अक्षर आकार:

एकादशमुखहनुमत्कवचम्

ekAdashamukhahanumatkavacham

एकादशमुखहनुमत्कवचम्

श्रीगणेशाय नमः । लोपामुद्रा उवाच । कुम्भोद्भव दयासिन्धो श्रुतं हनुमतः परम् । यन्त्रमन्त्रादिकं सर्वं त्वन्मुखोदीरितं मया ॥ १॥ दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे । कवचं वायुपुत्रस्य एकादशमुखात्मनः ॥ २॥ इत्येवं वचनं श्रुत्वा प्रियायाः प्रश्रयान्वितम् । वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभुः ॥ ३॥ अगस्त्य उवाच । नमस्कृत्वा रामदूतां हनुमन्तं महामतिम् । ब्रह्मप्रोक्तं तु कवचं श‍ृणु सुन्दरि सादरम् ॥ ४॥ सनन्दनाय सुमहच्चतुराननभाषितम् । कवचं कामदं दिव्यं रक्षःकुलनिबर्हणम् ॥ ५॥ सर्वसम्पत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे । ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमतः ॥ ६॥ हनुमत्स्तुतिमन्त्रस्य सनन्दन ऋषिः स्मृतः । प्रसन्नात्मा हनूमांश्च देवता परिकीर्तिता ॥ ७॥ छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा । मुख्यः प्राणः शक्तिरिति विनियोगः प्रकीर्तितः ॥ ८॥ सर्वकामार्थसिद्ध्यर्थं जप एवमुदीरयेत् । ॐ स्फ्रें-बीजं शक्तिधृक् पातु शिरो मे पवनात्मजः ॥ ९॥ क्रौं-बीजात्मा नयनयोः पातु मां वानरेश्वरः । क्षं-बीजरूपः कर्णौ मे सीताशोकविनाशनः ॥ १०॥ ग्लौं-बीजवाच्यो नासां मे लक्ष्मणप्राणदायकः । वं-बीजार्थश्च कण्ठं मे पातु चाक्षयकारकः ॥ ११॥ ऐं-बीजवाच्यो हृदयं पातु मे कपिनायकः । वं-बीजकीर्तितः पातु बाहू मे चाञ्जनीसुतः ॥ १२॥ ह्रां-बीजो राक्षसेन्द्रस्य दर्पहा पातु चोदरम् । ह्रसौं-बीजमयो मध्यं पातु लङ्काविदाहकः ॥ १३॥ ह्रीं-बीजधरः पातु गुह्यं देवेन्द्रवन्दितः । रं-बीजात्मा सदा पातु चोरू वार्धिलंघनः ॥ १४॥ सुग्रीवसचिवः पातु जानुनी मे मनोजवः । पादौ पादतले पातु द्रोणाचलधरो हरिः ॥ १५॥ आपादमस्तकं पातु रामदूतो महाबलः । पूर्वे वानरवक्त्रो मामाग्नेय्यां क्षत्रियान्तकृत् ॥ १६॥ दक्षिणे नारसिंहस्तु नैऋर्त्यां गणनायकः । वारुण्यां दिशि मामव्यात्खगवक्त्रो हरीश्वरः ॥ १७॥ वायव्यां भैरवमुखः कौबेर्यां पातु मां सदा । क्रोडास्यः पातु मां नित्यमैशान्यां रुद्ररूपधृक् ॥ १८॥ ऊर्ध्वं हयाननः पातु गुह्याधः सुमुखस्तथा । रामास्यः पातु सर्वत्र सौम्यरूपो महाभुजः ॥ १९॥ इत्येवं रामदूतस्य कवचं यः पठेत्सदा । एकादशमुखस्यैतद्गोप्यं वै कीर्तितं मया ॥ २०॥ रक्षोघ्नं कामदं सौम्यं सर्वसम्पद्विधायकम् । पुत्रदं धनदं चोग्रशत्रुसंघविमर्दनम् ॥ २१॥ स्वर्गापवर्गदं दिव्यं चिन्तितार्थप्रदं शुभम् । एतत्कवचमज्ञात्वा मन्त्रसिद्धिर्न जायते ॥ २२॥ चत्वारिंशत्सहस्राणि पठेच्छुद्धात्मको नरः । एकवारं पठेन्नित्यं कवचं सिद्धिदं पुमान् ॥ २३॥ द्विवारं वा त्रिवारं वा पठन्नायुष्यमाप्नुयात् । क्रमादेकादशादेवमावर्तनजपात्सुधीः ॥ २४॥ वर्षान्ते दर्शनं साक्षाल्लभते नात्र संशयः । यं यं चिन्तयते चार्थं तं तं प्राप्नोति पूरुषः ॥ २५॥ ब्रह्मोदीरितमेतद्धि तवाग्रे कथितं महत् ॥ २६॥ इत्येवमुक्त्वा वचनं महर्षिस्तूष्णीं बभूवेन्दुमुखीं निरीक्ष्य । संहृष्टचित्तापि तदा तदीयपादौ ननामातिमुदा स्वभर्तुः ॥ २७॥ ॥ इत्यगस्त्यसारसंहितायामेकादशमुखहनुमत्कवचं सम्पूर्णम् ॥