अक्षर आकार:

श्रीहनुमद्ध्यानम् मार्कण्डेयपुराणतः

shrIhanumaddhyAnam

श्रीहनुमद्ध्यानम् मार्कण्डेयपुराणतः

मरकतमणिवर्णं दिव्यसौन्दर्यदेहं नखरदशनशस्त्रैर्वज्रतुल्यैः समेतम् । तडिदमलकिरीटं मूर्ध्नि रोमाङ्कितं च हरितकुसुमभासं नेत्रयुग्मं सुफुल्लम् ॥ १॥ अनिशमतुलभक्त्या रामदेवस्य योग्या- न्निखिलगुरुचरित्राण्यास्यपद्माद्वदन्तम् । स्फटिकमणिनिकाशे कुण्डले धारयन्तं गजकर इव बाहुं रामसेवार्थजातम् ॥ २॥ अशनिसमद्रढिम्नं दीर्घवक्षःस्थलं च नवकमलसुपादं मर्दयन्तं रिपूंश्च । हरिदयितवरिष्ठं प्राणसूनुं बलाढ्यं निखिलगुणसमेतं चिन्तये वानरेशम् ॥ ३॥ इति मार्कण्डेयपुराणतः श्रीहनुमद्ध्यानम् । From Hanumatstutimanjari, Mahaperiaval Publication