श्रीहनुमदष्टोत्तरशतनामस्तोत्रम् १
(श्रीपद्मोत्तरखण्डतः) नारद उवाच । सर्वशास्त्रार्थतत्त्वज्ञ सर्वदेवनमस्कृत । यत्त्वया कथितं पूर्वं रामचन्द्रेण धीमता ॥ १॥ स्तोत्रं समस्तपापघ्नं श्रुत्वा धन्योऽस्मि पद्मज । इदानीं श्रोतुमिच्छामि लोकानां हितकाम्यया ॥ २॥ वायोरंशावतरणमाहात्म्यं सर्वकामदम् । वद मे विस्तराद्ब्रह्मन् देवगुह्यमनुत्तमम् ॥ ३॥ इति पृष्टो नारदेन ब्रह्मा लोकपितामहः । नमस्कृत्य जगन्नाथं लक्ष्मीकान्तं परात्परम् ॥ ४॥ प्रोवाच वायोर्माहात्म्यं नारदाय महात्मने । यच्छ्रुत्वा सर्वसौभाग्यं प्राप्नुवन्ति जनाः सदा ॥ ५॥ ब्रह्मोवाच । इदं रहस्यं पापघ्नं वायोरष्टोत्तरं शतम् । विष्णुना लोकनाथेन रमायै कथितं पुरा ॥ ६॥ रमा मामाह यद्दिव्यं तत्ते वक्ष्यामि नारद । इदं पवित्रं पापघ्नं श्रद्धया हृदि धारय ॥ ७॥ हनुमानञ्जनापुत्रो वायुसूनुर्महाबलः । रामदूतो हरिश्रेष्ठः सूरी केसरीनन्दनः ॥ सूर्यश्रेष्ठो महाकायो वज्री वज्रप्रहारवान् । महासत्त्वो महारूपो ब्रह्मण्यो ब्राह्मणप्रियः ॥ ९॥ मुख्यप्राणो महाभीमः पूर्णप्रज्ञो महागुरुः । ब्रह्मचारी वृक्षधरः पुण्यः श्रीरामकिङ्करः ॥ १०॥ सीताशोकविनाशी च सिंहिकाप्राणनाशकः । मैनाकगर्वभङ्गश्च छायाग्रहनिवारकः ॥ ११॥ लङ्कामोक्षप्रदो देवः सीतामार्गणतत्परः । रामाङ्गुलिप्रदाता च सीताहर्षविवर्धनः ॥ १२॥ महारूपधरो दिव्यो ह्यशोकवननाशकः । मन्त्रिपुत्रहरो वीरः पञ्चसेनाग्रमर्दनः ॥ १३॥ दशकण्ठसुतघ्नश्च ब्रह्मास्त्रवशगोऽव्ययः । दशास्यसल्लापपरो लङ्कापुरविदाहकः ॥ १४॥ तीर्णाब्धिः कपिराजश्च कपियूथप्ररञ्जकः । चूडामणिप्रदाता च श्रीवश्यः प्रियदर्शकः ॥ १५॥ कौपीनकुण्डलधरः कनकाङ्गदभूषणः । सर्वशास्त्रसुसम्पन्नः सर्वज्ञो ज्ञानदोत्तमः ॥ १६॥ मुख्यप्राणो महावेगः शब्दशास्त्रविशारदः । बुद्धिमान् सर्वलोकेशः सुरेशो लोकरञ्जकः ॥ १७॥ लोकनाथो महादर्पः सर्वभूतभयापहः । रामवाहनरूपश्च सञ्जीवाचलभेदकः ॥ १८॥ कपीनां प्राणदाता च लक्ष्मणप्राणरक्षकः । रामपादसमीपस्थो लोहितास्यो महाहनुः ॥ १९॥ रामसन्देशकर्ता च भरतानन्दवर्धनः । रामाभिषेकलोलश्च रामकार्यधुरन्धरः ॥ २०॥ कुन्तीगर्भसमुत्पन्नो भीमो भीमपराक्रमः । लाक्षागृहाद्विनिर्मुक्तो हिडिम्बासुरमर्दनः ॥ २१॥ धर्मानुजः पाण्डुपुत्रो धनञ्जयसहायवान् । बकासुरवधोद्युक्तस्तद्ग्रामपरिरक्षकः ॥ २२॥ भिक्षाहाररतो नित्यं कुलालगृहमध्यगः । पाञ्चाल्युद्वाहसञ्जातसम्मोदो बहुकान्तिमान् ॥ २३॥ विराटनगरे गूढचरः कीचकमर्दनः । दुर्योधननिहन्ता च जरासन्धविमर्दनः ॥ २४॥ सौगन्धिकापहर्ता च द्रौपदीप्राणवल्लभः । पूर्णबोधो व्यासशिष्यो यतिरूपो महामतिः ॥ २५॥ दुर्वादिगजसिंहस्य तर्कशास्त्रस्य खण्डकः । बौद्धागमविभेत्ता च साङ्ख्यशास्त्रस्य दूषकः ॥ २६॥ द्वैतशास्त्रप्रणेता च वेदव्यासमतानुगः । पूर्णानन्दः पूर्णसत्वः पूर्णवैराग्यसागरः ॥ २७॥ इति श्रुत्वा नारदस्तु वायोश्चरितमद्भुतम् । मुदा परमया युक्तः स्तोतुं समुपचक्रमे ॥ २८॥ रामावतारजाताय हनुमद्रूपिणे नमः । वासुदेवस्य भक्ताय भीमसेनाय ते नमः ॥ २९॥ वेदव्यासमतोद्धारकर्त्रे पूर्णसुखाय च । दुर्वादिध्वान्तचन्द्राय पूर्णबोधाय ते नमः ॥ ३०॥ गुरुराजाय धन्याय कञ्जनेत्राय ते नमः । दिव्यरूपाय शान्ताय नमस्ते यतिरूपिणे ॥ ३१॥ स्वान्तस्थवासुदेवाय सच्चित्ताय नमो नमः । अज्ञानतिमिरार्काय व्यासशिष्याय ते नमः ॥ ३२॥ अथाभिवन्द्य पितरं ब्रह्माणं नारदो मुनिः । परिक्रम्य विनिर्यातो वासुदेवं हरिं स्मरन् ॥ ३३॥ अष्टोत्तरशतं दिव्यं वायुसूनोर्महात्मनः । यः पठेच्छ्रद्धया नित्यं सर्वबन्धात् प्रमुच्यते ॥ ३४॥ सर्वरोगविनिर्मुक्तः सर्वपापैर्न लिप्यते । राजवश्यं भवेन्नित्यं स्तोत्रस्यास्य प्रभावतः ॥ ३५॥ भूतग्रहनिवृत्तिश्च प्रजावृद्धिश्च जायते । आयुरारोग्यमैश्वर्यं बलं कीर्तिं लभेत् पुमान् ॥ ३६॥ यः पठेद्वायुचरितं भक्त्या परमया युतः । सर्वज्ञानसमायुक्तः स याति परमं पदम् ॥ ३६॥ (श्रीपद्मोत्तरखण्डतः)From Hanumatstutimanjari, Mahaperiaval Publication