अक्षर आकार:

श्रीहनूमन्नवरत्नपद्यमाला

Shri Hanumat Navaratnapadyamala

श्रीहनूमन्नवरत्नपद्यमाला

श्रितजनपरिपालं रामकार्यानुकूलं धृतशुभगुणजालं यातुतन्त्वार्तिमूलम् । स्मितमुखसुकपोलं पीतपाटीरचेलं पतिनतिनुतिलोलं नौमि वातेशबालम् ॥ १॥ दिनकरसुतमित्रं पञ्चवक्त्रं त्रिनेत्रं शिशुतनुकृतचित्रं रामकारुण्यपात्रम् । अशनिसदृशगात्रं सर्वकार्येषु जैत्रं भवजलधिवहित्रं स्तौमि वायोः सुपुत्रम् ॥ २॥ मुखविजितशशाङ्कं चेतसा प्राप्तलङ्कं गतनिशिचरशङ्कं क्षालितात्मीयपङ्कम् । नगकुसुमविटङ्कं त्यक्तशापाख्यश‍ृङ्गं रिपुहृदयलटङ्कं नौमि रामध्वजाङ्कम् ॥ ३॥ दशरथसुतदूतं सौरसास्योद्गगीतं हतशशिरिपुसूतं तार्क्ष्यवेगातिपातम् । मितसगरजखातं मार्गिताशेषकेतं नयनपथगसीतं भावये वातजातम् ॥ ४॥ निगदितसुखिरामं सान्त्वितैक्ष्वाकुवामं कृतविपिनविरामं सर्वरक्षोऽतिभीमम् । रिपुकुलकलिकामं रावणाख्याब्जसोमं मतरिपुबलसीमं चिन्तये तं निकामम् ॥ ५॥ निहतनिखिलशूरः पुच्छवह्निप्रचारः द्रुतगतपरतीरः कीर्तिताशेषसारः । समसितमधुधारो जातपम्पावतारो नतरघुकुलवीरः पातु वायोः कुमारः ॥ ६॥ कृतरघुपतितोषः प्राप्तसीताङ्गभूषः कथितचरितशेषः प्रोक्तसीतोक्तभाषः । मिलितसखिहनूषः सेतुजाताभिलाषः कृतनिजपरिपोषः पातु कीनाशवेषः ॥ ७॥ क्षपितबलिविपक्षो मुष्टिपातार्तरक्षः रविजनपरिमोक्षो लक्ष्मणोद्धारदक्षः । हृतमृतिपरपक्षो जातसीतापरोक्षो विरमितरणदीक्षः पातु मां पिङ्गलाक्षः ॥ ८॥ सुखितसुहृदनीकः पुष्पयानप्रतीकः शमितभरतशोको दृष्टरामाभिषेकः । स्मृतपतिसुखिसेको रामभक्तप्रवेकः पवनसुकृतपाकः पातु मां वायुतोकः ॥ ९॥ अष्टाश्रीकृतनवरत्नपद्ममालां भक्त्या श्रीहनुमदुरःस्थले निबद्धाम् । सङ्गृह्य प्रयतमना जपेत् सदा यः सोऽभीष्टं हरिवरतो लभेत शीघ्रम् ॥ १०॥ इति श्रीहनूमन्नवरत्नपद्यमाला समाप्ता । From Hanumatstutimanjari, Mahaperiaval Publication