श्रीहनुमदष्टोत्तरशतनामस्तोत्रम् २
(पाञ्चरात्रागमतः) रामदासाग्रणीः श्रीमान् हनूमान् पवनात्मजः । आञ्जनेयः कपिश्रेष्ठः केसरीप्रियनन्दनः ॥ १॥ आरोपितांसयुगलरामरामानुजः सुधीः । सुग्रीवसचिवो वालिजितसुग्रीवमाल्यदः ॥ २॥ रामोपकारविस्मर्तृसुग्रीवसुमतिप्रदः । सुग्रीवसत्पक्षपाती रामकार्यसुसाधकः ॥ ३॥ मैनाकाश्लेषकृन्नागजननीजीवनप्रदः । सर्वदेवस्तुतः सर्वदेवानन्दविवर्धनः ॥ ४॥ छायान्त्रमालाधारी च छायाग्रहविभेदकः । सुमेरुसुमहाकायो गोष्पदीकृतवारिधिः ॥ बिडालसदृशाकारस्तप्तताम्रसमाननः । लङ्कानिभञ्जनः सीताराममुद्राङ्गुलीयदः ॥ ६॥ रामचेष्टानुसारेण चेष्टाकृद्विश्वमङ्गलः । श्रीरामहृदयाभिज्ञो निःशेषसुरपूजितः ॥ ७॥ अशोकवनसञ्च्छेत्ता शिंशुपावृक्षरक्षकः । सर्वरक्षोविनाशार्थं कृतकोलाहलध्वनिः ॥ ८॥ तलप्रहारतः क्षुण्णबहुकोटिनिशाचरः । पुच्छघातविनिष्पिष्टबहुकोटिनराशनः ॥ ९॥ जम्बुमाल्यन्तकः सर्वलोकान्तरसुतः कपिः । स्वदेहप्राप्तपिष्टाङ्गदुर्धर्षाभिधराक्षसः ॥ १०॥ तलचूर्णितयूपाक्षो विरूपाक्षनिबर्हणः । सुरान्तरात्मनः पुत्रो भासकर्णविनाशकः ॥ ११॥ अद्रिशृङ्गविनिष्पिष्टप्रघसाभिधराक्षसः । दशास्यमन्त्रिपुत्रघ्नः पोथिताक्षकुमारकः ॥ १२॥ सुवञ्चितेन्द्रजिन्मुक्तनानाशस्त्रास्त्रवृष्टिकः । इन्द्रशत्रुविनिर्मुक्तशस्त्राचाल्यसुविग्रहः ॥ १३॥ सुखेच्छयेन्द्रजिन्मुक्तब्रह्मास्त्रवशगः कृती । तृणीकृतेन्द्रजित्पूर्वमहाराक्षसयूथपः ॥ १४॥ रामविक्रमसत्सिन्धुस्तोत्रकोपितरावणः । स्वपुच्छवह्निनिर्दग्धलङ्कालङ्कापुरेश्वरः ॥ १५॥ वह्न्यनिर्दग्धाच्छपुच्छः पुनर्लङ्घितवारिधिः । जलदैवतसूनुश्च सर्ववानरपूजितः ॥ १६॥ सन्तुष्टःकपिभिः सार्धं सुग्रीवमधुभक्षकः । रामपादार्पितश्रीमच्चूडामणिरनाकुलः ॥ १७॥ भक्त्याकृतानेकरामप्रणामो वायुनन्दनः । रामालिङ्गनतुष्टाङ्गो रामप्राणप्रियः शुचिः ॥ १८॥ रामपादैकनिरतविभीषणपरिग्रहः । विभीषणश्रियः कर्ता रामलालितनीतिमान् ॥ १९॥ विद्रावितेन्द्रशत्रुश्च लक्ष्मणैकयशःप्रदः । शिलाप्रहारनिष्पिष्टधूम्राक्षरथसारथिः ॥ २०॥ गिरिशृङ्गविनिष्पिष्टधूम्राक्षो बलवारिधिः । अकम्पनप्राणहर्ता पूर्णविज्ञानचिद्घनः ॥ २१॥ रणाध्वरे कण्ठरोधमारितैकनिकुम्भकः । नरान्तकरथच्छेत्ता देवान्तकविनाशकः ॥ २२॥ मत्ताख्यराक्षसच्छेत्ता युद्धोन्मत्तनिकृन्तनः । त्रिशिरोधनुषश्छेत्ता त्रिशिरःखड्गभञ्जनः ॥ २३॥ त्रिशिरोरथसंहारी त्रिशिरस्त्रिशिरोहरः । रावणोरसि निष्पिष्टमुष्टिर्दैत्यभयङ्करः ॥ २४॥ वज्रकल्पमहामुष्टिघातचूर्णितरावणः । अशेषभुवनाधारो लक्ष्मणोद्धरणक्षमः ॥ २५॥ सुग्रीवप्राणरक्षार्थं मक्षिकोपमविग्रहः । कुम्भकर्णत्रिशूलैकसञ्छेत्ता विष्णुभक्तिमान् ॥ २६॥ नागास्त्रास्पृष्टसद्देहः कुम्भकर्णविमोहकः । शस्त्रास्त्रास्पृष्टसद्देहः सुज्ञानी रामसम्मतः ॥ २७॥ अशेषकपिरक्षार्थमानीतौषधिपर्वतः । स्वशक्त्या लक्ष्मणोद्धर्ता लक्ष्मणोज्जीवनप्रदः ॥ २८॥ लक्ष्मणप्राणरक्षार्थमानीतौषधिपर्वतः । तपःकृशाङ्गभरते रामागमनशंसकः ॥ २९॥ रामस्तुतस्वमहिमा सदा सन्दृष्टराघवः । रामच्छत्रधरो देवो वेदान्तपरिनिष्ठितः ॥ ३०॥ मूलरामायणसुधासमुद्रस्नानतत्परः । बदरीषण्डमध्यस्थनारायणनिषेवकः ॥ ३१॥ इत्येतच्छ्रीहनूमतो नामनमष्टोत्तरं शतम् । पठतां शृण्वतां चैव नित्यमभ्यसतां सताम् ॥ ३२॥ अनन्तपुण्यफलदं महापातकनाशनम् । महारोगप्रशमनं महादुःखविनाशनम् ॥ ३३॥ दुस्तरापत्प्रशमनं तापत्रयविनाशनम् । रामक्रोधादिशमनं बाह्यशत्रुविनाशनम् ॥ ३४॥ अनाद्यज्ञानशमनं संसारभयनाशनम् । महाबन्धहरं सम्यक् कर्मबन्धनिकृन्तनम् ॥ ३५॥ वादे विजयदं नित्यं रणे शत्रुविनाशनम् । धनधान्यप्रदं सम्यक् पुत्रपौत्रप्रवर्धनम् ॥ ३६॥ किमत्र बहुनोक्तेन मोक्षैकफलदं सताम् । पूर्णानुग्रहतो विष्णोर्यो वायुर्मोक्षदः सताम् ॥ तस्य स्तोत्रस्य माहात्म्यं कोऽपि वर्णयितुं क्षमः । श्रुतिस्मृतिपुराणानि भारताद्युक्तयस्तथा ॥ ३८॥ अस्मिन्नर्थे प्रमाणानि सत्यं सत्यं वदाम्यहम् । सत्यं सत्यं पुनः सत्यं नात्र कार्या विचारणा ॥ ३९॥ (पाञ्चरात्रागमतः)From Hanumatstutimanjari, Mahaperiaval Publication