श्रीविष्णु नृसिंह अथवा अग्निपुराणान्तर्गत यमगीता
॥ अथ प्रारभ्यते विष्णुपुराणान्तर्गता यमगीता ॥ मैत्रेय उवाच - यथावत्कथितं सर्वं यत्पृष्टोऽसि मया द्विज । श्रोतुमिच्छाम्यहं त्वेकं तद्भवान्प्रब्रवीतु मे ॥ १ ॥ सप्तद्वीपानि पातालवीथ्यश्च सुमहामुने । सप्तलोका येऽन्तरस्था ब्रह्माण्डस्यस्य सर्वतः ॥ २ ॥ स्थूलैः सूक्ष्मैस्तथा स्थूलसूक्ष्मैः सूक्ष्मस्थूलैस्तथा । स्थूलास्थूलतरैश्चैतत्सर्वं प्राणिभिरावृतम् ॥ ३ ॥ अङ्गुलस्याष्टभागोऽपि न सोऽस्ति मुनिसत्तम । न सन्ति प्राणिनो यत्र कर्मबन्धनिबन्धनाः ॥ ४ ॥ सर्वे चैते वशं यान्ति यमस्य भगवन्किल । आयुषोऽन्तेन ते यान्ति यातनास्तत्प्रचोदिताः ॥ ५ ॥ यातनाभ्यः परिभ्रष्टा देवाद्यास्वथ योनिषु । जन्तवः परिवर्तन्ते शास्त्राणामेष निर्णयः ॥ ६ ॥ सोऽहमिच्छामि तच्छ्रोतुं यमस्य वशवर्तिनः । न भवन्ति नरा येन तत्कर्म कथयामलम् ॥ ७ ॥ पराशर उवाच - अयमेव मुने प्रश्नो नकुलेन महात्मना । पृष्टः पितामहः प्राह भीष्मो यत्तच्छ्रुणुष्व मे ॥ ८ ॥ भीष्म उवाच - पुरा ममागतो वत्स सखा कालिंगको द्विजः । स मामुवाच पृष्टो वै मया जातिस्मरो मुनिः ॥ ९ ॥ तेनाख्यातमिदं चेदमित्थं चैतद्भविष्यति । तथा च तदभूद्वत्स यथोक्तं तेन धीमता ॥ १० ॥ स पृष्टश्च मया भूयः श्रद्दधानवता द्विजः । यद्यदाह न तद्दृष्टमन्यथा हि मया क्वचित् ॥ ११ ॥ एकदा तु मया पृष्टं यदेतद्भवतोदितम् । प्राह कालिंगको विप्रः स्मृत्वा तस्य मुनेर्वचः ॥ १२ ॥ जातिस्मरेण कथितो रहस्यः परमो मम । यमकिंकरयोर्योऽभूत्संवादस्तं ब्रवीमि ते ॥ १३ ॥ कालिंग उवाच - स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर मधुसूदनं प्रपन्नान् प्रभुरहमस्मि नृणां न वैष्णवानाम् ॥ १४ ॥ अहममरगणार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः । हरिगुरुवशगोऽस्मि न स्वतन्त्रः प्रभवति संयमनि ममापि विष्णुः ॥ १५ ॥ कटकमुकुटकर्णिकादिभेदैः कनकमभेदमपीष्यते यथैकम् । सुरपशुमनुजादिकल्पनाभि- र्हरिरखिलाभिरुदीयते तथैकः ॥ १६ ॥ क्षितिजलपरमाणवोऽनिलान्ते पुनरपि यान्ति यथैकतां धरित्र्या । सुरपशुमनुजादयस्तथान्ते गुणकलुषेण सनातनेन तेन ॥ १७ ॥ हरिममरगणार्चितांघ्रिपद्मं प्रणमति यः परमार्थतो हि मर्त्यः । तमथ गतसमस्तपापबन्धं व्रज परिहृत्य यथाग्निमाज्यसिक्तम् ॥ १८ ॥ इति यमवचनं निशम्य पाशी यमपुरुषमुवाच धर्मराजम् । कथय मम विभोः समस्तधातु- र्भवति हरेः खलु यादृशोऽस्य भक्तः ॥ १९ ॥ यम उवाच - न चलति निजवर्णधर्मतो यः सममतिरात्मसुहृद्विपक्षपक्षे । न हरति न च हन्ति किंचिदुच्चैः सितमनसं तमवेहि विष्णुभक्तम् ॥ २० ॥ कलिकलुषमलेन यस्य नात्मा विमलमतेर्मलिनीकृतोऽस्तमोहे । मनसि कृतजनार्दनं मनुष्यं सत्तमवेहि हरेरतीवभक्तम् ॥ २१ ॥ कनकमपि रहस्यवेक्ष्य बुद्ध्या तृणमिव यः समवैति वै परस्वम् । भवति च भगवत्यनन्यचेताः पुरुषवरं तमवेहि विष्णुभक्तम् ॥ २२ ॥ स्फटिकगिरिशिलामलः क्व विष्णु- र्मनसि नृणां क्व च मत्सरादिदोषः । न हि तुहिनमयूखरश्मिपुञ्जे भवति हुताशनदीप्तिजः प्रतापः ॥ २३ ॥ विमलमतिविमत्सरः प्रशान्तः शुचिचरितोऽखिलसत्त्वमित्रभूतः । प्रियहितवचनोऽस्तमानमायो वसति सदा हृदि तस्य वासुदेवः ॥ २४ ॥ वसति हृदि सनातने च तस्मिन् भवतिपुमाञ्जगतोऽस्य सौम्यरूपः । क्षितिरसमतिरम्यमात्मनोऽन्तः कथयति चारुतयैव शालपोतः ॥ २५ ॥ यमनियमविधूतकल्मषाणा- मनुदिनमच्युतसक्तमानसानाम् । अपगतमदमानमत्सराणां व्रज भट दूरतरेण मानवानाम् ॥ २६ ॥ हृदि यदि भगवाननादिरास्ते हरिरसिशंखगदाधरोऽव्ययात्मा । तदघमघविघातकर्तृभिन्नम् भवति कथं सति वान्धकारमर्के ॥ २७ ॥ हरति परधनं निहन्ति जन्तून् वदति तथानिशनिष्ठुराणि यश्च । अशुभजनितदुर्मदस्य पुंसः कलुषमतेर्हृदि तस्य नास्त्यनन्तः ॥ २८ ॥ न सहति परमं पदं विनिन्दां कलुषमतिः कुरुते सतामसाधुः । न यजति न ददाति यश्च सन्तं मनसि न तस्य जनार्दनोऽधमस्य ॥ २९ ॥ परमसुहृदि बान्धवे कलत्रे सुततनयापितृमातृभृत्यवर्गे । शठमतिरुपयाति योऽर्थतृष्णां तमधमचेष्टमवेहि नास्य भक्तम् ॥ ३० ॥ अशुभमतिरसत्प्रवृत्तिसक्तः सततमनार्यविशालसंगमत्तः । अनुदिनकृतपापबन्धयत्नः पुरुषपशुर्न हि वासुदेवभक्तः ॥ ३१ ॥ सकलमिदमहं च वासुदेवः परमपुमान्परमेश्वरः स एकः । इति मतिरमला भवत्यनन्ते हृदयगते व्रज तान्विहाय दूरात् ॥ ३२ ॥ कमलनयन वासुदेव विष्णो धरणिधराच्युत शंखचक्रपाणे । भव शरणमितीरयन्ति ये वै त्यज भट दूरतरेण तानपापान् ॥ ३३ ॥ वसति मनसि यस्य सोऽव्ययात्मा पुरुषवरस्य न तस्य दृष्टिपाते । तव गतिरथवा ममास्ति चक्र- प्रतिहतवीर्यवलस्य सोऽन्यलोक्यः ॥ ३४ ॥ कालिंग उवाच - इति निजभटशासनाय देवो रवितनयः स किलाह धर्मराजः । मम कथितमिदं च तेन तुभ्यं कुरुवर सम्यगिदं मयापि चोक्तम् ॥ ३५ ॥ भीष्म उवाच - नकुलैतन्ममाख्यातं पूर्वं तेन द्विजन्मना । कलिंगदेशादभ्येत्य प्रीयता सुमहात्मना ॥ ३६ ॥ मयाप्येतद्यथान्यायं सम्यग्वत्स तवोदितम् । यथा विष्णुमृते नान्यत्त्राणं संसारसागरे ॥ ३७ किंकरा दण्डपाशौ वा न यमो न च यातनाः । समर्थास्तस्य यस्यात्मा केशवालम्बनः सदा ॥ ३८ ॥ पराशर उवाच - एतन्मुने तवाख्यातं गीतं वैवस्वतेन यत् । त्वत्प्रश्नानुगतं सम्यक्किमन्यच्छ्रोतुमिच्छसि ॥ ३९ ॥ ॥ इति विष्णुपुराणान्तर्गता यमगीता समाप्ता ॥॥ अथ प्रारभ्यते नृसिंहपुराणान्तर्गता यमगीता ॥ व्यास उवाच - मृत्युश्च किंकराश्चैव विष्णुदूतैः प्रपीडिताः । स्वराज्ञस्तेऽनुनिर्वेशं गत्वा संचक्रुशुर्भृशम् ॥ १ ॥ मृत्युकिंकराः ऊचुः - शृणु राजन्वचोऽस्माकं तवाग्रे यद्ब्रवीमहे । त्वदादेशाद्वयं गत्वा मृत्युं संस्थाप्य दूरतः ॥ २ ॥ ब्राह्मणस्य समीपं च भृगोः पौत्रस्य सत्तमः । तं ध्यायमानं कमपि देवमेवाग्रमानसम् ॥ ३ ॥ गन्तुं न शक्तास्तत्पार्श्वं वयं सर्वे महामते । यावत्तावन्महाकायैः पुरुषैर्मुशलैर्हताः ॥ ४ ॥ वयं निवृत्तास्तद्वीक्ष्य मृत्युस्तत्र गतः पुनः । अस्मान्निर्भर्त्स्य तत्रायं तैर्नरैर्मुशलैर्हतः ॥ ५ ॥ एवमत्र तमानेतुं ब्राह्मणं तपसि स्थितम् । अशक्ता वयमेवात्र मृत्युना सह वै प्रभो ॥ ६ ॥ तद्ब्रवीमि महाभाग यद्ब्रह्म ब्राह्मणस्य तु । देवं कं ध्यायते विप्रः के वा ते यैर्हता वयम् ॥ ७ ॥ व्यास उवाच - इत्युक्तः किंकरैः सर्वैर्मृत्युना च महामते । ध्यात्वा क्षणं महाबुद्धिः प्राह वैवस्वतो यमः ॥ ८ ॥ यम उवाच - शृण्वन्तु किंकराः सर्वे मृत्युश्चान्ये च मे वचः । सत्यमेतत्प्रवक्ष्यामि ज्ञानं यद्योगमार्गतः ॥ ९ ॥ भृगोः पौत्रो महाभागो मार्कण्डेयो महामतिः । स ज्ञात्वाद्यात्मनः कालं गतो मृत्युजिगीषया ॥ १० ॥ भृगुणोक्तेन मार्गेण स तेपे परमं तपः । हरिमाराध्य मेधावी जपन्वै द्वादशाक्षरम् ॥ ११ ॥ एकाग्रेणैव मनसा ध्यायते हृदि केशवम् । सततं योगयुक्तस्तु स मुनिस्तत्र किंकराः ॥ १२ ॥ हरिध्यानमहादक्षा बलं तस्य महामुनेः । नान्यद्वै प्राप्तकालस्य बलं पश्यामि किंकराः ॥ १३ ॥ हृदिस्थे पुण्डरीकाक्षे सततं भक्तवत्सले । पश्यन्तं विष्णुभूतं नु को हि स्यात्केशवाश्रयम् ॥ १४ ॥ तेऽपि वै पुरुषा विष्णोर्यैर्यूयं ताडिता भृशम् । अत ऊर्ध्वं न गन्तव्यं यत्र वै वैष्णवाः स्थिताः ॥ १५ ॥ न चित्रं ताडनं तत्र अहं मन्ये महात्मभिः । भवतां जीवनं चित्रं यक्षैर्दत्तं कृपालुभिः ॥ १६ ॥ नारायणपरं विप्रं कस्तं वीक्षितुमुत्सहेत् । युष्माभिश्च महापापैर्मार्कण्डेयं हरिप्रियम् । समानेतुं कृतो यत्नः समीचीनं न तत्कृतम् ॥ १७ ॥ नरसिंहं महादेवं ये नराः पर्युपासते । तेषां पार्श्वं न गन्तव्यं युष्माभिर्मम शासनात् ॥ १८ ॥ व्यास उवाच - स एवं किंकरानुक्त्वा मृत्युं च पुरतः स्थितम् । यमो निरीक्ष्य च जनं नरकस्थं प्रपीडितम् ॥ १९ ॥ कृपया परया युक्तो विष्णुभक्त्या विशेषतः । जनस्यानुग्रहार्थाय तेनोक्ता चागिरः शृणु ॥ २० ॥ नरके पच्यमानस्य यमेन परिभाषितम् । किं त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥ २१ ॥ उदकेनाप्यलाभे तु द्रव्याणां पूजितः प्रभुः । यो ददाति स्वकं लोकं स त्वया किं न पूजितः ॥ २२ ॥ नरसिंहो हृषीकेशः पुण्डरीकनिभेक्षणः । स्मरणान्मुक्तिदो नॄणां स त्वया किं न पूजितः ॥ २३ ॥ इत्युक्त्वा नारकान्सर्वान्पुनराह स किंकरान् । वैवस्वतो यमः साक्षाद्विष्णुभक्तिसमन्वितः ॥ २४ ॥ नारदाय स विश्वात्मा प्राहैवं विष्णुरव्ययः । अन्येभ्यो वैष्णवेभ्यश्च सिद्धेभ्यः सततं श्रुतम् ॥ २५ ॥ तद्वः प्रीत्या प्रवक्ष्यामि हरिवाक्यमनुत्तमम् । शिक्षार्थं किंकराः सर्वे शृणुत प्रणता हरेः ॥ २६ ॥ हे कृष्ण कृष्ण कृष्णेति यो मां स्मरति नित्यशः । जलं भित्त्वा यथा पद्मं नरकादुद्धराम्यहम् ॥ २७ ॥ पुण्डरीकाक्ष देवेश नरसिंह त्रिविक्रम । त्वामहं शरणं प्राप्त इति यस्तं समुद्धर ॥ २८ ॥ त्वां प्रपन्नोऽस्मि शरणं देवदेव जनार्दन । इति यः शरणं प्राप्तस्तं क्लेशादुद्धराम्यहम् ॥ २९ ॥ व्यास उवाच - इत्युदीरितमाकर्ण्य हरिवाक्यं यमेन च । नारकाः कृष्ण कृष्णेति नारसिंहेति चुक्रुशुः ॥ ३० ॥ यथा यथा हरेर्नाम कीर्तयन्त्यत्र नारकाः । तथा तथा हरेर्भक्तिमुद्वहन्तोऽब्रुवन्निदम् ॥ ३१ ॥ नारका ऊचुः - नमो भगवते तस्मै केशवाय महात्मने । यन्नामकीर्तनात्सद्यो नरकाग्निः प्रशाम्यति ॥ ३२ ॥ भक्तप्रियाय देवाय रक्षाय हरये नमः । लोकनाथाय शान्ताय यज्ञेशायादिमूर्तये ॥ ३३ ॥ अनन्तायाप्रमेयाय नरसिंहाय ते नमः । नारायणाय गुरवे शंखचक्रगदाभृते ॥ ३४ ॥ वेदप्रियाय महते विक्रमाय नमो नमः । वाराहायाप्रतर्क्याय वेदांगाय महीभृते ॥ ३५ ॥ नमो द्युतिमते नित्यं ब्राह्मणाय नमो नमः । वामनाय बहुज्ञाय वेदवेदांगधारिणे ॥ ३६ ॥ बलिबन्धनदत्ताय वेदपालाय ते नमः । विष्णवे सुरनाथाय व्यापिने परमात्मने ॥ ३७ ॥ चतुर्भुजाय शुद्धाय शुद्धद्रव्याय ते नमः । जामदग्न्याय रामाय दुष्टक्षत्रान्तकारिणे ॥ ३८ ॥ रामाय रावणान्ताय नमस्तुभ्यं महात्मने । अस्मानुद्धर गोविन्द पूतिगन्धान्नमोऽस्तु ते ॥ ३९ ॥ इति नृसिंहपुराणे यमगीताध्यायः ॥ ॥ इति यमगीता समाप्ता ॥
॥ अथ प्रारभ्यते अग्निपुराणान्तर्गता यमगीता ॥ अग्निरुवाच - यमगीतां प्रवक्ष्यामि उक्ता या नाचिकेतसे । पठतां शृण्वतां भुक्त्यै मुक्त्यै मोक्षार्थिनं सताम् ॥ १ ॥ यम उवाच - आसनं शयनं यानपरिधानगृहादिकम् । वांछन्त्यहोऽतिमोहेन सुस्थिरं स्वयमस्थिरः ॥ २ ॥ भोगेषु शक्तिः सततं तथैवात्मावलोकनम् । श्रेयः परं मनुष्याणां कपिलोद्गीतमेव हि ॥ ३ ॥ सर्वत्र समदर्शित्वं निर्ममत्वमसंगता । श्रेयः परं मनुष्याणां गीतं पंचशिखेन हि ॥ ४ ॥ आगर्भजन्मबाल्यादिवयोऽवस्थादिवेदनम् । श्रेयः परं मनुष्याणां गंगाविष्णुप्रगीतकम् ॥ ५ ॥ आध्यात्मिकादिदुःखानामाद्यन्तादिप्रतिक्रिया । श्रेयः परं मनुष्याणां जनकोद्गीतमेव च ॥ ६ ॥ अभिन्नयोर्भेदकरः प्रत्ययो यः परात्मनः । तच्छान्तिपरमं श्रेयो ब्रह्मोद्गीतमुदाहृतम् ॥ ७ ॥ कर्तवयमिति यत्कर्म ऋग्यजुःसामसंज्ञितम् । कुरुते श्रेयसे संगान् जैगीषव्येण गीयते ॥ ८ ॥ हानिः सर्वविधित्सानामात्मनः सुखहैतुकी । श्रेयः परं मनुष्याणां देवलोद्गीतमीरितम् ॥ ९ ॥ कामत्यागात्तु विज्ञानं सुखं ब्रह्मपरं पदम् । कामिनां न हि विज्ञानं सनकोद्गीतमेव तत् ॥ १० ॥ प्रवृत्तं च निवृत्तं च कार्यं कर्मपरोऽब्रवीत् । श्रेयसा श्रेय एतद्धि नैष्कर्म्य ब्रह्म तद्दहरिः ॥ ११ ॥ पुमांश्चाधिगतज्ञानो भेदं नाप्नोति सत्तमः । ब्रह्मणा विष्णुसंज्ञेन परमेणाव्ययेन च ॥ १२ ॥ ज्ञानं विज्ञानमास्तिक्यं सौभाग्यं रूपमुत्तमम् । तपसा लक्ष्यते सर्वं मनसा यद्यदिच्छति ॥ १३ ॥ नास्ति विष्णुसमं ध्येयं तपो नानशनात्परम् । नास्त्यारोग्यसमं धन्यं नास्ति गंगासमा सरित् ॥ १४ ॥ न सोऽस्ति बान्धवः कश्चिद्विष्णुं मुक्त्वा जगद्गुरुम् । अधश्चोर्ध्वं हरिश्चाग्रे देहेन्द्रियमनोमुखे ॥ १५ ॥ इत्येव संस्मरन्प्राणान्यस्त्यजेत्स हरिर्भवेत् । यत्तद्ब्रह्म यतः सर्वं यत्सर्वं तस्य संस्थितम् ॥ १६ ॥ अग्राह्यकमनिर्देश्यं सुप्रतीकं च यत्परम् । परापरस्वरूपेण विष्णुः सर्वहृदि स्थितः ॥ १७ ॥ यज्ञेशं यज्ञपुरुषं केचिदिच्छन्ति तत्परम् । केचिद्विष्णुं हरं केचित्केचिद्ब्रह्माणमीश्वरम् ॥ १८ ॥ इन्द्रादिनामभिः केचित्सूर्यं सोमं च कालकम् । ब्रह्मादिस्तम्बपर्यन्तं जगद्विष्णुं वदन्ति च ॥ १९ ॥ स विष्णुः परमं ब्रह्म यतो नावर्तते पुनः । सुवर्णादिमहादानपुण्यतीर्थावगाहनैः ॥ २० ॥ ध्यानैर्व्रतैः पूजया च धर्मश्रुत्या तदाप्नुयात् । आत्मानं रथिनं विद्धि शरीरं रथमेव च ॥ २१ ॥ बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ॥ ॥ २२ ॥ आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः । यस्त्वविज्ञानवान्भवत्ययुक्येन मनसा सदा ॥ २३ ॥ न तत्पदमवाप्नोति संसारं चाधिगच्छति । यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा ॥ २४ ॥ स तत्पदमवाप्नोति यस्माद्भूयो न जायते । विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ॥ २५ । सोऽध्वानं परमाप्नोति तद्विष्णोः परमं पदम् । इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ॥ २६ ॥ मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः । महतः परमव्यक्तमव्यक्तात्पुरुषः परः ॥ २७ ॥ पुरुषान्न परं किंचित् सा काष्ठा सा परा गतिः । एषु सर्वेषु भूतेषु गूढात्मा न प्रकाशते ॥ २८ ॥ दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः । यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेज्ज्ञानमात्मनि ॥ २९ ॥ ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनि । ज्ञात्वा ब्रह्मात्मनोर्योगं यमाद्यैर्ब्रह्म सद्भवेत् ॥ ३० ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । यमाश्च नियमाः पंचं शौचं संतोषसत्तमः ॥ ३१ ॥ स्वाध्यायेश्वरपूजा च आसनं पद्मकादिकम् । प्राणायामो वायुजयः प्रत्याहारः स्वनिग्रहः ॥ ३२ ॥ शुभे ह्येकत्र विषये चेतसो यत्प्रधारणम् । निश्चलत्वात्तु धीमद्भिर्धारणा द्विज कथ्यते ॥ ३३ ॥ पौनः पुन्येन तत्रैव विषयेष्वेव धारणा । ध्यानं स्मृतं समाधिस्तु अहंब्रह्मात्मसंस्थितिः ॥ ३४ ॥ घटध्वंसाद्यथाकाशमभिन्नं नभसा भवेत् । मुक्तो जीवो ब्रह्मणैवं सद्ब्रह्म ब्रह्म वै भवेत् ॥ ३५ ॥ आत्मानं मन्यते ब्रह्म जीवो ज्ञानेन नान्यथा । जीवो ह्यज्ञानतत्कार्यमुक्तः स्यादजरामरः ॥ ३६ ॥ अग्निरुवाच - वसिष्ठ यमगीतोक्ता पठतां भुक्तिमुक्तिदा । आत्यन्तिको लयः प्रोक्तो वेदान्तब्रह्मधीमयः ॥ ३७ ॥ ॥ इति अग्निपुराणान्तर्गता यमगीता समाप्ता ॥