अक्षर आकार:

हनुमद्ध्यानम् २

Hanumaddhyanam 2

हनुमद्ध्यानम् २

नमस्ते देवदेवेश नमस्ते राक्षसान्तक । नमस्ते वानराधीश नमस्ते वायुनन्दन ॥ १॥ नमस्त्रिमूर्तिवपुषे वेदवेद्याय ते नमः । रेवानदी विहाराय सहस्रभुजधारिणे ॥ २॥ सहस्रवनितालोल कपिरूपाय ते नमः । दशाननवधार्थाय पञ्चाननधराय च ॥ ३॥ सुवर्चलाकलत्राय तस्मै हनुमते नमः । कर्कटीवधवेलायां षडाननधराय च ॥ ४॥ सर्वलोकहितार्थाय वायुपुत्राय ते नमः । रामाङ्कमुद्राधराय ब्रह्मलोकनिवासिने ॥ ५॥ विंशद्भुजसमेताय तस्मै रुद्रात्मने नमः । सर्वस्वतन्त्रदेवाय नानायुधधराय च ॥ ६॥ दिव्यमङ्गलरूपाय हनूमद्ब्रह्मणे नमः । दुर्दण्डिबन्धमोक्षाय कालनेमिहराय च ॥ ७॥ मैरावणविनाशाय वज्रदेहाय ते नमः । सर्वलोकप्रपूर्णाय भक्तानां हृन्निवासिने ॥ ८॥ आर्तानां रक्षणार्थाय वेदवेद्याय ते नमः । सर्वमन्त्रस्वरूपाय सृष्टिस्थित्यन्तहेतवे ॥ ९॥ नानावर्णधरायास्तु पापनाशय ते नमः । गङ्गातीरे विप्रमुख कपिलानुग्रहेच्छया ॥ १०॥ चतुर्भुजावताराय भविष्यद्ब्रह्मणे नमः । कौपीनकटिसूत्राय दिव्ययज्ञोपवीतिने ॥ ११॥ पीताम्बरधरायास्तु कालरूपाय ते नमः । यज्ञकर्त्रे यज्ञभोक्त्रे नानाविद्याविहारिणे ॥ १२॥ त्रिमूर्तितेजोवपुषे दिव्यरूपाय ते नमः । कदलीफलहस्ताय हेमरम्भाविहारिणे ॥ १३॥ भक्तध्यानावसन्ताय सर्वभूतात्मने नमः । वल्लरीधार्ययुक्ताय सहस्राश्वरथाय च ॥ १४॥ गुण्डक्रियागीतगानचतुराय नमो नमः । पञ्चाशद्वर्णरूपाय सूक्ष्मरूपाय विष्णवे ॥ १५॥ नरवानरवेषाय बहुरूपाय ते नमः । लङ्किणीवशवेलायामष्टादशभुजात्मने ॥ १६॥ ध्वजदत्तप्रपन्नाय अग्निगर्भाय ते नमः । उष्ट्रारोहविराराय पार्वतीनन्दनाय च ॥ १७॥ वज्रप्रहारचिह्नाय तस्मै सर्वात्मने नमः । पम्पातीरविहाराय केसरीनन्दनाय च । तप्तकाञ्चनवर्णाय वीररूपाय ते नमः ॥ १८॥ शक्तिं पाशं च कुन्तं परशुमपि हलं तोमरं खेटकं च शङ्खं चक्रं त्रिशूलं मुसलमपि गदां पट्टसं मुद्गरं च । गाण्डीवं चारुपद्मं द्विनवभुजवरे खड्गमप्याददानं वन्देऽहं वायुसूनुं सुररिपुमथनं भक्तरक्षाधुरीणम् ॥ १९॥ इति श्रीहनुमद्ध्यानं समाप्तम् ।