अक्षर आकार:

श्रीहनूमत्स्तोत्रम् १

shrI hanUmatstotram 1

श्रीहनूमत्स्तोत्रम् १

अक्षादिराक्षसहरं दशकण्ठदर्प- निर्मूलनं रघुवराङ्घ्रिसरोजभक्तम् । सीताऽविषह्यघनदुःखनिवारकं तं वायोः सुतं गिलितभानुमहं नमामि ॥ १॥ मां पश्य पश्य दयया निजदृष्टिपातैः मां रक्ष रक्ष परितो रिपुदुःखपुञ्जात् । वश्यं कुरु त्रिजगतां वसुधाधिपानां मे देहि देहि महतीं वसुधां श्रियं च ॥ २॥ आपद्भ्यो रक्ष सर्वत्र आञ्जनेय नमोऽस्तु ते । बन्धनं छेदयाभुक्तं कपिवर्य नमोऽस्तु ते ॥ ३॥ देहि मे सम्पदो नित्यं त्रिलोचन नमोऽस्तु ते । दुष्टरोगान् हन हन रामदूत नमोऽस्तु ते ॥ ४॥ उच्चाटय रिपून् सर्वान् मोहनं कुरु भूभुजाम् । विद्वेषिणो मारय त्वं त्रिमूर्त्यात्मक सर्वदा ॥ ५॥ सञ्जीवपर्वतोद्धार मम दुःखं निवारय । घोरानुपद्रवान् सर्वान् नाशयाक्षासुरान्तक ॥ ६॥ एवं स्तुत्वा हनुमन्तं नरः श्रद्धासमन्वितः । पुत्रपौत्रादिसहितः सर्वान् कामानवाप्नुयात् ॥ ७॥ मर्कटेश महोत्साह सर्वशोकविनाशक । शत्रून् संहर मां रक्ष श्रियं दत्वा च मां भर ॥ ८॥ From Hanumatstutimanjari, Mahaperiaval Publication