अक्षर आकार:

श्रीघटिकाचलहनुमत्स्तोत्रम् २

shrIghaTikAchalahanumatstotram 2

श्रीघटिकाचलहनुमत्स्तोत्रम् २

शङ्खचक्रधरं देवं घटिकाचलवासिनम् । योगारूढं ह्याञ्जनेयं वायुपुत्रं नमाम्यहम् ॥ १॥ भक्ताभीष्टप्रदातारं चतुर्बाहुविराजितम् । दिवाकरद्युतिनिभं वन्देऽहं पवनात्मजम् ॥ २॥ कौपीनमेखलासूत्रं स्वर्णकुण्डलमण्डितम् । लङ्घिताब्धिं रामदूतं नमामि सततं हरिम् ॥ ३॥ दैत्यानां नाशनार्थाय महाकायधरं विभुम् । गदाधरकरो यस्तं वन्देऽहं मारुतात्मजम् ॥ ४॥ नृसिंहाभिमुखो भूत्वा पर्वताग्रे च संस्थितम् । वाञ्छन्तं ब्रह्मपदवीं नमामि कपिनायकम् ॥ ५॥ बालादित्यवपुष्कं च सागरोत्तारकारकम् । समीरवेगं देवेशं वन्दे ह्यमितविक्रमम् ॥ ६॥ पद्मरागारुणमणिशोभितं कामरूपिणम् । पारिजाततरुस्थं च वन्देऽहं वनचारिणम् ॥ ७॥ रामदूत नमस्तुभ्यं पादपद्मार्चनं सदा । देहि मे वाञ्छितफलं पुत्रपौत्रप्रवर्धनम् ॥ ८॥ इदं स्तोत्रं पठेन्नित्यं प्रातःकाले द्विजोत्तमः । तस्याभीष्टं ददात्याशु रामभक्तो महाबलः ॥ ९॥ From Hanumatstutimanjari, Mahaperiaval Publication