन्दे वानरसिम्हखगराट् क्रोडाश्ववक्त्रान्वितं दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा । हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रीन् हलं खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम् ॥ ५४॥ वामहस्ते महावृक्षं दशास्यकरखण्डनम् । उद्यद्दक्षिणदोर्दण्डं हनूमन्तं विचिन्तये ॥ ५५॥ वामे करे वैरिभिदं वहन्तं शैलं परे श‍ृङ्खलहारटङ्कम् । दधानमच्छच्छवियज्ञसूत्रं भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ ५६॥ वामे जानुनि वामबाहुमपरं तं ज्ञानमुद्रायुतं हृद्देशे कलयन् वृतो मुनिगणैरध्यात्मदत्तेक्षणः । आसीनः कदलीवने मणिमये बालार्ककोटिप्रभो ध्यायन् ब्रह्म परं करोतु मनसः सिद्धिं हनूमान्मम ॥ ५७॥ वामे शैलं वैरिभिदं विशुद्धं टङ्कमन्यतः । दधानं स्वर्णवर्णं च वन्दे कुण्डलिनं हरिम् ॥ ५८॥ सदा राम रामेति नामामृतं तं सदा राममानन्दनिष्यन्दकन्दम् । पिबन्तं नमन्तं सुदन्तं हसन्तं हनूमन्तमन्तर्भजे तं नितान्तम् ॥ ५९॥ सपीतकौपीनमुदञ्चिताङ्गुलिम् समुज्ज्वलन्मौञ्ज्यजिनोपवीतिनम् । सकुण्डलं लम्बशिखासमावृतं तमाञ्जनेयं शरणं प्रपद्ये ॥ ६०॥ सर्वारिष्टनिवारकं शुभकरं पिङ्गाक्षमक्षापहं सीतान्वेषणतत्परं कपिवरं कोटीन्दुसूर्यप्रभम् । लङ्काद्वीपभयङ्करं सकलदं सुग्रीवसम्मानितं देवेन्द्रादिसमस्तदेवविनुतं काकुत्स्थदूतं भजे ॥ ६१॥ संसारसागरावर्तकर्तव्यभ्रान्तचेतसाम् । शरणागतमर्त्यानां शरण्याय नमोऽस्तु ते ॥ ६२॥ सीतारामपदाम्बुजे मधुपवद्यन्मानसं लीयते सीतारामगुणावली निशि दिवा यज्जिह्वया पीयते । सीतारामविचित्ररूपमनिशं यच्चक्षुषोर्भूषणं सीतारामसुनामधामनिरतं तं सद्गुरुं तं भजे ॥ ६३॥ सीतावियुक्तश्रीरामशोकदुःखभयापह । तापत्रितयसंहारिन्नाञ्जनेय नमोऽस्तु ते ॥ ६४॥ सीताशीर्वादसम्पन्न समस्तावयवाक्षत । लोललाङ्गूलपातेन ममारातीन्निवारय ॥ ६५॥ स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिम् । कुण्डलद्वयसंशोभिमुखाम्बुजमहं भजे ॥ ६६॥ स्वानन्दहेतोर्भजतां जनानां मग्नः सदा रामकथासुधायाम् । असाविदानीं च निषेवमाणो रामं पतिं किम्पुरुषे किलास्ते ॥ ६७॥ हनुमन्तं महावीरं वायुतुल्यपराक्रमम् । ममाभीष्टार्थसिद्धयर्थं प्रणमामि मुहुर्मुहुः ॥ ६८॥ हनूमान् रामपादाब्जसङ्गी वर्णिवरः शुचिः । सञ्जीवनोपहर्ता मे दीर्घमायुर्ददात्विह ॥ ६९॥ From Hanumatstutimanjari, Mahaperiaval Publication