अक्षर आकार:

श्रीरामरहस्योक्ता हनुमदष्टोत्तरशतनामावलिः

Shri Hanumad Ashtottarashata Namavali from Ramarahasya

श्रीरामरहस्योक्ता हनुमदष्टोत्तरशतनामावलिः

। श्रीरामो जयति । ॐ हनुमते नमः । ॐ अञ्जनासूनवे नमः । ॐ धीमते नमः । ॐ केसरिनन्दनाय नमः । ॐ वातात्मजाय नमः । ॐ वरगुणाय नमः । ॐ वानरेन्द्राय नमः । ॐ विरोचनाय नमः । ॐ सुग्रीवसचिवाय नमः । ॐ श्रीमते नमः । १० ॐ सूर्यशिष्याय नमः । ॐ सुखप्रदाय नमः । ॐ ब्रह्मदत्तवराय नमः । ॐ ब्रह्मभूताय नमः । ॐ ब्रह्मर्षिसन्नुताय नमः । ॐ जितेन्द्रियाय नमः । ॐ जितारातये नमः । ॐ रामदूताय नमः । ॐ रणोत्कटाय नमः । ॐ सञ्जीवनीसमाहर्त्रे नमः । २० ॐ सर्वसैन्यप्रहर्षकाय नमः । ॐ रावणाकम्प्यसौमित्रिनयनस्फुटभक्तिमते नमः । ॐ अशोकवनिकाच्छेदिने नमः । ॐ सीतावात्सल्यभाजनाय नमः । ॐ विषीदद्भूमितनयाऽर्पितरामाङ्गुलीयकाय नमः । ॐ चूडामाणिसमानेत्रे नमः । ॐ रामदुःखापहारकाय नमः । ॐ अक्षहन्त्रे नमः । ॐ विक्षतारये नमः । ॐ तृणीकृतदशाननाय नमः । ॐ कुल्याकल्पमहाम्भोधये नमः । ॐ सिंहिकाप्राणनाशनाय नमः । ॐ सुरसाविजयोपायवेत्त्त्रे नमः । ॐ सुरवरार्चिताय नमः । ॐ जाम्बवन्नुतमाहात्म्याय नमः । ॐ जीविताहतलक्ष्मणाय नमः । ॐ जम्बुमालिरिपवे नमः । ॐ जम्भवैरिसाध्वसनाशनाय नमः । ॐ अस्त्रावध्याय नमः । ॐ राक्षसारये नमः । ४० ॐ सेनापतिविनाशनाय नमः । ॐ लङ्कापुरप्रदग्ध्रे नमः । ॐ वालानलसुशीतलाय नमः । ॐ वानरप्राणसन्दात्रे नमः । ॐ वालिसूनुप्रियङ्कराय नमः । ॐ महारूपधराय नमः । ॐ मान्याय नमः । ॐ भीमाय नमः । ॐ भीमपराक्रमाय नमः । ॐ भीमदर्पहराय नमः । ५० ॐ भक्तवत्सलाय नमः । ॐ भर्त्सिताशराय नमः । ॐ रघुवंशप्रियकराय नमः । ॐ रणधीराय नमः । ॐ रयाकराय नमः । ॐ भरतार्पितसन्देशाय नमः । ॐ भगवच्छ्लिष्टविग्रहाय नमः । ॐ अर्जुनध्वजवासिने नमः । ॐ तर्जिताशरनायकाय नमः । ॐ महते नमः । ६० ॐ महामधुरवाचे नमः । ॐ महात्मने नमः । ॐ मातरिश्वजाय नमः । ॐ मरुन्नुताय नमः । ॐ महोदारगुणाय नमः । ॐ मधुवनप्रियाय नमः । ॐ महाधैर्याय नमः । ॐ महावीर्याय नमः । ॐ मिहिराधिककान्तिमते नमः । ॐ अन्नदाय नमः । ७० ॐ वसुदाय नमः । ॐ वाग्मिने नमः । ॐ ज्ञानदाय नमः । ॐ वत्सलाय नमः । ॐ वशिने नमः । ॐ वशीकृताखिलजगते नमः । ॐ वरदाय नमः । ॐ वानराकृतये नमः । ॐ भिक्षुरूपप्रतिच्छन्नाय नमः । ॐ अभीतिदाय नमः । ८० ॐ भीतिवर्जिताय नमः । ॐ भूमीधरहराय नमः । ॐ भूतिदायकाय नमः । ॐ भूतसन्नुताय नमः । ॐ भुक्तिमुक्तिदाय नमः । ॐ भूम्ने नमः । ॐ भुजनिर्जितराक्षसाय नमः । ॐ वाल्मीकिस्तुतमाहात्म्याय नमः । ॐ विभीषणसुहृदे नमः । ॐ विभवे नमः । ९० ॐ अनुकम्पानिधये नमः । ॐ पम्पातीरचारिणे नमः । ॐ प्रतापवते नमः । ॐ ब्रह्मास्रहतरामादिजीवनाय नमः । ॐ ब्रह्मवत्सलाय नमः । ॐ जयवार्ताहराय नमः । ॐ जेत्रे नमः । ॐ जानकीशोकनाशनाय नमः । ॐ जानकीरामसाहित्यकारिणे नमः । ॐ जनसुखप्रदाय नमः । १०० ॐ बहुयोजनगन्त्रे नमः । ॐ बलवीर्यगुणाधिकाय नमः । ॐ रावणालयमर्दिने नमः । ॐ रामपादाब्जवाहकाय नमः । ॐ रामनामलसद्वक्त्राय नमः । ॐ रामायणकथाऽऽदृताय नमः । ॐ रामस्वरूपविलसन्मानसाय नमः । ॐ रामवल्लभाय नमः । १०८ इति श्रीरामरहस्योक्ता श्रीहनुमदष्टोत्तरशतनामावलिः समाप्ता । असुकरलाभैर्ग्रन्थैरमुद्रितै रद्ययावदतिरस्यैः । महिततनुर्वहतु मुदं मनसि सतां रामभक्तिकल्पलता ॥