अक्षर आकार:

श्रीहनूमत्स्तोत्रम् ३

shrIhanUmatstotram 3

श्रीहनूमत्स्तोत्रम् ३

श‍ृणु देवि प्रवक्ष्यामि स्तोत्रं सर्वसुखावहम् । सर्वकामप्रदं नॄणां हनुमत्स्तोत्रमुत्तमम् ॥ १॥ तप्तहाटकसङ्काशं नानापुष्पविराजितम् । उद्यद्बालार्कवदनं त्रिनेत्रं कुण्डलोज्ज्वलम् ॥ २॥ मौञ्जीकौपीनकं हेममययज्ञोपवीतिनम् । पिङ्गलाक्षं महाकायं टङ्कशैलेन्द्रधारिणम् ॥ ३॥ मूर्तित्रयात्मकं वीरं महाशौर्यं महाहनुम् । हनूमन्तं वायुसूनुं नमामि ब्रह्मचारिणम् ॥ ४॥ त्रिवर्णाक्षरमन्त्रस्थं जपाकुसुमसन्निभम् । नानाभूषणसंयुक्तमाञ्जनेयं नमाम्यहम् ॥ ५॥ पञ्चाक्षरस्थितं देवं नीलनीरदसन्निभम् । पूजितं सर्वदेवैस्तु राक्षसारिं नमाम्यहम् ॥ ६॥ अचलद्युतिसङ्काशं सर्वालङ्कारभूषितम् । षडक्षरयुतं देवं नमामि ब्रह्मचारिणम् ॥ ७॥ सप्तवर्णमयं देवं हरीशं तं सुरार्चितम् । सुन्दरास्याब्जसंयुक्तं त्रिनेत्रं तं नमाम्यहम् ॥ ८॥ अष्टादशाधिपं देवं हेमवर्णं महातनुम् । नमामि जगतां वन्द्यं लङ्काप्रासाददाहनम् ॥ ९॥ अतसीपुष्पसङ्काशं दशवर्णात्मकं विभुम् । जटाधरं चतुर्बाहुं नमामि कपिनायकम् ॥ १०॥ द्वादशाक्षरमन्त्रस्य नायकं कुन्तधारिणम् । हेमवर्णलसत्कायं भजे सुग्रीवमन्त्रिणम् ॥ ११॥ मालामन्त्रात्मकं देवं त्रिवर्णं च चतुर्भुजम् । पाशाङ्कुशधरं देवं कपिवर्यं नमाम्यहम् ॥ १२॥ त्रयोदशाक्षरहितं सीतादुःखनिवारणम् । सुरासुरगणैः सर्वैः संस्तुतं प्रणमाम्यहम् ॥ १३॥ हाहाकारमुखान्तनित्यदहनज्वालासमूहोज्ज्वलं विद्वन्मण्डलजातरोषपरुषं श्रीरामदासं विभुम् । सञ्चूर्णीकृतधूम्रलोचनमहाह्यक्षादिरक्षोबलं तं वन्दे रविधारणं सुरवरैर्वन्द्यं समीरात्मजम् ॥ १४॥ रघुपतिपदभक्तं किङ्किणीकोत्तमाङ्गं मुकुलितकरपद्मं मोदयानं तरङ्गे । पुलकितविपुलाङ्गं पुण्यलीलानुषङ्गं वनचरकुलनाथं वायुपुत्रं नतोऽस्मि ॥ १५॥ From Hanumatstutimanjari, Mahaperiaval Publication