अक्षर आकार:

हनूमद्भुजङ्गस्तोत्रम्

Hanumadbhujangastotram

हनूमद्भुजङ्गस्तोत्रम्

उदरान्तरङ्गं सदारामभक्तं समुद्दण्डवृत्तिं द्विषद्दण्डलोलम् । अमोघानुभावं तमोघातदक्षं तनूकृत्प्रतापं हनूमन्तमीडे ॥ १॥ करोद्भासिटङ्कं किरीटिध्वजाङ्कं हृताशेषपङ्कं रणेनिर्विशङ्कम् । त्रिलोकीमृगाङ्कं क्षणाद्भस्मलङ्कं भजे निष्कलङ्कं हनूमन्तमिडे ॥ २॥ प्रसन्नानुरागं प्रभाकाञ्चनाङ्गं जगत्क्षेमशौर्यं तुषारादिदैत्यम् । तृणीभूतहेतिं रणोद्यद्विभूतिं भजे वायुपुत्रं हनूमन्तमीडे ॥ ३॥ रणे भीषणे मेघनादे सनाथे सरोषं समारोप्य सौमित्रिमान्ये । घनानां घनानां सुराणाञ्चमार्गे नटन्तं चलन्तं हनूमन्तमीडे ॥ ४॥ समुद्रान्तरङ्गाङ्खसान्द्रां विनिद्रां विलङ्घ्यादितेयैः स्तुतो मर्त्यसङ्घैः । निरातङ्कमानी च लङ्कां विशङ्को भवानेव सीतारिहा पापहारी ॥ ५॥ नमस्ते महासत्त्ववाहाय तुभ्यं नमस्ते महावज्रदेहाय तुभ्यम् । नमस्ते कृता रामकार्याय तुभ्यं नमस्ते कृतब्रह्मचर्याय तुभ्यम् ॥ ६॥ हनूमद्भुजङ्गप्रयातं प्रभाते प्रदोषे दिवा चार्धरात्रे च मर्त्यः । पठन् देशिकोऽपीह मुक्तान्तराय- स्सदा सर्वदा रामभक्तिं प्रयाति ॥ ७॥ इति हनूमत्भुजङ्गस्तोत्रं सम्पूर्णम् ।