अक्षर आकार:

श्रीहनूमत्संस्तवः

Shri Hanumat Samstava

श्रीहनूमत्संस्तवः

(भुजङ्गप्रयातम्) नमाम्यञ्जनीनन्दनं वायुपुत्रं नमामि प्रभुं वानराणां गणानाम् । सदा रामनामामृतं सेवमानं नमामि प्रभुं मारुतिं रामदूतम् ॥ १॥ तडित्तेजसं वायुवेगं बलिष्ठं चिरञ्जीविनं दिव्यवजाङ्गदेहम् । दितेः सन्ततिं संहरन्तं कपीन्द्रं वरेण्यं शरण्यं नितान्तं भजेऽहम् ॥ २॥ महासागरं लीलया लङ्घयित्वा त्वयाऽऽश्वासिता भूमिकन्या सशोका त्वया राक्षसेन्द्रस्य लङ्का विदग्धा त्वयैतादृशी स्वामिसेवा विधत्ता ॥ ३॥ त्वदीयेन वेगेन तुल्यो न वायु- र्न वा मानसं मानवानां कपीश । सुमित्रासुतप्राणरक्षार्थमेव गिरीन्द्राग्रमुत्पाट्य वेगेन नीतम् ॥ ४॥ वरिष्ठा वदान्याऽस्ति सेवा त्वदीया प्रभू रामचन्द्रस्त्वयैव प्रसन्नः । त्वमेवासि चादर्शभूतो नराणां भवत्पादपद्मं सदा वन्दनीयम् ॥ ५॥ त्वमेवाग्रणीधीर्वराणां नराणां त्वमेवासि नेता बलोपासकानाम् । भुभुःकारनादेन रक्षः समूहास् त्वया नाशिता वानरेन्द्रेण सर्वे ॥ ६॥ दशास्यस्य कीर्ति विनाशं नयन्तं सुदीनाञ् जनांस्तारयन्तं कपीन्द्रम् । प्रभो रामचन्द्रस्य भक्तानवन्तं हनूमन्तमेकं स्मरामि प्रभाते ॥ ७॥ अहङ्कारयुक्तश्च विद्यामदान्धः सदा द्रव्यलुब्धोऽहमक्रोधहीनः । महामोहयुक्ते भवेऽस्मिन्निमग्नं हनूमन् हताशं जनं पाहि नित्यम् ॥ ८॥ इमं संस्तवं रामदूतस्य रम्यं पठेत् सादरं यो नरो भक्तियुक्तः । समस्तानि दुःखानि नीत्वा विनाशं भवेत्तस्य वातात्मजः सौख्यदाता ॥ ९॥ इति श्री आपटीकरविरचितः श्रीहनूमत्संस्तवः सम्पूर्णः ।