श्रीहनुमदष्टादशाक्षरमन्त्रजपविधानम्
ॐ नमो भगवते आञ्जनेयाय महाबलाय स्वाहा ॥ अस्य मन्त्रस्य ईश्वर ऋषिः अनुष्टुप् छन्दः । हनुमान् देवता । हुं बीजम् । स्वाहा शक्तिः । सर्वेष्टसिद्धये जपे विनियोगः । ध्यानम् ॐ दहनतप्तसुवर्णसमप्रभं भयहरं हृदये विहिताञ्जलिम् । श्रवणकुण्डलशोभिमुखाम्बुजं नमत वानरराजमिहाद्भुतम् ॥ षडङ्गन्यासवन्दनम्- ॐ आञ्जनेयाय नमः । ॐ रुद्रमूर्तये नमः । ॐ वायुपुत्राय नमः । ॐ अग्निगर्भाय नमः । ॐ रामदूताय नमः । ॐ ब्रह्मास्त्रनिवारकाय ममः । दिशावन्दनम्- ॐ रामभक्ताय नमः । ॐ महातेजसे नमः । ॐ कपिराजाय नमः । ॐ महाबलाय नमः । ॐ द्रोणाद्रिहारकाय नमः । ॐ मेरुपीठार्चनकारकाय नमः । ॐ दक्षिणाशाभास्कराय नमः । ॐ सर्वविघ्ननिवारकाय नमः । परिवारवन्दनम्- ॐ सुग्रीवाय नमः । ॐ अङ्गदाय नमः । ॐ नीलाय नमः । ॐ जाम्बवते नमः । ॐ नलाय नमः । ॐ सुषेणाय नमः । ॐ द्विविदाय नमः । ॐ मैन्दाय नमः । यन्त्रस्थापना ॥ संविन्मय प्रभो देव परामृतरसप्रिय । अभीष्टं मम देहि त्वं शरणागतवत्सल ॥ विश्वलोचनचक्रपूजा ॐ नमो भगवते हनुमते सर्वभूतात्मने हनुमते सर्वात्मसंयोग- पद्मपीठात्मने नमः ॥ काम्यमन्त्रयोगफलानि जपित्वा क्षुद्ररोगेभ्यो मुच्यते दिवसत्रयात् । भूतप्रेतपिशाचादिनाशाय च समाचरेत् । महारोगनिवृत्त्यै च मुच्यते दिवसत्रयात् । एकाशनोऽयुतं नित्यं जपन्ध्यायन्कपीश्वरम् । राक्षसौघं विनिघ्नन्तं अचिराज्जयति द्विषः ॥ लङ्कां दहन्तं निध्यायन्नयुतं प्रजपेन्मनुम् । शत्रूणां प्रदहेद्ग्रामानचिरादेव साधकः ॥ यः कपीशं सदा गेहे पूजयेज्जपतत्परः । आयुर्लक्ष्म्यौ प्रवर्धेते तस्य नश्यन्त्युपद्रवाः ॥ शार्दूलतस्करादिभ्यो रक्षेन्मनुरयं स्मृतः । प्रस्वापकाले चौरेभ्यो दुष्टस्वप्नादपि ध्रुवम् ॥From Hanumatstutimanjari, Mahaperiaval Publication