अक्षर आकार:

श्रीघटिकाचलहनुमत्स्तोत्रम् १

shrIghaTikAchalahanumatstotram 1

श्रीघटिकाचलहनुमत्स्तोत्रम् १

ब्रह्माण्डपुराणतः स्तोत्रं अतिपाटलवक्त्राब्जं धृतहेमाद्रिविग्रहम् । आञ्जनेयं शङ्खचक्रपाणिं चेतसि धीमहि ॥ १॥ श्रीयोगपीठविन्यस्तव्यत्यस्तचरणाम्बुजम् । दरार्यभयमुद्राक्षमालापट्टिकया युतम् ॥ २॥ पारिजाततरोर्मूलवासिनं वनवासिनम् । पश्चिमाभिमुखं बालं नृहरेर्ध्यानसंस्थितम् ॥ ३॥ सर्वाभीष्टप्रदं नॄणां हनुमन्तमुपास्महे । नारद उवाच स्थानानामुत्तमं स्थानं किं स्थानं वद मे पितः । ब्रह्मोवाच ब्रह्मन् पुरा विवादोऽभून्नारायणकपीशयोः ॥ तत्तेऽहं सम्प्रवक्ष्यामि सावधानमनाः श‍ृणु । एकमासाद्वरदः साक्षात् द्विमासाद्रङ्गनायकः ॥ १॥ मासार्धेन प्रवक्ष्यमि तथा वै वेङ्कटेश्वरः । अर्धमासेन दास्यामि कृतं तु परमं शिवम् ॥ २॥ घटिकाचलसंस्थानाद्धटिकाचलवल्लभः । हनुमानञ्जनासूनू रामभक्तो जितेन्द्रियः ॥ ३॥ घटिकादेव काम्यानां कामदाता भवाम्यहम् । शङ्खचक्रप्रदो येन प्रदास्यामि हरेः पदम् ॥ ४॥ घटिकाचलसंस्थाने घटिकां वसते यदि । स मुक्तः सर्वलोकेषु वायुपुत्रप्रसादतः ॥ ५॥ ब्रह्मतीर्थस्य निकटे राघवेन्द्रस्य सन्निधौ । वायुपुत्रं समालोक्य न भयं विद्यते नरे ॥ ६॥ तस्माद्वायुसुतस्थानं पवित्रमतिदुलर्भम् । पूर्वाब्धेः पश्चिमे भागे दक्षिणाब्धेस्तथोत्तरे ॥ ७॥ वेङ्कटाद्दक्षिणे भागे पर्वते घटिकाचले । तत्रैव ऋषयः सर्वे तपस्तप्यन्ति सादरम् ॥ ८॥ पञ्चाक्षरमहामन्त्रं द्विषट्कं च द्विजातिनाम् । नाममन्त्रं ततः श्रीमन् स्त्रीशूद्राणामुदाहृतम् ॥ ९॥ तत्र स्नात्वा ब्रह्मतीर्थे नत्वा तं वायुमन्दिरे । वायुपुत्रं भजेन्नित्यं सर्वारिष्टविवर्जितः ॥ १०॥ सेवते मण्डलं नित्यं तथा वै ह्यर्धमण्डलम् । वाञ्छितं विन्दते नित्यं वायुपुत्रप्रसादतः ॥ ११॥ तस्मात्त्वमपि भोः पुत्र निवासं घटिकाचले ॥ ११॥ नारद उवाच कथं वासः प्रकर्तव्यो घटिकाचलमस्तके । केन मन्त्रेण बलवानाञ्जनेयः प्रसीदति ॥ १२॥ विधानं तस्य मन्त्रस्य होमं चैव विशेषतः । कियत्कालं तत्र वासं कर्तव्यं तन्ममावद ॥ १३॥ ब्रह्मोवाच ब्रह्मतीर्थे ततः स्नत्वा हनुमत्संमुखे स्थितः । द्वादशाक्षरमन्त्रं तु नित्यमष्टसहस्रकम् ॥ १४॥ जपेन्नियमतः शुद्धस्तद्भक्तस्तु परायणः । निराहारः फलाहारो ब्रह्मचर्यव्रते स्थितः ॥ १५॥ मण्डलं तत्र वस्तव्यं भक्तियुक्तेन चेतसा । ध्यानश्लोकं प्रवक्ष्यामि श‍ृणु नारद तत्वतः ॥ १६॥ तमञ्जनानन्दनमिन्दुबिम्बनिभाननं सुन्दरमप्रमेयम् । सीतासुतं सूक्ष्मगुणस्वदेहं श्रीरामपादार्पणचित्तवृत्तिम् ॥ १७॥ एवं ध्यात्वा सदा भक्त्या तत्पादजलजं मुदा । चतुर्थांशेन होमं वा कर्तव्यं पायसेन च ॥ १८॥ विधिना विधियुक्तस्तु विदित्वा घटिकाचलम् । जगाम जयमन्विच्छन्निन्द्रियाणां महामनाः ॥ १९॥ एवं नियमयुक्तः सन् यः करोति हरेः प्रियम् । विजयं विन्दते देही वायुपुत्रप्रसादतः ॥ २०॥ इति ब्रह्माण्डपुराणतः श्रीघटिकाचलहनुमत्स्तोत्रं सम्पूर्णम् । From Hanumatstutimanjari, Mahaperiaval Publication