अक्षर आकार:

आञ्जनेय मङ्गलश्लोकाः

Anjaneya ma~NgalashlokAH

आञ्जनेय मङ्गलश्लोकाः

वैशाखे मासि कृष्णाया दशम्यां मन्दवासरे । पूर्वाभाद्रप्रभूताय मङ्गलं श्रीहनूमते ॥ करुणारसपूर्णाय फलापूपप्रियाय च । नानामाणिक्यहाराय मङ्गलं श्रीहनूमते ॥ सुवर्चलाकलत्राय चतुर्भुजधराय च । उष्ट्रारूढाय वीराय मङ्गलं श्रीहनूमते ॥ दिव्यमङ्गलदेहाय पीताम्बरधराय च । तप्तकाञ्चनवर्णाय मङ्गलं श्रीहनूमते ॥ भक्तरक्षणशीलाय जानकीशोकहारिणे । ज्वलत्पावकनेत्राय मङ्गलं श्रीहनूमते ॥ पम्पातीरविहाराय सौमित्रिप्राणदायिने । सृष्टिकारणभूताय मङ्गलं श्रीहनूमते ॥ रम्भावनविहाराय गन्धमादनवासिने । सर्वलोकैकनाथाय मङ्गलं श्रीहनूमते ॥ पञ्चाननाय भीमाय कालनेमिहराय च । कौण्डिन्यगोत्रजाताय मङ्गलं श्रीहनूमते ॥ इति स्तुत्वा हनूमन्तं नीलमेघो गतव्यथः । प्रदक्षिणनमस्कारान् पञ्चवारं चकार सः ॥ इति मङ्गलश्लोकाः ।