अक्षर आकार:

हनुमदष्टकम्

Hanumadashtakam

हनुमदष्टकम्

वीर! त्वमादिथ रविं तमसा त्रिलोकी व्याप्ता भयं तदिह कोऽपि न हर्त्तुमीशः । देवैः स्तुतस्तमवमुच्य निवारिता भी- र्जानाति को न भुवि सङ्कटमोचनं त्वाम् ॥ १॥ भ्रातुर्भयादवसदद्रिवरे कपीशः शापान्मुने रधुवरं प्रतिवीक्षमाणः । आनीय तं त्वमकरोः प्रभुमार्त्तिहीनं जानाति को न भुवि सङ्कटमोचनं त्वाम् ॥ २॥ विज्ञापयञ्जनकजा -स्थितिमीशवर्यं सीताविमार्गणपरस्य कपेर्गणस्य । प्राणान् ररक्षिथ समुद्रतटस्थितस्य जानाति को न भुवि सङ्कटमोचनं त्वाम् ॥ ३॥ शोकान्वितां जनकजां कृतवानशोकां मुद्रां समर्प्य रघुनन्दननामयुक्ताम । हत्वा रिपूनरिपुरं हुतवान् कृशानौ जानाति को न भुवि सङ्कटमोचनं त्वाम् ॥ ४॥ श्रीलक्ष्मण निहतवान् युधि मेघनादो द्रोणाचलं त्वमुदपाटय औषधार्थम् । आनीय तं विहितवानसुमन्तमाशु जानाति को न भुवि सङ्कटमोचनं त्वाम् ॥ ५॥ युद्धे दशास्यविहिते किल नागपाशै- र्बद्धां विलोक्य पृतनां मुमुहे खरारिः । आनीय नागभुजमाशु निवारिता भी- र्जानाति को न भुवि सङ्कटमोचनं त्वाम् ॥ ६॥ भ्रात्रान्वितं रघुवरं त्वहिलोकमेत्य देव्यै प्रदातुमनसं त्वहिरावणं त्वाम् । सैन्यान्वितं निहतवाननिलात्मजं द्राक् जानाति को न भुवि सङ्कटमोचनं त्वाम् ॥ ७॥ वीर! त्वया हि विहितं सुरसर्वकार्यं मत्सङ्कटं किमिह यत्त्वयका न हार्यम् । एतद् विचार्य हर सङ्कटमाशु मे त्वं जानाति को न भुवि सङ्कटमोचनं त्वाम् ॥ ८॥ रक्तवर्णो महाकायो रक्तलाङ्गुलवाञ्छुचिः । हनूमान् दुष्टदलनः सदा विजयतेतराम् ॥ ९॥ हनुमदष्टकमेतदनुत्तमं सुकवि-भक्त-सुधी-तुलसीकृतम् । कपिलदेवबुधाऽनुकृतं तथा सुरगिराऽभयदं सकलार्थदम् ॥ १०॥ इति वाराणसेय-संस्कृत-विश्वविद्यालय-व्याख्याता- पण्डितश्रीकपिलदेवत्रिपाठिना विरचितं हनुमदष्टकं समाप्तम् ।