अक्षर आकार:

श्रीरामरहस्योक्तं श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्

Shri Hanumad Ashtottarashatanama Stotram from Ramarahasya

श्रीरामरहस्योक्तं श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्

। श्रीसीतारामौ विजयेते । हनुमानञ्जनासूनुर्धीमान् केसरिनन्दनः । वातात्मजो वरगुणो वानरेन्द्रो विरोचनः ॥ १॥ सुग्रीवसचिवः श्रीमान् सूर्यशिष्यस्सुखप्रदः । ब्रह्मदत्तवरो ब्रह्मभूतो ब्रह्मर्षिसन्नुतः ॥ २॥ जितेन्द्रियो जिताराती रामदूतो रणोत्कटः । सञ्जीविनीसमाहर्ता सर्वसैन्यप्रहर्षकः ॥ ३॥ रावणाकम्प्यसौमित्रिनयनस्फुटभक्तिमान् । अशोकवनिकाच्छेदी सीतावात्सल्यभाजनम् ॥ ४॥ विषीदद्भूमितनयार्पितरामाङ्गुलीयकः । चूडामणिसमानेता रामदुःखापहारकः ॥ ५॥ अक्षहन्ता विक्षतारिस्तृणीकृतदशाननः । कुल्याकल्पमहाम्भोधिस्सिंहिकाप्राणनाशनः ॥ ६॥ सुरसाविजयोपायवेत्ता सुरनरार्चितः । जाम्बवन्नुतमाहात्म्यो जीविताहतलक्ष्मणः ॥ ७॥ जम्बुमालिरिपुर्जम्भवैरिसाध्वसनाशनः । अस्त्रावध्यो राक्षसारिस्सेनापतिविनाशनः ॥ ८॥ लङ्कापुरप्रदग्धा च वालानलसुशीतलः । वानरप्राणसन्दाता वालिसूनुप्रियङ्करः ॥ ९॥ महारूपधरो मान्यो भीमो भीमपराक्रमः । भीमदर्पहरो भक्तवत्सलो भर्त्सिताशरः ॥ १०॥ रघुवंशप्रियकरो रणधीरोरयाकरः । भरतार्पितसन्देशो भगवच्छिलष्टविप्रग्रहः ॥ ११॥ अर्जुनध्वजवासी च तर्जिताशरनायकः । महान् महामधुरवाङ्महात्मा मातरिश्वजः ॥ १२॥ मरुन्नुतो महोदारगुणो मधुवनप्रियः । महाधैर्यो महवीर्यो मिहिराधिककान्तिमान् ॥ १३॥ अन्नदो वसुदो वाग्मी ज्ञानदो वत्सलो वशी । वशीकृताखिलजगद्वरदो वानराकृतिः ॥ १४॥ भिक्षुरूपप्रतिच्छन्नोऽभीतिदो भीतिवर्जितः । भूमीधरहरोभूतिदायको भूतसन्नुतः ॥ १५॥ भुक्तिमुक्तिप्रदो भूमा भुजनिर्जितराक्षसः । वाल्मीकिस्तुतमाहात्म्यो विभीषणसुहृद्विभुः ॥ १६॥ अनुकम्पानिधिः पम्पातीरचारी प्रतापवान् । बह्मास्त्रहतरामादिजीवनो ब्रह्मवत्सलः ॥ १७॥ जयवार्ताहरो जेता जानकीशोकनाशनः । जानकीरामसाहित्यकारी जनसुखप्रदः ॥ १८॥ बहुयोजनगन्ता च बलवीर्यगुणाधिकः । रावणालयमर्दी च रामपादाब्जवाहकः ॥ १९॥ रामनामलसद्वक्तो रामायणकथादृतः । रामस्वरूपविलसन्मानसो रामवल्लभः ॥ २०॥ इत्थमष्टोत्तरशतं नाम्नां वातात्मजस्य यः । अनुसन्ध्यं पठेत्तस्य मारुतिस्संप्रसीदति ॥ २१॥ प्रसन्ने मारुतौ रामो भुक्तिमुक्ती प्रयच्छति । इति श्रीरामरहस्योक्तं श्रीहनुमदष्टोत्तरशतनामस्तोत्रं समाप्तम् ।