अक्षर आकार:

श्रीहनुमदष्टोत्तरशतनामावलिः

Shri Hanumadashtottarashatanamavali

श्रीहनुमदष्टोत्तरशतनामावलिः

ॐ श्री हनूमते नमः । ॐ अभूत-पूर्व डिम्भश्रिये नमः । ॐ अञ्जना-गर्भ-सम्भवाय नमः । ॐ नभस्वद्-वर-संप्राप्ताय नमः । ॐ दीप्त-कालाग्नि-सन्निभाय नमः । ॐ भून-भोत्तर-भिन्नाद-स्फुरद्-गिरि-गुहामुखाय नमः । ॐ भानु-बिम्ब-फलोत्साहाय नमः । ॐ फलायित-विदुन्तुदाय नमः । ॐ ऐरावण-ग्रह-व्यग्राय नमः । ॐ कुलिश-ग्रसनोन्मुखाय नमः । ॐ सुरासुर-युधाभेद्याय नमः । १० ॐ चैत्य-भेदिने नमः । ॐ परोदयाय नमः । ॐ हनूमते नमः । ॐ अति-विख्याताय नमः । ॐ प्रख्यात-बल-पोरुषाय नमः । ॐ शिखावते नमः । ॐ रत्न-मञ्जीराय नमः । ॐ स्वर्ण-पट्टोत्तरच्चदाय नमः । ॐ विद्युद्-वलय-यज्ञोपवीतिने नमः । ॐ द्युमणि-कुण्डलाय नमः । २० ॐ हेम-मोञ्जी-समाबद्धाय नमः । ॐ शुद्ध-जाम्बूनद-प्रभाय नमः । ॐ कणत्-कौपीन-पटवते नमः । ॐ वटु-शिखाग्रण्यै नमः । ॐ सिम्ह-सम्हननाकाराय नमः । ॐ तरुणार्क-निभाननाय नमः । ॐ वशीबन्धी-कृत-मनसे नमः । ॐ तप्त-चामीकरेक्षणाय नमः । ॐ वज्र-देहाय नमः । ॐ वज्र-नखाय नमः । ३० ॐ वज्र-संस्पर्श-वालधिये नमः । ॐ अव्याहत-मनोवेगाय नमः । ॐ हरिदश्व-रथानुगाय नमः । ॐ सारग्रहण-चातुर्याय नमः । ॐ शब्द-ब्रह्मैक-पारगाय नमः । ॐ पम्पावन-चराय नमः । ॐ वाग्मिने नमः । ॐ राम-सुग्रीव-सख्य-कृते नमः । ॐ स्वामि-मुद्राङ्कित-कराय नमः । ॐ क्षितिजान्वेषणोद्यमाय नमः । ४० ॐ स्वयम्प्रभा-समालोकाय नमः । ॐ बिल-मार्ग-विनिर्गमाय नमः । ॐ अम्बोधि-दर्शनोद्विग्न-मानसाङ्गद-सैनिकाय नमः । ॐ प्रायोपविष्ट-प्लवग-प्राणत्राण-परायणाय नमः । ॐ अदेव-दानव-गतये नमः । ॐ अप्रतिद्वन्द्व-साहसाय नमः । ॐ स्ववेग-सम्भव-जञ्झा-मरुद्रोणी-कृतार्णवाय नमः । ॐ सागर-स्मृत-वृत्तान्त-मैनाक-कृत-सौहृदाय नमः । ॐ अणोरणीयसे नमः । ॐ महतो महीयसे नमः । ५० ॐ सुरसार्थिताय नमः । ॐ त्रिंशद्-योजन-पर्यन्त-छायच्छाया-ग्रहान्तकाय नमः । ॐ लङ्काहकार-शमनाय नमः । ॐ शङ्कातङ्क-विवर्जिताय नमः । ॐ हस्तामलकवद्-दृष्ट-राक्षसान्तः-पुराखिलाय नमः । ॐ चिन्ता-दुरन्त-वैदेही-संवादाय नमः । ॐ सफल-श्रमाय नमः । ॐ मैथिली-दत्त-माणिक्याय नमः । ॐ छिन्नाशोक-वन-द्रुमाय नमः । ॐ बलैकदेश-क्षपणाय नमः । ६० ॐ कुमाराक्ष-निषूदनाय नमः । ॐ घोषित-स्वामि-विजयाय नमः । ॐ तोरणारोहणोत्सुकाय नमः । ॐ रण-रङ्ग-समुत्साहाय नमः । ॐ रघु-वंश-जयध्वजाय नमः । ॐ इन्द्रजिद्-युद्ध-निर्भिण्णाय नमः । ॐ ब्रह्मास्त्र-परिरम्भणाय नमः । ॐ प्रभाषित-दश-ग्रीवाय नमः । ॐ भस्मसात्-कृत-पट्टनाय नमः । ॐ वार्धि-संशान्त-वालार्चिषे नमः । ७० ॐ कृत-कृत्याय नमः । ॐ उत्तमोत्तमाय नमः । ॐ कल्लोलास्फाल-वेलान्त-पारावार-परिभ्रमाय नमः । ॐ स्वागमा-काङ्क्षिकीचोद्याय नमः । ॐ सुहृत्-तारेन्दु-मण्डलाय नमः । ॐ मधु-कानन-सर्वस्व-सन्तर्पित-बलीमुखाय नमः । ॐ दृष्टा सितेति वचनाय नमः । ॐ कोसलेन्द्राभिनन्दिताय नमः । ॐ स्कन्दस्थ-कोदण्ड-धराय नमः । ॐ कल्पान्त-घन-निस्वनाय नमः । ८० ॐ सिन्धु-बन्धन-सन्नाहाय नमः । ॐ सुवेलारोह-सम्भ्रमाय नमः । ॐ अक्षोभ्य-बल-संरुद्ध-लङ्का-प्राकार-गोपुराय नमः । ॐ युध्यद्-वानर-दैतेय-जयापजय-साधनाय नमः । ॐ राम-रावण-शस्त्रास्त्र-ज्वालाज्वाल-निरीक्षणाय नमः । ॐ मुष्टि-निर्भिण्ण-दैतेन्द्र-मुहुस्तुत-नभश्चराय नमः । ॐ जाम्बवन्-नुति-संहृष्ट-समाक्रान्त-नभ-स्थलाय नमः । ॐ गन्धर्व-गर्व-विध्वंसिने नमः । ॐ वश्य-दिव्यौषधी-नगाय नमः । ॐ सौमित्रि-मूर्चा-रजनि-प्रत्यूषस्-तुष्ट-वासराय नमः । ९० ॐ रक्षस्-सेनाब्दि-मथनाय नमः । ॐ जय-श्री-दान-कौशलाय नमः । ॐ सैन्य-सन्त्रास-विक्रमाय नमः । ॐ हर्ष-विस्मित-भूपुत्री-जय-वृत्तान्त-सूचकाय नमः । ॐ राघवी-राघवारूढ-पुष्पकारोह-कौतुकाय नमः । ॐ प्रिय-वाक्-तोषित-गुहाय नमः । ॐ भरतानन्द-सौहृदाय नमः । ॐ श्री सीताराम-पट्टाभिषेक-सम्भार-सम्भ्रमाय नमः । ॐ काकुत्स्थ-दयिता-दत्त-मुक्ताहार-विराजिताय नमः । ॐ अमोघ-मन्त्र-यन्त्रौघ-स्फुट-निर्धूत-कल्मषाय नमः । १०० ॐ भजत्-किम्पुरुष-द्वीपाय नमः । ॐ भविष्यत्-पद्म-सम्भवाय नमः । ॐ आपदुत्तार-चरणाय नमः । ॐ फाल्गुन-सखिने नमः । ॐ श्री राम-चरण-सेवा-धुरन्धराय नमः । ॐ शीघ्राभीष्ट-फल-प्रदाय नमः । ॐ वरद-वीर-हनूमते नमः । ॐ श्री आञ्जनेय-स्वामिने नमः ।१०८ इति हनुमदष्टोत्तरशतनामावलिः समाप्ता ।