हनुमदष्टोत्तरशतनामस्तोत्रम् ३
(ब्रह्मवैवर्ते घटिकाचलमाहात्म्यतः) अतिपाटलवक्त्राब्जं धृतहेमाद्रिविग्रहम् । आञ्जनेयं शङ्खचक्रपाणिं चेतसि धीमहि ॥ १॥ पारिजातप्रियो योगी हनूमान् नृहरिप्रियः । प्लवगेन्द्रः पिङ्गलाक्षः शीघ्रगामी दृढव्रतः ॥ २॥ शङ्खचक्रवराभीतिपाणिरानन्ददायकः । स्थायी विक्रमसम्पन्नो रामदूतो महायशाः ॥ ३॥ सौमित्रिजीवनकरो लङ्काविक्षोभकारकः । उदधिक्रमणः सीताशोकहेतुहरो हरिः ॥ ४॥ बली राक्षससंहर्ता दशकण्ठमदापहः । बुद्धिमान् नैरृतवधूकण्ठसूत्रविदारकः ॥ सुग्रीवसचिवो भीमो भीमसेनसहोदरः । सावित्रविद्यासंसेवी चरितार्थो महोदयः ॥ ६॥ वासवाभीष्टदो भव्यो हेमशैलनिवासवान् । किंशुकाभोऽग्रयतनू ऋजुरोमा महामतिः ॥ ७॥ महाक्रमो वनचरः स्थिरबुद्धिरभीशुमान् । सिंहिकागर्भनिर्भेत्ता भेत्ता लङ्कानिवासिनाम् ॥ ८॥ अक्षशत्रुविनिघ्नश्च रक्षोऽमात्यभयावहः । वीरहा मृदुहस्तश्च पद्मपाणिर्जटाधरः ॥ ९॥ सर्वप्रियः सर्वकामप्रदः प्रांशुमुखश्शुचिः । विशुद्धात्मा विज्वरश्च सटावान् पाटलाधरः ॥ १०॥ भरतप्रेमजनकश्चीरवासा महोक्षधृक् । महास्त्रबन्धनसहो ब्रह्मचारी यतीश्वरः ॥ ११॥ महौषधोपहर्ता च वृषपर्वा वृषोदरः । सूर्योपलालितः स्वामी पारिजातावतंसकः ॥ १२॥ सर्वप्राणधरोऽनन्तः सर्वभूतादिगो मनुः । रौद्राकृतिर्भीमकर्मा भीमाक्षो भीमदर्शनः ॥ १३॥ सुदर्शनकरोऽव्यक्तो व्यक्तास्यो दुन्दुभिस्वनः । सुवेलचारी मैनाकहर्षदो हर्षणप्रियः ॥ १४॥ सुलभः सुव्रतो योगी योगिसेव्यो भयापहः । वालाग्निमथितानेकलङ्कावासिगृहोच्चयः ॥ १५॥ वर्धनो वर्धमानश्च रोचिष्णू रोमशो महान् । महादंष्ट्रो महाशूरः सद्गतिः सत्परायणः ॥ सौम्यदर्शी सौम्यवेषो हेमयज्ञोपवीतिमान् । मौञ्जीकृष्णाजिनधरो मन्त्रज्ञो मन्त्रसारथिः । जितारातिः षडूर्मिश्च सर्वप्रियहिते रतः ॥ १७॥ एतैर्नामपदैर्दिव्यैर्यः स्तौति तव सन्निधौ । हनुमंस्तस्य किं नाम नो भवेद्भक्तिशालिनः ॥ १८॥ प्रणवं च पुरस्कृत्य चतुर्थ्यन्तैर्नमोऽन्तकैः । एतैर्नामभिरव्यग्रैरुच्यते हनुमान् भवान् ॥ १९॥ ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः । विनश्यन्ति हनुमंस्ते नामसङ्कीर्तनक्षणे ॥ २०॥ भगवन् हनुमन् नित्यं राजवश्यं तथैव च । लक्ष्मीवश्यं च श्रीवश्यमारोग्यं दीर्घमायुषम् ॥ २१॥ प्राधान्यं सकलानां च ज्ञातिप्राधान्यमेव च । वीर्यं तेजश्च भक्तानां प्रयच्छसि महामते ॥ २२॥ (ब्रह्मवैवर्ते घटिकाचलमाहात्म्यतः) (घटिकाचले शङ्खचक्रधरो हनुमान्)From Hanumatstutimanjari, Mahaperiaval Publication