अक्षर आकार:

श्रीभोगापुरेशाष्टकम्

shrIbhogApureshAShTakam

श्रीभोगापुरेशाष्टकम्

श्रीमद्भोगापुरेशो भवतु भवगुरुर्भूतये मे दयालुः ज्ञानं भक्तिं विरक्तिं प्रदित शमदमाद्यङ्गजातं सुखाय । स्तोतुं वाऽऽराधितुं त्वां न च मम सुमतिः कल्यदीनेन्द्रियेशैः सन्मार्गाद्भ्रान्तितोऽयं पुरुगुण दयया पाहि भोगापुरेश ॥ १॥ मूढोऽहं ज्ञानहीनस्तव पदयुगले भक्तिहीनो दुरात्मा- थापि त्वामेव जाने गुरुवर वचसा स्वामिनं नापरं वा । तस्मादस्मत्कृतागः क्षमय कुरु कृपां सत्त्वसिन्धो हनूमन् दास्यं मे देहि नित्यं दशरथतनयप्रीत भोगापुरेश ॥ २॥ त्वद्धृत्पद्मान्तरङ्गे सकलगुणगणालङ्कृताङ्गो विदोषः स्वामी वेदान्तवेद्यो मम मनसि तथा वर्ततां श्रीमनोज्ञः । श्रीमद्भोगापुरेशानिलतनय हितं मामकं वेत्सि सर्वं किं मे विज्ञापनीयं सकलमपि सदा जानतः पूर्णशक्तेः ॥ ३॥ रक्षःपुत्रप्रणाशो जलनिधितरणं द्रोणगिर्याहृतिश्चे- त्याद्यं दुःसाध्यकर्म त्वयि कृतवति मे संशयं याति चेतः । यद्यस्मन्मानसस्थप्रबलतरमहाकाममुख्यारिनाशो भूयाच्छीघ्रं त्वयायं सकलमपि बलं वेद्मि ते सत्यमेव ॥ ४॥ सर्वात्मप्रेरकेशाद्भुतबलनिखिलप्राणिवृन्दप्रविष्टा- नेकै रूपै रमेशं परिचरसि हरे वेत्ति कस्ते महत्त्वम् । वत्सानुक्रोशदृष्टिर्भवतु मयि चिरं संसृतिव्याधिरुग्णे श्रीमद्भोगापुरेशाभयद विरतिविज्ञानभक्त्यादिपूर्ण ॥ ५॥ भग्ने बिम्बे कदाचित् पुनरपि गुरुसत्पाणिलब्धप्रतिष्ठः सान्निध्यं व्यञ्जितुं यो निहितद्युतिमहादीपतप्तो व्यतानीत् । सर्वत्राद्धा पतङ्गान् मुहुरथ सुजनैः प्रार्थितः सञ्जहार श्रीमद्भोगापुरेशं तमखिलफलदं सम्भजे पूर्वज्येष्ठम् ॥ ६॥ दुर्बुद्धिं दुर्विकारं हर हर हनुमन् पापजालं मदीयं त्वत्सेवैकोपयुक्तां श्रियमपि दिश मे योग्यतां नातिलङ्घ्य । भूयो वृद्धिर्यथा स्यात्तव पदयुगलद्वन्द्वभक्तेरजस्रं नर्ते त्वां मे गतिः स्यादिति धृतमनसा पालय स्वप्रपन्नम् ॥ ७॥ इष्टानिष्टाप्तिनाशप्रकटितनिजसद्भक्तिवर्गात्मशक्तिः स्वस्वान्तध्यातसीतारमणसुचरणो मुक्तिविघ्नेभसिंहः । स्मृत्याशेषाघहर्ताभिलषितफलदः शेषरुद्रादिवन्द्यः पायाद्भोगापुरेशश्चरणसुरशिरोरत्नमस्मान् सुदीनान् ॥ ८॥ श्रीमद्भोगापुरेशस्तुतिमिति कृतवान् भक्तिपूतान्तरात्मा प्राणश्लोकाष्टकेन त्रिदशमुनिसमादिष्टमन्त्राङ्गजन्मा । यस्तां भक्त्या समेतः शुचिरिह पठते नित्यमस्याखिलेष्टं दत्वानिष्टं च हन्ति प्रथितसुमहिमा प्राणिवृन्दप्रणेता ॥ ९॥ इति श्रीभोगापुरेशाष्टकम् । From Hanumatstutimanjari, Mahaperiaval Publication