अक्षर आकार:

श्रीहनुमद्गीतम्

shrIhanumadgItam

श्रीहनुमद्गीतम्

विनुतदैवते विश्वसद्गुरो हनुमदाख्य भो हन्त ते नमः । मनुजतां गते प्रेमतः सदा जनुरलङ्कलं जायतां ध्रुवम् ॥ १॥ विमलगौतमीवारिमज्जनैः सुमतिभिः सदा सेवितं भजे । विमलचेतसा वायुनन्दनं कमललोचनं कामितार्थदम् ॥ २॥ रघुपतिप्रियं राक्षसाप्रियं त्वघविदारकं स्वाङ्घ्रिसेविनाम् । जगदधीश्वरं जानकीहितं नगवराहरं नौमि सादरम् ॥ ३॥ वटतरोरधोऽवस्थितं हरिं कटकपूर्वकाकल्पभूषणम् । शठकुठारकं शङ्करं सतां भटतमं हरिं भावयाम्यहम् ॥ ४॥ कविवरेण सत्कृष्टनामिना सुतपसाञ्जना स्थापितं किल । क्षितिसुधाशिनां क्षेमदं सदा गतिसुतं स्तुवे गेयचर्यकम् ॥ ५॥ वनधिलङ्घनावाप्तसद्यशाः कनकदीधिते कामिते दिशाम् । सुनयने सुरेशार्चकादृशे हनुमदाख्य मे हे मरुत्सुत ॥ ६॥ कपिगणाधिपं कल्पपादपं स्वपदसेविनां सन्ततं सताम् । विपणिभूतपैर्वन्दितं सुराधिपतिभिर्भजे धीकृतेऽनिलम् ॥ ७॥ भीम मध्व मे भो त्वदागमे रमणमञ्जसा रामतुष्टिदम् । श्रमनिवारकं शान्तिदायकं त्वमनुसेवितुस्त्वां दिशेरज ॥ ८॥ सोन्नमित्यभिधोपेतग्रामसंस्थहनूमतः । इमां साङ्कर्षिणीं गीतां पठन् कामितमाप्नुयात् ॥ ९॥ From Hanumatstutimanjari, Mahaperiaval Publication