अक्षर आकार:

श्रीहनुमदष्टोत्तरशतनामस्तोत्रनामावलिः ९

shrI HanumadashtottarashatanAma stotram 9

श्रीहनुमदष्टोत्तरशतनामस्तोत्रनामावलिः ९

श्रीपराशर उवाच । अन्यस्तोत्रं प्रवक्ष्यामि रामप्रोक्तं महामुने । अष्टोत्तरशतं नाम्नां हनुमत्प्रतिपादकम् ॥ ॐ अस्य श्रीहनुमदष्टोत्तरशतदिव्यनामस्तोत्रमन्त्रस्य श्रीरामचन्द्र ऋषिः । अनुष्टुप्छन्दः । श्रीहनुमान् देवता । मारुतात्मज इति बीजम् । अञ्जनासूनुरिति शक्तिः । वायुपुत्रेति कीलकम् । मम श्रीहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ नमस्तस्मै हनुमते येन तीर्णो महार्णवः । रामलक्ष्मणसीताप्युत्तीर्णशोकमहार्णवः ॥ सप्तषष्टिर्हितां कोटि वानराणां तरस्विनाम् । यस्समुज्जीवयामास तं वन्दे मारुतात्मजम् ॥ यो दक्षिणां दिशं गत्वा वैदेहीं राममुद्रया । अजीवयत्तममृतं प्रपद्ये पवनात्मजम् ॥ इतिहासपुराणेषु प्रकीर्णानामितस्ततः । शतमष्टोत्तरं नाम्नां सङ्ग्रहिष्ये हनूमतः ॥ श्रीरामचन्द्र उवाच । ॐ आयुष्मते । अप्रमेयात्मने । हनुमते नमः । मारुतात्मजाय ऽञ्जनातनयाय श्रीमते । बालार्कफलभुक्धिये । सूर्यपृष्ठगमनाय पुण्याय । सर्वशास्त्रार्थतत्त्वविदे । बहुश्रुतव्याकरणाय । रामसुग्रीवसख्यकृते । रामदासाय । रामदूताय । रामात्मने । रामदैवताय । रामभक्ताय । रामसखाय । रामनिधये । रामहर्षणाय । महानुभावाय । मेधाविने । महेन्द्रगिरिमर्दनाय । मैनाकमानिताय । मान्याय । महोत्साहाय । महाबलाय । देवमाताहृन्निवहाय । गोष्पदीकृतवारिधये । लङ्काद्वीपविचित्राङ्गाय । सीतान्वेषणकोविदाय । सीतादर्शनसन्तुष्टाय । रामपत्नीप्रियंवदाय । दशकण्ठशिरच्छेत्रे । स्तुततार्क्ष्याय । अभिदर्शनाय । धीराय । काञ्चनवर्णाङ्गाय । तरुणार्कनिभाय । दीप्तानलार्चिषे । द्युतिमते । वज्रदंष्ट्राय । नखायुधाय । मेरुमन्दरसङ्काशाय । विद्रुमप्रतिमाननाय । समर्थाय । विश्रान्ताय । दुर्धर्षाय । शत्रुकम्पनाय । अशोकवनिकाच्छेत्रे ! वीरकिङ्करसूदनाय । चैत्यप्रासादविध्वंसिने । जम्बुमालीनिषूदनाय । सीताप्रसादकाय । शौरये वस्त्रलाङ्गूलपावकाय । दग्धलङ्काय । अप्रमेयात्मने repeated 2 । महाजीमूतनिस्वनाय । संस्कारसम्पन्नवचसे । विभीषणविशोककृते । मुष्टिपिष्टदशास्याङ्गाय । लक्ष्मणोद्वाहनप्रियाय । धूम्राक्षघ्ने । अकम्पनध्ने । त्रिशिरध्ने । निकुम्भध्ने । पापराक्षससङ्घध्नाय । पापनाशनकीर्तनाय । मृतसञ्जीवनाय । योगिने । विष्णुचक्रपराक्रमाय । हस्तन्यस्तौषधिगिरये । चतुर्वर्गफलप्रदाय । लक्ष्मणोज्जीवनाय । श्लाध्याय । लक्ष्मणार्थहृतौषधये । दशग्रीववधोद्योगिने । सीतानुग्रहभाजनाय । रामं प्रत्यागताय । दिव्याय । वैदेहीदत्तभूषणाय । रामाद्भुतयशस्तम्भाय । यावद्रामकथास्थिताय । निष्कल्मषाय । ब्रह्मचारिणे । विद्युत्सङ्घातपिङ्गलाय । कदलीवनमध्यस्थाय । महालक्ष्मीसमाश्रयाय । भीमनिष्कम्पनाय । भीमाय । अव्यग्राय । भीमसेनाग्रजाय । युगाय । धनञ्जयरथारूढाय । शिवभक्ताय । शिवप्रियाय । चूर्णीकृताक्षदेहाय । ज्वलिताग्निनिभाननाय । पिङ्गाक्षाय । विभवे आक्लान्ताय । लङ्किणीप्राणघातकाय । पुच्छाग्निदग्धलङ्काय । माल्यवत्प्राणहारिणे । श्रीप्रदाय । अनिलसूनवे । वाग्मिने वानरनायकाय नमः ॥ इत्येवं कीर्तनं यस्य नाम्नामष्टोत्तरं शतम् । पुण्यं पवनपुत्रस्य पावनं परिकीर्तनम् ॥ कीर्तयन् श्रावयन् श‍ृण्वन् आयुष्मत्तामरोगताम् । विष्णुभक्तिं श्रियं दीप्तिं प्राप्नोत्येव परायणः ॥ महाभयेषु युद्धेषु चोरव्यालमृगेषु च । जपतां कुरुते नित्यं भगवान् पवनात्मजः ॥ ॥ इति श्रीरामप्रोक्तं श्रीहनुमदष्टोत्तरशतनामस्तोत्रनामावलिः सम्पूर्णा ॥