अक्षर आकार:

श्री आञ्जनेयस्तोत्रम्

shrI A~njaneyastotram

श्री आञ्जनेयस्तोत्रम्

रं रं रं रक्तवर्णं दिनकरवदनं तीक्ष्णदंष्ट्राकरालं रं रं रं रम्यतेजं गिरिचलनकरं कीर्तिपञ्चादिवक्त्रम् । रं रं रं राजयोगं सकलशुभनिथिं सप्तभेतालभेद्यं रं रं रं राक्षसान्तं सकलदिशयशं रामदूतं नमामि ॥ १॥ खं खं खं खड्गहस्तं विषज्वरहरणं वेदवेदाङ्गदीपं खं खं खं खड्गरूपं त्रिभुवननिलयं देवतासुप्रकाश । खं खं खं कल्पवृक्षं मणिमयमकुटं मायमायास्वरूपं खं खं खं कालचक्रं सकलदिशयशं रामदूतं नमामि ॥ २॥ इं इं इं इन्द्रवन्द्यं जलनिधिकलनं सौम्यसाम्राज्यलाभं इं इं इं सिद्धयोगं नतजनसदयं आर्यपूजार्चिताङ्गम् । इं इं इं सिंहनादं अमृतकरतलं आदि अन्त्यप्रकाशं इं इं इं चित्स्वरूपं सकलदिशयशं रामदूतं नमामि ॥ ३॥ सं सं सं साक्षिरूपं विकसितवदनं पिङ्गालाक्षं सुरक्षं सं सं सं सत्यगीतं सकल मुनिस्तुतं शास्त्रसम्पत्करीयम् । सं सं सं सामवेदं निपुणसुललितं नित्यतत्त्वं स्वरूपं सं सं सं सावधानं सकलदिशयशं रामदूतं नमामि ॥ ४॥ हं हं हं हंसरूपं स्फुटविकटमुखं सूक्ष्मसूक्ष्मावतारं हं हं हं अन्तरात्मं रविशशिनयनं रम्यगम्भीरभीमम् । हं हं हं अट्टहासं सुरवरनिलयं ऊर्ध्वरोमं करालं हं हं हं हंसहंसं सकलदिशयशं रामदूतं नमामि ॥ ५॥ इति आञ्जनेयस्तोत्रं समाप्तम् ।