अक्षर आकार:

श्रीहनूमत्स्तोत्रम् २

shrIhanUmatstotram 2

श्रीहनूमत्स्तोत्रम् २

आपन्नाखिललोकार्तिहारिणे श्रीहनूमते । अकस्मादागतोत्पातनाशनाय नमो नमः ॥ १॥ वामे करे वैरिभिदं वहन्तं शैलं परे श‍ृङ्खलहारटङ्कम् । दधानमच्छाच्छसुवर्णवर्णं भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ २॥ विभीषण उवाच सीतावियुक्ते श्रीरामे शोकदुःखभयापह । तापत्रयाग्निसंहारिन्नाञ्जनेय नमोऽस्तुते ॥ ३॥ आधिव्याधिमहामारिग्रहपीडापहारिणे । प्राणापहर्त्रे दैत्यानां रामप्रियहितात्मने ॥ ४॥ संसारसागरावर्तगतनिश्रान्तचेतसाम् । शरणागतसञ्जीवी सौमित्रिप्राणरक्षकः ॥ ५॥ सुचरित्रः सदानन्दः सर्वदा भक्तवत्सलः । सुरद्विषां सुसंहारी सुग्रीवानन्दवर्धनः ॥ ६॥ य इदं हनुमत्स्तोत्रं पठेन्नित्यं नरोत्तमः । सिद्ध्यन्ति सर्वकार्याणि धनधान्यसमृद्धयः ॥ ७॥ मृत्युदारिद्र्यनाशं च सङ्ग्रामे विजयी भवेत् । लाभं च राजवश्यं च सत्यं पावनकीर्तनम् ॥ ८॥ परं मन्त्रं परं तन्त्रं परयन्त्रं निवारयेत् । परविद्याविनाशं च ह्यात्ममन्त्रस्य रक्षकम् ॥ ९॥ From Hanumatstutimanjari, Mahaperiaval Publication