अक्षर आकार:

आपदुद्धारक श्रीहनूमत्स्तोत्रम्

ApaduddhAraka shrIhanUmatstotram

आपदुद्धारक श्रीहनूमत्स्तोत्रम्

विभीषणकृतम् श्रीहनुमते नमः । अस्य श्रीहनुमत्स्तोत्रमहामन्त्रस्य, विभीषण ऋषिः, अनुष्टुप् छन्दः, हनुमान् देवता । मम शत्रुमुखस्तम्भनार्थे सर्वकार्यसिद्ध्यर्थे च जपे विनियोगः । ध्यानम् चन्द्राभं चरणारविन्दयुगलं कौपीनमौञ्जीधरं नाभ्यां वै कटिसूत्रयुक्तवसनं यज्ञोपवीतावृतम् । हस्ताभ्यामवलम्ब्य चाञ्जलिमथो हारावलीकुण्डलं बिभ्रद्दीर्घशिखं प्रसन्नवदनं दिव्याञ्जनेयं भजे ॥ मन्त्रः-ॐ नमो हनुमते रुद्राय । मम सर्वदुष्टजनमुखस्तम्भनं कुरु कुरु ॥ मम सर्वकार्यसिद्धिं कुरु कुरु । ऐं ह्रां ह्रीं ह्रूं फट् स्वाहा । note अष्टवारं जपेत् । आपन्नाखिललोकार्तिहारिणे श्रीहनूमते । अकस्मादागतोत्पातनाशनाय नमोऽस्तु ते ॥ १॥ सीतावियुक्तश्रीरामशोकदुःखभयापह । तापत्रयस्य संहारिन्नाञ्जनेय नमोऽस्तु ते ॥ २॥ आधिव्याधिमहामारिग्रहपीडापहारिणे । प्राणापहन्त्रे दैत्यानां रामप्राणात्मने नमः ॥ ३॥ संसारसागरावर्तागतसम्भ्रान्तचेतसाम् । शरणागतमर्त्यानां शरण्याय नमोऽस्तु ते ॥ ४॥ राजद्वारे बिलद्वारे प्रवेशे भूतसङ्कुले । गजसिंहमहाव्याघ्रचोरभीषणकानने ॥ ५॥ महाभयेऽग्निसंस्थाने शत्रुसङ्गसमाश्रिते । शरणागतमर्त्यानां शरण्याय नमो नमः ॥ ६॥ प्रदोषे वा प्रभाते वा ये स्मरन्त्यञ्जनासुतम् । अर्थसिद्धियशःकामान् प्राप्नुवन्ति न संशयः ॥ ७॥ कारागृहे प्रयाणे च सङ्ग्रामे देशविप्लवे । ये स्मरन्ति हनूमन्तं तेषां सन्ति न आपदः ॥ ८॥ नास्ति विपत्तयः वज्रदेहाय कालाग्निरुद्रायामिततेजसे । नमः प्लवगसैन्यानां प्राणभूतात्मने नमः ॥ ९॥ दुष्टदैत्यमहादर्पदलनाय महात्मने । ब्रह्मास्त्रस्तम्भनायास्मै नमः श्रीरुद्रमूर्तये ॥ १०॥ जप्त्वा स्तोत्रमिदं पुण्यं वसुवारं पठेन्नरः । राजस्थाने सभास्थाने वादे प्राप्ते जपेद्ध्रुवम् ॥ ११॥ विभीषणकृतं स्तोत्रं यः पठेत् प्रयतो नरः । सर्वापद्भ्यो विमुच्येत नात्र कार्या विचारणा ॥ १२॥ From Hanumatstutimanjari, Mahaperiaval Publication