श्रीहनुमदष्टोत्तरशतनामस्तोत्रम् ४
(श्रीरघुप्रवीरयतिकृतम्) यस्य संस्मरणादेव पुरुषार्थचतुष्टयम् । लभ्यते श्रीहनुमते नमस्तस्मै महात्मने ॥ १॥ हनूमान् वायुतनयः केसरीप्रियनन्दनः । अञ्जनानन्दनः श्रीमान् पिङ्गाक्षोऽमितविक्रमः ॥ २॥ सर्वलक्षणसम्पन्नः कल्याणगुणवारिधिः । स्वर्णवर्णो महाकायो महावीर्यो महाद्युतिः ॥ ३॥ महाबलो महौदार्यः सुग्रीवाभीष्टदायकः । रामदासाग्रणीर्भक्तमनोरथसुरद्रुमः ॥ ४॥ अरिष्टध्वान्ततरणिः सर्वदोषविवर्जितः । गोष्पदीकृतवाराशिः सीतादर्शनलालसः ॥ ५॥ देवर्षिसंस्तुतश्चित्रकर्मा जितखगेश्वरः । मनोजवो वायुजवो भगवान् प्लवगर्षभः ॥ ६॥ सुरप्रसूनाभिवृष्टः सिद्धगन्धर्वसेवितः । दशयोजनविस्तीर्णकायवानम्बराश्रयः ॥ महायोगी महोत्साहो महाबाहुः प्रतापवान् । रामद्वेषिजनासह्यः सज्जनप्रियदर्शनः ॥ ८॥ रामाङ्गुलीयवान् सर्वश्रमहीनो जगत्पतिः । मैनाकविप्रियः सिन्धुसंस्तुतः कद्रुरक्षकः ॥ ९॥ देवमानप्रदः साधुः सिंहिकावधपण्डितः । लङ्किण्यभयदाता च सीताशोकविनाशनः ॥ १०॥ जानकीप्रियसल्लापश्चूडामणिधरः कपिः । दशाननवरच्छेत्ता मशकीकृतराक्षसः ॥ ११॥ लङ्काभयङ्करः सप्तमन्त्रिपुत्रविनाशनः । दुर्धर्षप्राणहर्ता च यूपाक्षवधकारकः ॥ १२॥ विरूपाक्षान्तकारी च भासकर्णशिरोहरः । प्रभासप्राणहर्ता च तृतीयांशविनाशनः ॥ १३॥ अक्षराक्षससंहारी तृणीकृतदशाननः । स्वपुच्छगाग्निनिर्दग्धलङ्कापुरवरोऽव्ययः ॥ १४॥ आनन्दवारिधिर्धन्यो मेघगम्भीरनिःस्वनः । कपिप्रवीरसम्पूज्यो मधुभक्षणतत्परः ॥ १५॥ रामबाहुसमाश्लिष्टो भविष्यच्चतुराननः । सत्यलोकेश्वरः प्राणो विभीषणवरप्रदः ॥ १६॥ धूम्राक्षप्राणहर्ता च कपिसैन्यविवर्धनः । त्रिशीर्षान्तकरो मत्तनाशनोऽकम्पनान्तकः ॥ देवान्तकान्तकः शूरो युद्धोन्मत्तविनाशकः । निकुम्भान्तकरः शत्रुसूदनः सुरवीक्षितः ॥ १८॥ दशास्यगर्वहर्ता च लक्ष्मणप्राणदायकः । कुम्भकर्णजयी शक्रशत्रुगर्वापहारकः ॥ १९॥ सञ्जीवनाचलानेता मृगवानरजीवनः । जाम्बवत्प्रियकृद्वीरः सुग्रीवाङ्गदसेवितः ॥ २०॥ भरतप्रियसल्लापः सीताहारविराजितः । रामेष्टः फल्गुनसखः शरण्यत्राणतत्परः ॥ २१॥ उत्पत्तिस्थितिसंहारकर्ता किम्पुरुषालयः । वेदवेदाङ्गतत्त्वज्ञो भवरोगस्य भेषजम् ॥ २२॥ इत्थं हनुमतः पुण्यं शतमष्टोत्तरं पठन् । विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ २३॥ कन्यार्थी लभते कन्यां सुतार्थी लभते सुतम् । कीर्त्यर्थी लभते कीर्तिं मोक्षार्थी मोक्षमाप्नुयात् ॥ २४॥ रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । इदमायुष्करं धन्यं सर्वोपद्रवनाशनम् ॥ २५॥ सर्वशत्रुक्षयकरं सर्वपापप्रणाशनम् । समस्तयज्ञफलदं सर्वतीर्थफलप्रदम् ॥ २६॥ समस्तवेदफलदं सर्वदानफलप्रदम् । पठनीयं महत्पुण्यं सर्वसम्पत्समृद्धिदम् ॥ २७॥ एवमष्टोत्तरशतं नामनं हनूमतो यतिः । रघुप्रवीराभिधानः कृतवान् वाञ्छितार्थदम् ॥ २८॥From Hanumatstutimanjari, Mahaperiaval Publication