अक्षर आकार:

श्रीभोगापुरेशहनुमत्स्तोत्रम्

shrIbhogApureshahanumatstotram

श्रीभोगापुरेशहनुमत्स्तोत्रम्

प्रणमतु मम मूर्धा भारती प्राणभार्या- भ्रगभुजगपभर्गेन्द्रादिदेवर्षिवन्द्यम् । सकलसुरपतेऽङ्घ्रीन्दीवरद्वन्द्वमुग्रो- ग्रतररिपुकुलघ्नं नाथ भोगापुरेशम् ॥ १॥ यत इतरमृते त्वां मामनुग्राहकं द्राग् सुपवनपविजाने नैव जाने न जाने । विधिकरनिकरेतश्चाधमं मां प्रपन्नं ह्यव किल कृपया त्वां नौमि भोगापुरेशम् ॥ २॥ वरसदनुजिघृक्षात्तेन तेऽनल्पशक्ते कपिवरवपुषाऽऽविर्भूय भोगापुरे भोः । विषयविषविशिष्टाशेषदोषान्तकं त्वां निखिलनिजजनानां नौमि भोगापुरेशम् ॥ ३॥ असदसुमदतिव्यामोहनार्थं त्विहादा- वनिमिषमधुकेस्वीकर्तुमासप्तघस्रम् । उपयम महसुप्राग्वर्चलादोर्ग्रहं त्वां निजजनकृतसेवां नौमि भोगापुरेशम् ॥ ४॥ स्वजनगणगते कौण्डिन्यगोत्रेऽथ कृष्णे सति तव वरसेवां कर्तरीहाभ्यकार्षीत् । स्वजनवरदरूपं व्यक्तमञ्जोन्नतं त्वां सदयहृदयभक्त्या नौमि भोगापुरेशम् ॥ ५॥ निजजयविजयौ यो जन्मात्मजत्विज- निजयदपज्जाम्युज्जनिं द्वन्द्वभाजम् । विविधवृजिनसङ्गान्मां समभ्युद्धरन्तं कजजनुरनुजं त्वां नौमि भोगापुरेशम् ॥ ६॥ खलकदन कदाचिन्मूर्तिभेदेऽपि तत्रा- धिकतरनिजतेजो दर्शयन् शङ्कितान् स्वम् । अनुदिनमनुकम्पा मय्यलं नाथ तेऽस्तु स्वविधिकरजजे त्वां नौमि भोगापुरेशम् ॥ ७॥ कपिकुलतिलकेशाशोत्तमं स्वाशु भग्नं तव पदयुगलं मे सेवितुं प्रादित त्वम् । पदकमलनिषेवा नाथ ते मां हि नेष्य- त्युचितगतिमलं त्वां नौमि भोगापुरेशम् ॥ ८॥ नुतिगतपदमुक्तामालयेत्यष्टपद्य- प्रवरतमगुणिन्या मालिनी कृष्णजन्या । सुफलमिह हनूमन्मूर्तिरेषाप्यमुत्र स्तुतिमथ पठते तामञ्जसा ते प्रदद्यात् ॥ ९॥ वाग्विट्विञ्चसहस्रकेन्द्रमुनिमुख्यादिप्रणीतार्हण प्राण त्वं कृपया त्वदङ्घ्रिनिरतं नः पोषकं चान्वहम् । त्वद्भक्तस्वभिमन्त्रिताक्षतशिखं तत्कामितं पूरयन् श्रीमद्वेङ्कटराजमाश्वव चिरं भोगेश तुभ्यं नमः ॥ १०॥ इति श्रीभोगापुरेशहनुमत्स्तोत्रं सम्पूर्णम् । From Hanumatstutimanjari, Mahaperiaval Publication