अक्षर आकार:

हनुमान चालीसा संस्कृतानुवादः

Hanuman Chalisa in Sanskrit

हनुमान चालीसा संस्कृतानुवादः

अनुवादकः पं. काशीनाथ शास्त्री हनुमान चालीसा । संस्कृत में हनुमान चालीसा श्री गुरु चरण सरोज रज निज मनु मुकुरु सुधारि । बरनऊं रघुवर बिमल जसु जो दायकु फल चारि ॥ हृद्दर्पणं नीरजपादयोश्च गुरोः पवित्रं रजसेति कृत्वा । फलप्रदायी यदयं च सर्वम् रामस्य पूतञ्च यशो वदामि ॥ बुद्धि हीन तनु जानिकै सुमिरौं पवनकुमार । बल बुद्धि विद्या देहु मोहि हरहु क्लेश विकार ॥ स्मरामि तुभ्यम् पवनस्य पुत्रम् बलेन रिक्तो मतिहीनदासः । दूरीकरोतु सकलं च दुःखम् विद्यां बलं बुद्धिमपि प्रयच्छ ॥ जय हनुमान ज्ञान गुण सागर जय कपीस तिहुं लोक उजागर । जयतु हनुमद्देवो ज्ञानाब्धिश्च गुणागरः । जयतु वानरेशश्च त्रिषु लोकेषु कीर्तिमान् ॥ (१) रामदूत अतुलित बलधामा अन्जनि पुत्र पवनसुत नामा । दूतः कोशलराजस्य शक्तिमांश्च न तत्समः । अञ्जना जननी यस्य देवो वायुः पिता स्वयम् ॥ (२) महावीर विक्रम बजरंगी कुमति निवार सुमति के संगी । हे वज्राङ्ग महावीर त्वमेव च सुविक्रमः । कुत्सितबुद्धिशत्रुस्त्वम् सुबुद्धेः प्रतिपालकः ॥ (३) कंचन बरन बिराज सुबेसा कानन कुण्डल कुंचित केसा । काञ्चनवर्णसंयुक्तः वासांसि शोभनानि च । कर्णयोः कुण्डले शुभ्रे कुञ्चितानि कचानि च ॥ (४) हाथ बज्र औ ध्वजा बिराजै कांधे मूंज जनेऊ साजे । वज्रहस्ती महावीरः ध्वजायुक्तस्तथैव च । स्कन्धे च शोभते यस्य मुञ्जोपवीतशोभनम् ॥ (५) संकर सुवन केसरी नन्दन तेज प्रताप महाजगबन्दन । नेत्रत्रयस्य पुत्रस्त्वं केशरीनन्दनः खलु । तेजस्वी त्वं यशस्ते च वन्द्यते पृथिवीतले ॥ (६) विद्यावान गुनी अति चातुर राम काज करिबै को आतुर । विद्यावांश्च गुणागारः कुशलोऽपि कपीश्वरः । रामस्य कार्यसिद्ध्यर्थम् उत्सुको सर्वदैव च ॥ (७) प्रभु चरित्र सुनिबे को रसिया राम लखन सीता मन बसिया । राघवेन्द्रचरित्रस्य रसज्ञः सः प्रतापवान् । वसन्ति हृदये तस्य सीता रामश्च लक्ष्मणः ॥ (८) सूक्ष्म रूप धरि सियहिं दिखावा विकट रूप धरि लंक जरावा । वैदेही सम्मुखे तेन प्रदर्शितस्तनुः लघुः । लङ्का दग्धा कपीशेन विकटरूपधारिणा । (९) भीम रूप धरि असुर संहारे रामचन्द्र के काज संवारे । हताः रूपेण भीमेन सकलाः रजनीचराः । कार्याणि कोशलेन्द्रस्य सफलीकृतवान् कपिः ॥ (१०) लाय सजीवन लखन जियाए श्री रघुवीर हरषि उर लाए । जीवितो लक्ष्मणस्तेन खल्वानीयौषधम् तथा रामेण हर्षितो भूत्वा वेष्टितो हृदयेन सः ॥ (११) रघुपति कीन्ही बहुत बडाई तुम मम प्रिय भरत सम भाई । प्राशंसत् मनसा रामः कपीशं बलपुङ्गवम् । प्रियं समं मदर्थं त्वम् कैकेयीनन्दनेन च ॥ (१२) सहस बदन तुम्हरो जस गावैं अस कहि श्रीपति कण्ठ लगावैं । यशो मुखैः सहस्रैश्च गीयते तव वानर । हनुमन्तं परिष्वज्य प्रोक्तवान् रघुनन्दनः ॥ (१३) सनकादिक ब्रह्मादि मुनीसा नारद सारद सहित अहीसा । सनकादिसमाः सर्वे देवाः ब्रह्मादयोऽपि च । भारतीसहितः शेषो देवर्षिः नारदः खलु ॥ (१४) जम कुबेर दिगपाल जहां ते कबि कोबिद कहि सकहि कहां ते । कुबेरो यमराजश्च दिक्पालाः सकलाः स्वयम् । पण्डिताः कवयः सर्वे शक्ताः न कीर्तिमण्डने ॥ (१५) तुम उपकार सुग्रीवहिं कीन्हा राम मिलाय राज पद दीन्हा । उपकृतश्च सुग्रीवो वायुपुत्रेण धीमता । वानराणामधीपोऽभूद् रामस्य कृपया हि सः ॥ (१६) तुम्हरो मन्त्र विभीषण माना लंकेश्वर भए सब जग जाना । तवैव चोपदेशेन दशवक्त्रसहोदरः । प्राप्नोति नृपत्वं सः जानाति सकलं जगत् ॥ (१७) जुग सहस्र जोजन पर भानू लील्यो ताहि मधुर फल जानू । योजनानां सहस्राणि दूरे भुवः स्थितो रविः । सुमधुरं फलं मत्वा निगीर्णः भवता पुनः ॥ (१८) प्रभु मुद्रिका मेलि मुख माहीं जलधि लांघि गए अचरज नाहिं । मुद्रिकां कोशलेन्द्रस्य मुखे जग्राह वानरः । गतवानब्धिपारं सः नैतद् विस्मयकारकम् ॥ (१९) दुर्गम काज जगत के जेते सुगम अनुग्रह तुम्हरे तेते । यानि कानि च विश्वस्य कार्याणि दुष्कराणि हि । भवद्कृपाप्रसादेन सुकराणि पुनः खलु ॥ (२०) राम दुआरे तुम रखवारे होत न आज्ञा बिनु पैसारे । द्वारे च कोशलेशस्य रक्षको वायुनन्दनः । तवानुज्ञां विना कोऽपि न प्रवेशितुमर्हति ॥ (२१) सब सुख लहै तुम्हारी सरना तुम रक्षक काहु को डरना । लभन्ते शरणं प्राप्ताः सर्वाण्येव सुखानि च । भवति रक्षके लोके भयं मनाग् न जायते ॥ (२२) आपन तेज सम्हारो आपे तीनो लोक हांक ते कांपै । समर्थो न च संसारे वेगं रोद्धुं बली खलु । कम्पन्ते च त्रयो लोकाः गर्जनेन तव प्रभो ॥ (२३) भूत पिसाच निकट नहिं आवै महाबीर जब नाम सुनावै । श्रुत्वा नाम महावीरं वायुपुत्रस्य धीमतः । भूतादयः पिशाचाश्च पलायन्ते हि दूरतः ॥ (२४) नासै रोग हरै सब पीरा जो समिरै हनुमत बलबीरा । हनुमन्तं कपीशं च ध्यायन्ति सततं हि ये । नश्यन्ति व्याधयः तेषां पीडाः दूरीभवन्ति च ॥ (२५) संकट ते हनुमान छुडावै मन क्रम बचन ध्यान जो लावै । मनसा कर्मणा वाचा ध्यायन्ति हि ये जनाः । दुःखानि च प्रणश्यन्ति हनुमन्तम् पुनः पुनः ॥ (२६) सब पर राम तपस्वी राजा तिनके काज सकल तुम साजा । नृपाणाञ्च नृपो रामः तपस्वी रघुनन्दनः । तेषामपि च कार्याणि सिद्धानि भवता खलु ॥ (२७) और मनोरथ जो कोई लावै सोई अमित जीवन फल पावै । कामान्यन्यानि च सर्वाणि कश्चिदपि करोति यः । प्राप्नोति फलमिष्टं सः जीवने नात्र संशयः॥ (२८) चारो जुग परताप तुम्हारा है प्रसिद्ध जगत उजियारा । कृतादिषु च सर्वेषु युगेषु सः प्रतापवान् । यशः कीर्तिश्च सर्वत्र दोदीप्यते महीतले ॥ (२९) साधु सन्त के तुम रखवारे असुर निकन्दन राम दुलारे । साधूनां खलु सन्तानां रक्षयिता कपीश्वरः । असुराणाञ्च संहर्ता रामस्य प्रियवानर ॥ (३०) अष्ट सिद्धि नौ निधि के दाता अस वर दीन जानकी माता । सिद्धिदो निधिदः त्वञ्च जनकनन्दिनी स्वयम् । दत्तवती वरं तुभ्यं जननी विश्वरूपिणी ॥ (३१) राम रसायन तुम्हरे पासा सदा रहो रघुपति के दासा । कराग्रे वायुपुत्रस्य चौषधिः रामरूपिणी । रामस्य कोशलेशस्य पादारविन्दवन्दनात् ॥ (३२) तुम्हरे भजन राम को पावै जन्म जन्म के दुख बिसरावै । पूजया मारुतपुत्रस्य नरः प्राप्नोति राघवम् । जन्मनां कोटिसङ्ख्यानां दूरीभवन्ति पातकाः ॥ (३३) अन्त काल रघुवर पुर जाई जहां जन्म हरिभक्त कहाई । देहान्ते च पुरं रामं भक्ताः हनुमतः सदा । प्राप्य जन्मनि सर्वे हरिभक्ताः पुनः पुनः ॥ (३४) और देवता चित्त न धरई हनुमत सेइ सर्व सुख करई । देवानामपि सर्वेषां संस्मरणं वृथा खलु । कपिश्रेष्ठस्य सेवा हि प्रददाति सुखं परम् ॥ (३५) संकट कटै मिटै सब पीरा जो सुमिरै हनुमत बलबीरा । करोति सङ्कटं दूरं सङ्कटमोचनः कपिः । नाशयति च दुःखानि केवलं स्मरणं कपेः ॥ (३६) जय जय हनुमान गोसाईं कृपा करहु गुरुदेव की नाईं । जयतु वानरेशश्च जयतु हनुमद् प्रभुः । गुरुदेवकृपातुल्यम् करोतु मम मङ्गलम् ॥ (३७) जो सत बार पाठ कर कोई छूटहि बन्दि महासुख होई । श्रद्धया येन केनापि शतवारं च पठ्यते । मुच्यते बन्धनाच्छीघ्रम् प्राप्नोति परमं सुखम् ॥ (३८) जो यह पढै हनुमान चालीसा होय सिद्धि साखी गौरीसा । स्तोत्रं तु रामदूतस्य चत्वारिंशच्च सङ्ख्यकम् । पठित्वा सिद्धिमाप्नोति साक्षी कामरिपुः स्वयम् ॥ (३९) तुलसीदास सदा हरि चेरा कीजै नाथ हृदय मँह डेरा । सर्वदा रघुनाथस्य तुलसी सेवकः परम् । (सर्वदा रघुनाथस्य रवीन्द्रः सेवकः परम्) विज्ञायेति कपिश्रेष्ठ वासं मे हृदये कुरु ॥ (४०) पवनतनय संकट हरन मंगल मूरति रूप । राम लखन सीता सहित हृदय बसहु सुर भूप ॥ विघ्नोपनाशी पवनस्य पुत्रः कल्याणकारी हृदये कपीश । सौमित्रिणा राघवसीतया च सार्धं निवासं कुरु रामदूत ॥

संस्कृत में हनुमान चालीसा

अनुवादकः पं. काशीनाथ शास्त्री हृद्दर्पणं नीरजपादयोश्च गुरोः पवित्रं रजसेति कृत्वा । फलप्रदायी यदयं च सर्वं रामस्य पूतञ्च यशो वदामि ॥ स्मरामि तुभ्यं पवनस्य पुत्रं बलेन रिक्तो मतिहीनदासः । दूरीकरोतु सकलञ्च दुःखं विद्यां बलं बुद्धिमपि प्रयच्छ ॥ जयतु हनुमद्देवो ज्ञानाब्धिश्च गुणाकरः । जयतु वानरेशश्च त्रिषु लोकेषु कीर्तिमान् ॥ १॥ दूतः कोशलराजस्य शक्तिमांश्च न तत्समः । अञ्जना जननी यस्य देवो वायुः पिता स्वयम् ॥ २॥ हे वज्राङ्ग महावीर त्वमेव च सुविक्रमः । कुत्सितबुद्धिशत्रुस्त्वं सुबुद्धेः प्रतिपालकः ॥ ३॥ काञ्चनवर्णसंयुक्तः वासांसि शोभनानि च । कर्णयोः कुण्डले शुभ्रे कुञ्चितानि कचानि च ॥ ४॥ वज्रहस्ती महावीरः ध्वजायुक्तो तथैव च । स्कन्धे च शोभते यस्य मुञ्जोपवीतशोभनम् ॥ ५॥ नेत्रत्रयस्य पुत्रस्त्वं केशरीनन्दनो खलु । तेजस्वी त्वं यशस्ते च वन्द्यते पृथिवीतले ॥ ६॥ विद्यावांश्च गुणागारः कुशलोऽपि कपीश्वरः । रामस्य कार्यसिद्ध्यर्थ मुत्सुको सर्वदैव च ॥ ७॥ राघवेन्द्रचरित्रस्य रसज्ञो स प्रतापवान् । वसन्ति हृदये तस्य सीता रामश्च लक्ष्मणः ॥ ८॥ वैदेहीसम्मुखे तेन प्रदर्शितस्तनुः लघुः । लङ्का दग्धा कपीशेन विकटरूपधारिणा ॥ ९॥ हताः रूपेण भीमेन सकलाः रजनकचराः । कार्याणि कोशलेन्द्रस्य सफलीकृतवान् प्रभुः ॥ १०॥ जीवितो लक्ष्मणस्तेन खल्वानीयौषधं तथा । रामेण हर्षितो भूत्वा वेष्टितो हृदयेन सः ॥ ११॥ प्राशंसत् मनसा रामः कपीशं बलपुङ्गवम् । प्रियं समं मदर्थं त्वं कैकेयीनन्दनेन च ॥ १२॥ यशो मुखैः सहस्रैश्च गीयते तव वानर । हनुमन्तं परिष्वज्य प्रोक्तवान् रघुनन्दनः ॥ १३॥ सनकादिसमाः सर्वे देवाः ब्रह्मादयोऽपि च । भारतीसहितो शेषो देवर्षिः नारदः खलु ॥ १४॥ कुबेरो यमराजश्च दिक्पालाः सकलाः स्वयम् । पण्डिताः कवयो सर्वे शक्ताः न कीर्तिमण्डने ॥ १५॥ उपकृतश्च सुग्रीवो वायुपुत्रेण धीमता । वानराणामधीपोऽभूद् रामस्य कृपया हि सः ॥ १६॥ तवैव चोपदेशेन दशवक्त्रसहोदरः । प्राप्नोतीति नृपत्वं सः जानाति सकलं जगत् ॥ १७॥ योजनानां सहस्राणि दूरे भुवो स्थितो रविः । सुमधुरं फलं मत्वा निगीर्णः भवता ननु ॥ १८॥ मुद्रिकां कोशलेन्द्रस्य मुखे जग्राह वानरः । गतवानब्धिपारं सः नैतद् विस्मयकारकम् ॥ १९॥ यानि कानि च विश्वस्य कार्याणि दुष्कराणि हि । भवद्कृपाप्रसादेन सुकराणि पुनः खलु ॥ २०॥ द्वारे च कोशलेशस्य रक्षको वायुनन्दनः । तवानुज्ञां विना कोऽपि न प्रवेशितुमर्हति ॥ २१॥ लभन्ते शरणं प्राप्ताः सर्वाण्येव सुखानि च । भवति रक्षके लोके भयं मनाग् न जायते ॥ २२॥ समर्थो न च संसारे वेगं रोद्धुं बली खलु । कम्पन्ते च त्रयो लोकाः गर्जनेन तव प्रभो ॥ २३॥ श्रुत्वा नाम महावीरं वायुपुत्रस्य धीमतः । भूतादयः पिशाचाश्च पलायन्ते हि दूरतः ॥ २४॥ हनुमन्तं कपीशञ्च ध्यायन्ति सततं हि ये । नश्यन्ति व्याधयः तेषां रोगाः दूरीभवन्ति च ॥ २५॥ मनसा कर्मणा वाचा ध्यायन्ति हि ये जनाः । दुःखानि च प्रणश्यन्ति हनुमन्तं पुनः पुनः ॥ २६॥ नृपाणाञ्च नृपो रामः तपस्वी रघुनन्दनः । तेषामपि च कार्याणि सिद्धानि भवता खलु ॥ २७॥ कामान्यन्यानि सर्वाणि कश्चिदपि करोति च । प्राप्नोति फलमिष्टं स जीवने नात्र संशयः ॥ २८॥ कृतादिषु च सर्वेषु युगेषु स प्रतापवान् । यशः कीर्तिश्च सर्वत्र देदीप्यते महीतले ॥ २९॥ साधूनां खलु सन्तानां रक्षयिता कपीश्वरः । राक्षसकुलसंहर्ता रामस्य प्रिय वानर ॥ ३०॥ सिद्धिदो निधिदस्त्वञ्च जनकनन्दिनी स्वयम् । दत्तवती वरं तुभ्यं जननी विश्वरूपिणी ॥ ३१॥ कराग्रे वायुपुत्रस्य चौषधिः रामरूपिणी । रामस्य कोशलेशस्य पादारविन्दवन्दनात् ॥ ३२॥ पूजया मारुतपुत्रस्य नरो प्राप्नोति राघवम् । जन्मनां कोटिसङ्ख्यानां दूरीभवन्ति पातकाः ॥ ३३॥ देहान्ते च पुरं रामं भक्ताः हनुमतो सदा । प्राप्य जन्मनि सर्वे हरिभक्ताः पुनः पुनः ॥ ३४॥ देवानामपि सर्वेषां संस्मरणं वृथा खलु । कपिश्रेष्ठस्य सेवा हि प्रददाति सुखं परम् ॥ ३५॥ करोति सङ्कटं दूरं सङ्कटमोचनो कपिः । नाशयति च दुःखानि केवलं स्मरणं कपेः ॥ ३६॥ जयतु वानरेशश्च जयतु हनुमत्प्रभुः । गुरुदेवकृपातुल्यं करोतु मम मङ्गलम् ॥ ३७॥ श्रद्धया येन केनापि शतवारञ्च पठ्यते । मुच्यते बन्धनाच्छीघ्रं प्राप्नोति परमं सुखम् ॥ ३८॥ स्तोत्रं तु रामदूतस्य चत्वारिंशच्च सङ्ख्यकम् । पठित्वा सिद्धिमाप्नोति साक्षी कामरिपुः स्वयम् ॥ ३९॥ सर्वदा रघुनाथस्य तुलसी सेवकः परम् । विज्ञायेति कपिश्रेष्ठ वासं मे हृदये कुरु ॥ ४०॥ विघ्नोपनाशी पवनस्य पुत्रः कल्याणकारी हृदये कपीशः । सौमित्रिणा राघवसीतया च सार्धं निवासं कुरु रामदूत ॥ जय जय श्री हनुमते नमः ॥ देवदत्तो गुरुर्यस्य मार्कण्डेयश्च गोत्रकम् । अनुवादः कृतस्तेन कृपया पितृपादयोः ॥ श्री हनुमानजी सदैव आपका कल्याण करेँ । Sanskrit translation is by Pt. Kashinathashastri.