हनुमदष्टोत्तरशतनामस्तुतिः ५
(कार्यकारस्वामिनाथार्यविरचिता रामनामाङ्किता) रामदूतो रामभृत्यो रामचित्तापहारकः । रामनामजपासक्तो रामकीर्तिप्रचारकः ॥ १॥ रामालिङ्गनसौख्यज्ञो रामविक्रमहर्षितः । रामबाणप्रभावज्ञो रामसेवाधुरन्धरः ॥ २॥ रामहृत्पद्ममार्तण्डो रामसङ्कल्पपूरकः । रामामोदितवाग्वृत्तिः रामसन्देशवाहकः ॥ ३॥ रामतारकगुह्यज्ञो रामाह्लादनपण्डितः । रामभूपालसचिवो रामधर्मप्रवर्तकः ॥ ४॥ रामानुजप्राणदाता रामभक्तिलतासुमम् । रामचन्द्रजयाशंसी रामधैर्यप्रवर्धकः ॥ ५॥ रामप्रभावतत्त्वज्ञो रामपूजनतत्परः । राममान्यो रामहृद्यो रामकृत्यपरायणः ॥ ६॥ रामसौलभ्यसंवेत्ता रामानुग्रहसाधकः । रामार्पितवचश्चित्तदेहवृत्तिप्रवर्त्तितः ॥ ७॥ रामसामुद्रिकाभिज्ञो रामपादाब्जषट्पदः । रामायणमहामालामध्याञ्चितमहामणिः ॥ ८॥ रामायणरसास्वादस्रवदश्रुपरिप्लुतः । रामकोदण्डटङ्कारसहकारिमहास्वनः ॥ ९॥ रामसायूज्यसाम्राज्यद्वारोद्घाटनकर्मकृत् । रामपादाब्जनिष्यन्दिमधुमाधुर्यलोलुपः ॥ १०॥ रामकैङ्कर्यमात्रैकपुरुषार्थकृतादरः । रामायणमहाम्भोधिमथनोत्थसुधाघटः ॥ ११॥ रामाख्यकामधुग्दोग्धा रामवक्त्रेन्दुसागरः । रामचन्द्रकरस्पर्शद्रवच्छीतकरोपलः ॥ रामायणमहाकाव्यशुक्तिनिक्षिप्तमौक्तिकः । रामायणमहारण्यविहाररतकेसरी ॥ १३॥ रामपत्न्येकपत्नीत्वसपत्नायितभक्तिमान् । रामेङ्गितरहस्यज्ञो राममन्त्रप्रयोगवित् ॥ १४॥ रामविक्रमवर्षर्तुपूर्वभूनीलनीरदः । रामकारुण्यमार्त्तण्डप्रागुद्यदरुणायितः ॥ १५॥ रामराज्याभिषेकाम्बुपवित्रीकृतमस्तकः । रामविश्लेषदावाग्निशमनोद्यतनीरदः ॥ १६॥ रामायणवियद्गङ्गाकल्लोलायितकीर्तिमान् । रामप्रपन्नवात्सल्यव्रततात्पर्यकोविदः ॥ १७॥ रामाख्यानसमाश्वस्तसीतामानससंशयः । रामसुग्रीवमैत्र्याख्यहव्यवाहेन्धनायितः ॥ १८॥ रामाङ्गुलीयमाहात्म्यसमेधितपराक्रमः । रामार्त्तिध्वंसनचणचूडामणिलसत्करः ॥ १९॥ रामनाममधुस्यन्दद्वदनाम्बुजशोभितः । रामनामप्रभावेण गोष्पदीकृतवारिधिः ॥ २०॥ रामौदार्यप्रदीपार्चिर्वर्धकस्नेहविग्रहः । रामश्रीमुखजीमूतवर्षणोन्मुखचातकः ॥ २१॥ रामभक्त्येकसुलभब्रह्मचर्यव्रते स्थितः । रामलक्ष्मणसंवाहकृतार्थीकृतदोर्युगः ॥ २२॥ रामलक्ष्मणसीताख्यत्रयीराजितहृद्गुहः । रामरावणसङ्ग्रामवीक्षणोत्फुल्लविग्रहः ॥ २३॥ रामानुजेन्द्रजिद्युद्धलब्धव्रणकिणाङ्कितः । रामब्रह्मानुसन्धानविधिदीक्षाप्रदायकः ॥ २४॥ रामरावणसङ्ग्राममहाध्वरविधानकृत् । रामनाममहारत्ननिक्षेपमणिपेटकः ॥ २५॥ रामताराधिपज्योत्स्नापानोन्मत्तचकोरकः । रामायणाख्यसौवर्णपञ्जरस्थितशारिकः ॥ २६॥ रामवृत्तान्तविध्वस्तसीताहृदयशल्यकः । रामसन्देशवर्षाम्बुवहन्नीलपयोधरः ॥ २७॥ रामराकाहिमकरज्योत्स्नाधवलविग्रहः । रामसेवामहायज्ञदीक्षितो रामजीवनः ॥ २८॥ रामप्राणो रामवित्तं रामायत्तकलेबरः । रामशोकाशोकवनभञ्जनोद्यत्प्रभञ्जनः ॥ २९॥ रामप्रीतिवसन्तर्तुसूचकायितकोकिलः । रामकार्यार्थोपरोधदूरोत्सारणलम्पटः ॥ ३०॥ रामायणसरोजस्थहंसो रामहिते रतः । रामानुजक्रोधवह्निदग्धसुग्रीवरक्षकः ॥ ३१॥ रामसौहार्दकल्पद्रुसुमोद्गमनदोहदः । रामेषुगतिसंवेत्ता रामजैत्ररथध्वजः ॥ ३२॥ रामब्रह्मनिदिध्यासनिरतो रामवल्लभः । रामसीताख्ययुगलयोजको राममानितः ॥ ३३॥ रामसेनाग्रणी रामकीर्तिघोषणडिण्डिमः । रामेतिद्व्यक्षराकारकवचावृतविग्रहः ॥ रामायणमहावृक्षफलासक्तकपीश्वरः । रामपादाश्रयान्वेषिविभीषणविचारवित् ॥ ३५॥ राममाहात्म्यसर्वस्वं रामसद्गुणगायकः । रामजायाविषादाग्निनिर्दग्धरिपुसैनिकः ॥ ३६॥ रामकल्पद्रुमूलस्थो रामजीमूतवैद्युतः । रामन्यस्तसमस्ताशो रामविश्वासभाजनम् ॥ ३७॥ रामप्रभावरचितशैत्यवालाग्निशोभितः । रामभद्राश्रयोपात्तधीरोदात्तगुणाकरः ॥ ३८॥ रामदक्षिणहस्ताब्जमुकुटोद्भासिमस्तकः । रामश्रीवदनोद्भासिस्मितोत्पुलकमूर्तिमान् । रामब्रह्मानुभूत्याप्तपूर्णानन्दनिमज्जितः ॥ ३९॥ इतीदं रामदूतस्य वायुसूनोर्महात्मनः । रामनामाङ्कितं नाममष्टोत्तरशतं शुभम् ॥ ४०॥ प्रसादादाञ्जनेयस्य देशिकानुग्रहेण च । रचितं स्वामिनाथेन कार्यकारेण भक्तितः ॥ ४१॥ भूयादभीष्टफलदं श्रद्धया पठतां नृणाम् । इहलोके परत्रापि रामसायूज्यदायकम् ॥ ४२॥From Hanumatstutimanjari, Mahaperiaval Publication