व्यासगीता ब्रह्मपुराणे
अध्यायः २३४ (१२६) आत्यन्तिकलयनिरूपणम् व्यास उवाच आध्यात्मिकादि भो विप्रा ज्ञात्वा तापत्रयं बुधः । उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥ २३४.१॥ आध्यात्मिकोऽपि द्विविधा शारीरो मानसस्तथा । शारीरो बहुभिर्भेदैर्भिद्यते श्रूयतां च सः ॥ २३४.२॥ शिरोरोगप्रतिश्यायज्वरशूलभगंदरैः । गुल्मार्शःश्वयथुश्वासच्छर्द्यादिभिरनेकधा ॥ २३४.३॥ तथाऽक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः । भिद्यते देहजस्तापो मानसं श्रोतुमर्हथ ॥ २३४.४॥ कामक्रोधभद्वेषलोभमोहविषादजः । शोकासूयावमानेर्ष्यामात्सर्याभिभवस्तथा ॥ २३४.५॥ मानसोऽपि द्विजश्रेष्ठास्तापो भवति नैकधा । इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥ २३४.६॥ मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः । सरीसृपाद्यैश्च नृणां जन्यते चाऽऽधिभौतिकः ॥ २३४.७॥ शीतोष्णवातवर्षाम्बुवैद्युतादिसमुद्भवः । तापो द्विजवरश्रेष्ठाः कथ्यते चाऽऽधिदैविकः ॥ २३४.८॥ गर्भजन्मजराज्ञानमृत्युनारकजं तथा । दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तमाः ॥ २३४.९॥ सुकुमारतनुर्गर्भे जन्तुर्बहुमलावृते । उल्बसंवेष्टितो भग्नपृष्ठग्रीवास्थिसंहतिः ॥ २३४.१०॥ अत्यम्लकटुतीक्ष्णोष्णलवणैर्मातृभोजनैः । अतितापिभिरत्यर्थं बाध्यमानोऽतिवेदनः ॥ २३४.११॥ प्रसारणाकुञ्चनादौ नागा(ङ्गा)नां प्रभुरात्मनः । शकृन्मूत्रमहापङ्कशायी सर्वत्र पीडितः ॥ २३४.१२॥ निरुच्छ्वासः सचैतन्यः स्मरञ्जन्मशतान्यथ । आस्ते गर्भेऽतिदुःखेन निजकर्मनिबन्धनः ॥ २३४.१३॥ जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः । प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः ॥ २३४.१४॥ अधोमुखस्तैः क्रियते प्रबलैः सूतिमारुतैः । क्लेशैर्निष्क्रान्तिमाप्नोति जठरान्मातुरातुरः ॥ २३४.१५॥ मूर्च्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना । विज्ञानभ्रंसमाप्नोति जातस्तु मुनिसत्तमाः ॥ २३४.१६॥ कण्टकैरिव तुन्नाङ्गः क्रकचैरिव दारितः । पूतिव्रणान्निपतितो धरण्यां क्रिमिको यथा ॥ २३४.१७॥ कण्डूयनेऽपि चाशक्तः परिवर्तेऽप्यनीश्वरः । स्तनपानादिकाहारमवाप्नोति परेच्छया ॥ २३४.१८॥ अशुचिस्रस्तरे सुप्तः कीटदंशादिभिस्तथा । भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे ॥ २३४.१९॥ जन्मदुःखान्यनेकानि जन्मनोऽनन्तराणि च । बालभावे यदाप्नोति आधिभूतादिकानि च ॥ २३४.२०॥ अज्ञानतमसा छन्नो मूढान्तः करणो नरः । न जानाति कुतः कोऽहं कुत्र गन्ता किमात्मकः ॥ २३४.२१॥ केन बन्धेन बद्धोऽहं कारणं किमकारणम् । किं कार्यं किमकार्यं वा किं वाच्यं किं न चोच्यते ॥ २३४.२२॥ को धर्मः कश्च वाऽधर्मः कस्मिन्वर्तेत वै कथम् । किं कर्तव्यमकर्तव्यं किं वा किं गुणदोषवत् ॥ २३४.२३॥ एवं पशुसमैर्मूढैरज्ञानप्रभवं महत् । अवाप्यते नरैर्दुःखं शिश्नोदरपरायणैः ॥ २३४.२४॥ अज्ञानं तामसो भावः कार्यारम्भप्रवृत्तयः । अज्ञानिनां प्रवर्तन्ते कर्मलोपस्ततो द्विजाः ॥ २३४.२५॥ नरकं कर्मणां लोपात्फलमाहुर्महर्षयः । तस्मादज्ञानिनां दुःखमिह चामुत्र चोत्तमम् ॥ २३४.२६॥ जराजर्जरदेहश्च शिथिलावयवः पुमान् । विचलच्छीर्णदशनो वलिस्नायुशिरावृतः ॥ २३४.२७॥ दूरप्रनष्टनयनो व्योमान्तर्गततारकः । नासाविवरनिर्यातरोमपुञ्जश्चलद्वपुः ॥ २३४.२८॥ प्रकटीभूतसर्वास्थिर्नतपृष्ठास्थिसंहतिः । उत्सन्नजठराग्नित्वादल्पाहारोल्पचेष्टितः ॥ २३४.२९॥ कृच्छ्रचंक्रमणोत्थानशयनासनचेष्टितः । मन्दीभवच्छ्रोत्रनेत्रगलल्लालाविलाननः ॥ २३४.३०॥ अनायत्तैः समस्तैश्च करणैर्मरणोन्मुखः । तत्क्षणेऽप्यनुभूतानामस्मर्ताऽखिलवस्तुनाम् ॥ २३४.३१॥ सकृदुच्चारिते वाक्ये समुद्भूतमहाश्रमः । श्वासकासामयायाससमुद्भूतप्रजागरः ॥ २३४.३२॥ अन्येनोत्थाप्यतेऽन्येन तथा संवेश्यते जरी । भृत्यात्मपुत्रदाराणामपमानपराकृतः ॥ २३४.३३॥ प्रक्षीणाखिलशौचश्च विहाराहारसंस्पृहः । हास्यः परिजनस्यापि निर्विण्णाशेषबान्धवः ॥ २३४.३४॥ अनुभूतमिवान्यस्मिञ्जन्मन्यात्मविचेष्टितम् । संस्मरन्यौवने दीर्घं निःश्वसित्यतितापितः ॥ २३४.३५॥ एवमादीनि दुःखानि जरायामनुभूय च । मरणे यानि दुःखानि प्राप्नोति शृणु तान्यपि ॥ २३४.३६॥ श्लथग्रीवाङ्घ्रिहस्तोऽथ प्राप्तो वेपथुना नरः । मुहुर्ग्लानिपरश्चासौ मुहुर्ज्ञानबलन्वितः ॥ २३४.३७॥ हिरण्यधान्यतयभार्याभृत्यगृहादिषु । एते कथं भविष्यन्तीत्यतीवममताकुलः ॥ २३४.३८॥ मर्मविद्भिर्महारोगैः क्रकचैरिव दारुणैः । शरैरिवान्तकस्योग्रैश्छिद्यमानास्थिबन्धनः ॥ २३४.३९॥ परिवर्तमानताराक्षिहस्तपादं मुहुः क्षिपन् । संशुष्यमाणताल्वोष्ठकण्ठो घुरघुरायते ॥ २३४.४०॥ निरुद्धकण्ठदेशीऽपि उदानश्वासपीडितः । तापेन महता व्याप्तस्तृषा व्याप्तस्तथा क्षुधा ॥ २३४.४१॥ क्लेशादुत्क्रान्तिमाप्नोति याम्यकिंकरपीडितः । तापेन महात व्याप्तस्तृषा व्याप्तस्तथा क्षुधा ॥ २३४.४२॥ एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम् । शृणुध्वं दर्शं यानि प्राप्यन्ते पुरुषैर्मृतैः ॥ २३४.४३॥ याम्यकिंकरपाशादिग्रहणं दण्डताडनम् । यमस्य दर्शनं चोग्रमुग्रमार्गविलोकनम् ॥ २३४.४४॥ करम्भवालुकाविह्नियन्त्रशस्त्रादिभीषणे । प्रत्येकं यातनायाश्च यातनादि द्विजोत्तमाः ॥ २३४.४५॥ क्रकचैःपीड्यमानानांमृ(मू)षायां चापि ध्माप्यताम् । कुठारैः पाट्यमानानांभूमौ चापि निखन्यताम् ॥ २३४.४६॥ शूलेष्वारोप्यमाणानां व्याघ्रवक्त्रे प्रवेश्यताम् । गृध्रैः संभक्ष्यमाणानां द्वीपिभिश्चोपभुज्यताम् ॥ २३४.४७॥ क्वथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे । उच्चन्निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः ॥ २३४.४८॥ नरके यानि दुःखानि पापहेतूद्भवानि वै । प्राप्यन्ते नारकैर्विप्रास्तेषां संख्या न विद्यते ॥ २३४.४९॥ न केवलं द्विजश्रेष्ठा नरके दुःखपद्धतिः । स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः ॥ २३४.५०॥ पुनश्च गर्भो भवति जायते च पुनर्नरः । गर्भे विलीयते भूयो जायमानोऽस्तमेति च ॥ २३४.५१॥ जातमात्रश्च म्रियते बालभावे च यौवने । यद्यत्प्रीतिकरं पुंसां वस्तु विप्राः प्रजायते ॥ २३४.५२॥ तदेव दुःखवृक्षस्य बीजत्वमुपगच्छति । कलत्रपुत्रमित्रादिगृहक्षेत्रधनादिकैः ॥ २३४.५३॥ क्रियते न तथा भूरि सुखं पुंसां यथाऽसुखम् । इति संसारदुःखार्कतापतापितचेतसाम् ॥ २३४.५४॥ विमुक्तिपादपच्छायामृते कुत्र सुखं नृणाम् । तदस्य त्रिविधस्यापि दुःखजातस्य पण्डितैः ॥ २३४.५५॥ गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः । निरस्तातिशयाह्लादं सुखभावैकलक्षणम् ॥ २३४.५६॥ भेषजं भगवत्प्राप्तिरेका चाऽऽत्यन्तिकी मता । तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर्नरैः ॥ २३४.५७॥ तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं द्विजोत्तमाः । आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते ॥ २३४.५८॥ शब्दब्रह्माऽऽगममयं परं ब्रह्म विवेकजम् । अन्धं तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् ॥ २३४.५९॥ यथा सूर्यस्तथा ज्ञानं यद्वै विप्रा विवेकजम् । मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तमाः ॥ २३४.६०॥ तदेतच्छ्रुयतामत्र संबन्धे गदतो मम । द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ॥ २३४.६१॥ शब्दब्रह्मणि निष्णातः परं ब्रह्मधिगच्छति । द्वे विद्ये वेदितव्ये इति चाऽऽथर्वणी श्रुतिः ॥ २३४.६२॥ परया ह्यक्षरप्राप्तिरृग्वेदादिमयाऽपरा । यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् ॥ २३४.६३॥ अनिर्देश्यमरूपं च पाणिपादाद्यसंयुतम् । वित्तं सर्वगतं नित्यं भूतयोनिमकारणम् ॥ २३४.६४॥ व्याप्यं व्याप्यं यतः सर्वं तद्वै पश्यन्ति सूरयः । तद्ब्रह्म परमं धाम तद्व्येयं मोक्षकाङ्क्षिभिः ॥। २३४.६५॥ श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् । उत्पत्तिं प्रलयं चैव भूतानामगतिं गतिम् ॥ २३४.६६॥ वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति । ज्ञानशक्तिबलवैश्वर्यवीर्यतेजांस्यशेषतः ॥ २३४.६७॥ भगवच्छब्दवाच्यानि च स वाच्यो भगवानिति । ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ॥ २३४.६८॥ भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः । उवाचेदं महर्षिभ्यः पुरा पृष्टः प्रजापतिः ॥ २३४.६९॥ नामाव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः । भूतेषु वसते योऽन्तर्वसन्त्यत्र च तानि यत्॥ धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥ २३४.७०॥ ससर्वभूतप्रकृतिर्गुणांश्च, दोषांश्च सर्वान्स(न)गुणो ह्यतीतः । अतीतसर्वावरणोऽखिलात्मा, तेनाऽऽवृतं यद्भवनान्तरालम् ॥ २३४.७१॥ समस्तकल्याणगुणात्मको हि, स्वशक्तिलेशादृतभूतसर्गः । इच्छागृहीताभिमतोरुदेहः, संसाधिताशेषजगद्धितोऽसौ ॥ २३४.७२॥ तेजोबलैश्वर्यमहावरोधः, स्ववीर्यशक्त्यादिगुणैकराशिः । परः पराणां सकला न यत्र, क्लेशादयः सन्ति परापरेशे ॥ २३४.७३॥ स ईश्वरो व्यष्टिसमष्टिरूपोऽव्यक्तस्वरूपः प्रकटस्वरूपः । सर्वेश्वरः सर्वदृक्सर्ववेत्ता, समस्तशक्तिः परमेश्वराख्यः ॥ २३४.७४॥ संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् । संदृश्यते वाऽऽप्यथ गम्यते वा,तज्ज्ञानमज्ञानमतोऽन्यदुक्तम् ॥ २३४.७५॥ इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवाद आत्यन्तिकलयनिरूपणं नाम चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ २३४॥अध्यायः २३५ (१२७) योगाभ्यासनिरूपणम् मुनय ऊचुः इदानीं ब्रूहि योगं च दुःखसंयोगभेषजम् । यं विदित्वाऽव्ययं तत्र युञ्जामः पुरुषोत्तमम् ॥ २३५.१॥ श्रुत्वा स वचनं तेषां कुष्णद्वैपायनस्तदा । अब्रवीत्परमप्रीतो योगी योगविदां वरः ॥ २३५.२॥ योगं वक्ष्यामि भो विप्राः शृणुध्वं भवनाशनम् । यमभ्यस्याऽऽप्नु याद्योगी मोक्षं परमदुर्लभम् ॥ २३५.३॥ श्रुत्वाऽऽदौ योगशास्त्राणि गुरुमाराध्य भक्तितः । इतिहासं पुराणं च वेदांश्चैव विचक्षणः ॥ २३५.४ । आहारं योगदोषांश्च देशकालं च बुद्धिमान् । ज्ञात्वा समभ्यसेद्योगं निर्द्वद्वो निष्परिग्रहः ॥ २३५.५॥ भुञ्जन्सक्तुं यवागूं च तक्रमूलफलं पयः । यावकं कणपिण्याकमाहारं योगसाधनम् ॥ २३५.६॥ न मनोविकले ध्माते न श्रान्ते क्षुधिते तथा । न द्वंद्वे न च शीते च न चोष्णे नानिलात्मके ॥ २३५.७॥ सशब्दे न जलाभ्यासे जीर्णगोष्ठे चतुष्पथे । सरीसृपे श्मशाने च न नद्यन्तेऽग्निसंनिधौ ॥ २३५.८॥ न चैत्ये न च वल्मीके सभये कूपसंनिधै । न शुष्कपर्णनिचये योगं युञ्जीत कर्हिचित् ॥ २३५.९॥ देशानेताननादृत्य मूढत्वाद्यो युनक्ति वै । प्रवक्ष्ये तस्य ये दोषा जायन्ते विघ्नकारकाः ॥ २३५.१०॥ बाधिर्यं जडता लोपः स्मृतेर्मूकत्वमन्धता । ज्वरश्च जायते सद्यस्तद्वदज्ञानसंभवः ॥ २३५.११॥ तस्मात्सर्वात्मना कार्या रक्षा योगविदा सदा । धर्मार्थकाममोक्षणां शरीरं साधनं यतः ॥ २३५.१२॥ आश्रमे विजने गुह्ये निःशब्दे निर्भये नगे । शून्यागारे शुचौरम्ये चैकान्ते देवतालये ॥ २३५.१३॥ रजन्याः पश्चिमे यामे पूर्वे च सुसमाहितः । पूर्वाह्णे मध्यमे चाह्नि युक्ताहारो जितेन्द्रियः ॥ २३५.१४॥ आसीनः प्राङ्मुखो रम्य आसने सुखनिश्चले । नातिनीचे न चोच्छ्रिते निस्पृहः सत्यवाक्षुचिः ॥ २३५.१५॥ युक्तनिद्रो जितक्रोधः सर्वभूतहिते रतः । सर्वद्वंद्वसहो धीरः समकायाङ्घ्रिमस्तकः ॥ २३५.१६॥ नाभौ निधाय हस्तौ द्वौ शान्तः पद्मासने स्थितः । संस्थाप्य दृष्टिं नासाग्रे प्राणानायम्य वाग्यतः ॥ २३५.१७॥ समाहृत्येन्द्रियग्रामं मनसा हृदये मुनिः । प्रणवं दीर्घमुद्यम्य संवृतास्यः सुनिश्चलः ॥ २३५.१८॥ रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा । संछाद्य निर्मलं शान्ते स्थितः संवृतलोचनः ॥ २३५.१९॥ हृत्पद्मकोटरे लीनं सर्वव्यापि निरञ्जनम् । युञ्जीत शान्ते स्थितः संवृतलोचनः ॥ २३५.२०॥ करणेन्द्रियभूतानि क्षेत्रज्ञे प्रथमं न्यसेत् । क्षेत्रज्ञश्च परे योज्यस्ततो युञ्जति योगवित् ॥ २३५.२१॥ मनो यस्यान्तमभ्येति परमात्मनि चञ्चलम् । संत्यज्य विषयांस्तस्य योगसिद्धिः प्रकाशिता ॥ २३५.२२॥ यदा निर्विषयं चित्तं परे ब्रह्मणि लीयते । समाधौ योगयुक्तस्य तदाऽभ्येति परं पदम् ॥ २३५.२३॥ असंसक्तं यदा चित्तं योगिनः सर्वकर्मसु । भवत्यानन्दमासाद्य तदा निर्वाणमृच्छति ॥ २३५.२४॥ शुद्धं धामत्रयातीतं तुर्याख्यं पुरुषोत्तमम् । प्राप्य योगबलाद्योगी मुच्यते नात्र संशयः ॥ २३५.२५॥ निःस्पृहः सर्वकामेभ्यः सर्वत्र प्रियदर्शनः । सर्वत्रानित्यबुद्धिस्तु योगी मुच्येत नान्यथा ॥ २३५.२६॥ इन्द्रियाणि न सेवेन वैराग्येण च योगवित् । सदा चाभ्यासयोगेन मुच्यते नात्र संशयः ॥ २३५.२७॥ न च पद्मासनाद्योगो न नासाग्रनिरीक्षणात् । मनसश्चेन्द्रियाणां च संयोगो योग उच्यते ॥ २३५.२८॥ एवं मया मुनिश्रेष्ठा योगः प्रोक्तो विमुक्तिदः । संसारमोक्षहेतुश्च किमन्यच्छ्रोतुमिच्छथ ॥ २३५.२९॥ लोमहर्षण उवाच श्रुत्वा ते वचनं तस्य साधु साध्विति चाब्रुवन् । व्यासं प्रशस्य सम्पूज्य पुनः प्रष्टुं समुद्यताः ॥ २३५.३०॥ इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे योगाभ्यासनिरूपणं नाम पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ॥ २३५॥
अध्यायः २३६ (१२८) सांख्ययोगनिरूपणम् मुनय ऊचुः तव वक्त्राब्धिसंभूतममृतं वाङ्मयं मुने । पिबतां नो द्विजश्रेष्ठ न नृप्तिरिह दृश्यते ॥ २३६.१॥ तस्माद्योगं मुने ब्रूहि विस्तरेण विमुक्तिदम् । सांख्यं च द्विपदां श्रेष्ठ श्रोतुमिच्छामहे वयम् ॥ २३६.२॥ प्रज्ञावाञ्श्रोत्रियो यज्वा ख्यातः प्राज्ञोऽनसूयकः । सत्यधर्ममतिर्ब्रह्मन्कथं ब्रह्माधिगच्छति ॥ २३६.३॥ तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया । सांख्ये वा यदि वा योग एतत्पृष्टो वदस्व नः ॥ २३६.४॥ मनसश्चेन्द्रियाणां च यथैकागय्रमवाप्यते । येनोपायेन पुरुषस्तत्त्वं व्याख्यातुमर्हसि ॥ २३६.५॥ व्यास उवाच नान्यत्र ज्ञानतपसोर्नान्यत्रेन्द्रियनिग्रहात् । नान्यत्र सर्वसंत्यागात्सिद्धिं विन्दति कश्चन ॥ २३६.६॥ महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयंभुवः । भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु ॥ २३६.७॥ भूमेर्देहो जलात्स्नेहो ज्योतिषश्चक्षुषी स्मृते । प्राणापानाश्रयो वायुःकोष्ठाकाशं शरीरिणाम् ॥ २३६.८॥ क्रान्तौ विष्णुर्बले शक्रः कोष्ठेऽग्निर्भोक्तुमिच्छति । कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक्सरस्वती ॥ २३६.९॥ कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी । दश तानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये ॥ २३६.१०॥ शब्दस्पर्शौ तथा रूपं रसं गन्धं च पञ्चमम् । इन्द्रियार्थान्पृथग्विद्यादिन्द्रियेभ्यस्तु नित्यदा ॥ २३६.११॥ इन्द्रियाणि मनो युङ्क्ते अवश्या(शा)निव राजिनः(लः) । मनश्चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः ॥ २३६.१२॥ इन्द्रियाणां तथैवैषां सर्वेषामीश्वरं मनः । नियमे च विसर्गे च भूतात्मा मनसस्तथा ॥ २३६.१३॥ इन्द्रियाणीन्द्रियार्थश्च स्वभावश्चेतना मनः । प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम् ॥ २३६.१४॥ आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतनाः । सत्त्वं हि तेजः सृजति न गुणान्वै कथंचन ॥ २३६.१५॥ एवं सप्तदशं देहं वृतं षोडशभिर्गुणैः । मनीषी मनसा विप्राः पश्यत्यात्मानमात्मनि ॥ २३६.१६॥ न ह्यं चक्षुषा दुश्यो न च सर्वैरपीन्द्रियैः । मनसा तु प्रदीप्तेन महानात्मा प्रकशते ॥ २३६.१७॥ अशब्दस्पर्शरूपं तच्च(च्चा)रसागन्धमव्ययम् । अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम् ॥ २३६.१८॥ अव्यक्तं सर्वदेहेषु मर्त्येषु परमार्चितम् । योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयतः ॥ २३६.१९॥ विद्याविनयसम्पन्नब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ २३६.२०॥ स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च । वसत्येको महानात्मा येन सर्वमिदं ततम् ॥ २३६.२१॥ सर्वभूतेषु चाऽऽत्मानं सर्वभूतानि चाऽऽत्मनि । यदा पश्यति भूतात्मा ब्रह्म सम्पद्यते तदा ॥ २३६.२२॥ यावानात्मनि वेदाऽऽत्मा तावानात्मा परात्मनि । य एवं सततं वेद सोऽमृतत्वाय कल्पते ॥ २३६.२३॥ सर्वभूतात्मभूतस्य सर्वभूतहितस्य च । देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥ २३६.२४॥ शकुन्तानामिवाऽऽकाशे मत्स्यानामिव चोदके । यथा गतिर्न दृश्येन तथा ज्ञानविदां गतिः ॥ २३६.२५॥ कालः पचति भूतानि सर्वाण्येवाऽऽत्मनाऽऽत्मनि । यस्मिस्तु पच्यते कालस्तन्न वेदेह कश्चन ॥ २३६.२६॥ न तदुर्ध्वं न तिर्यक्च नाधो न च पुनः पुनः । न मध्ये प्रतिगृह्णीते नैव किंचिन्न कश्चन ॥ २३६.२७॥ सर्वे तत्स्था इमे लोका बाह्यमेषां न किंचन । यद्यप्यग्रे समागच्छेद्यता बाणो गुणच्युतः ॥ २३६.२८॥ नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः । तस्मात्सूक्ष्मतरं नास्ति नास्ति स्थूलतरं तथा ॥ २३६.२९॥ सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ २३६.३०॥ तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम् । तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते ॥ २३६.३१॥ अक्षरं च क्षरं चैव द्वेधा भावोऽयमात्मनः । क्षकः सर्वेषु भूतेषु दिव्यं त्वमृतमक्षरम् ॥ २३६.३२॥ नवद्वारं पुरं कृत्वा हंसो हि नियतो वशी । ईदृशः सर्वभूतस्य स्थावरस्य चरस्य च ॥ २३६.३३॥ हानेनाभिविकल्पानां नराणां संचयेन च । शरीराणामजस्याऽऽहुर्हंसत्वं पारदर्शिनः ॥ २३६.३४॥ हंसोक्तं च क्षरं चैव कूटस्थं यत्तदक्षरम् । तद्विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी ॥ २३६.३५॥ व्यास उवाच भवतां पृच्छतां विप्रा यथावदिह तत्त्वतः । सांख्यं ज्ञानेन संयुक्तं तदेतत्कीर्तितं मया ॥ २३६.३६॥ योगकृत्यं तु भो विप्राः कीर्तयिष्याम्यतः परम् । एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ॥ २३६.३७॥ आत्मनो व्यापिनो ज्ञानं ज्ञानमेतदत्तुमम् । तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना ॥ २३६.३८॥ आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा । योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः ॥ २३६.३९॥ कामं क्रोदं च लोभं च भयं स्वप्नं पञ्चमम् । क्रोधं शमेन जयति कामं संकल्पवर्जनात् ॥ २३६.४०॥ सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति । धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ॥ २३६.४१॥ चक्षुः श्रोत्रं च मनसा मनो वाचं च कर्मणा । अप्रमादाद्भयं जह्यद्दम्भं प्राज्ञोपसेवनात् ॥ २३६.४२॥ एवमेतान्योगदोषाञ्जयेन्नित्यमतन्द्रितः । अग्नींश्च ब्राह्मणांश्चाथ देवताः प्रणमेत्सदा ॥ २३६.४३॥ वर्जयेदुद्धतां वाचं हिंसायुक्तां मनोनुगाम् । ब्रह्मतेजोमयं शुक्रं यस्य सर्वमिदं जगत् ॥ २३६.४४॥ एतस्य भूतभूतस्य दृष्टं स्थावरजङ्गमम् । ध्यायनमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ॥ २३६.४५॥ शौचं चैवाऽऽत्मनः शुद्धिरिन्द्रयाणां च निग्रहः । एतैर्विवर्घते तेजः पाप्मानं चापकर्षति ॥ २३६.४६॥ समः सर्वेषु भूतेषु लभ्यालभ्येन वर्तयन् धूतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः ॥ २३६.४७॥ तामत्रधौ वशे कृत्वा निषेवेद्ब्रह्मणः पदम् । मनसश्चेन्द्रियाणां च कृत्वैकाग्रयं समाहितः ॥ २३६.४८॥ पूर्वरात्रे परार्धे च धारयेन्मन आत्मनः । जन्तोः पञ्चेन्द्रियस्यास्य यद्येकं क्लिन्नमिन्द्रियम् ॥ २३६.४९॥ ततोऽस्य स्रवति प्रज्ञा गिरेः पादादिवोदकम् । मनसः पूर्वमादद्यात्कूर्माणामिव मत्स्यहा ॥ २३६.५०॥ ततः श्रोत्रं ततश्चक्षुर्जिह्वा घ्राणं च योगवित् । तत एतानि संयम्य मनसि स्थापयेद्यदि ॥ २३६.५१॥ तथैवापोह्य संकल्पान्मनो ह्यात्मनि धारयेत् । पञ्चेन्द्रियाणि मनसि हृदि संस्थापयेद्यदि ॥ २३६.५२॥ यदैतान्यवतिष्ठन्ते मनः षष्ठानि चाऽऽत्मनि । प्रसीदन्ति च संस्थायां तदा ब्रह्म प्रकाशते ॥ २३६.५३॥ विधूम इव दीप्तार्चिरागत्य इव दीप्तिमान् । वैद्युतोऽग्निरिवाऽऽकाशे पश्यन्त्यात्मानमात्मनि ॥ २३६.५४॥ सर्व तत्र तु सर्वत्र व्यापकत्वाच्च दृश्यते । तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः ॥ २३६.५५॥ धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः । एवं परिमितं कालमाचरन्संशितव्रतः ॥ २३६.५६॥ आसीनो हि रहस्येको गच्छेदक्षरसाम्यताम् । प्रमोहो भ्रम आवर्तो घ्राणं श्रवणदर्शने ॥ २३६.५७॥ अद्भुतानि रसः स्पर्शः शीतोष्णमारुताकृतिः । प्रतिभानुपसर्गाश्च प्रतिसंगृह्य योगतः ॥ २३६.५८॥ तांस्तत्त्वविदनादृत्य साम्येनैव निवर्तयेत् । कुर्यात्परिचयं योगे त्रैलोक्ये नियतो मुनिः ॥ २३६.५९॥ गिरिशृङ्गे तथा चैत्ये वृक्षमूलेषु योजयेत् । संनियम्येन्द्रियग्रामं कोष्ठे भाण्डमना इव ॥ २३६.६०॥ एकाग्रं चिन्तयेन्नित्यं योगान्नोद्विजते मनः । येनोपयेन शक्येत नियन्तुं चञ्चलं मनः ॥ २३६.६१॥ तत्र युक्तो निषेवेत न चैव विचलेत्ततः । शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत् ॥ २३६.६२॥ नातिव्रजेत्परं वाचा कर्मणा मनसाऽपि वा । उपेक्षको यथाहारो लब्धालब्धसमो भवेत् ॥ २३६.६३॥ यश्चैनमभिनन्देत यश्चैनमभिवादयेत् । समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम् ॥ २३६.६४॥ न प्रहृष्येन लाभेषु नालाभेषु च चिन्तयेत् । समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः ॥ २३६.६५॥ एवं स्वस्थात्मनः साधोः सर्वत्र समदर्शिनः । षण्मासान्नित्ययुक्तस्य शब्दब्रह्मभिवर्तते ॥ २३६.६६॥ वेदनार्तान्परान्दृष्ट्वा समलष्टाश्मकाञ्चनः । एवं तु निरतो मार्गं विरमेन्न विमीहितः ॥ २३६.६७॥ अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी । तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ॥ २३६.६८॥ अजं पुराणमजरं सनातनं, यमिन्द्रियातिगमगोचरं द्विजाः । अवेक्ष्य चेमां परमेष्ठिसाम्यतां, प्रयान्त्यनावृत्तिगतिं मनीषिणः ॥ २३६.६९॥ इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे सांख्ययोगनिरूपणं नाम पञ्चत्रिंशदधिकद्विशततमोध्यायः ॥ २३६॥
अध्यायः २३७ (१२९) ज्ञानिनां मोक्षप्राप्तिनिरूपणम् मुनय ऊचुः यद्येवं वेदवचनं कुरु कर्म त्यजेति च । कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा ॥ २३७.१॥ एतद्वै श्रोतुमिच्छमस्तद्भवान्प्रब्रवीतु नः । एतदन्योन्यवैरूप्यं वर्तते प्रतिकूलतः ॥ २३७.२॥ व्यास उवाच शृणुध्वं मुनिशार्दूला यत्पृच्छध्वं समासतः । कर्मविद्यामयौ चौभौ व्याख्यास्यामि क्षराक्षरौ ॥ २३७.३॥ यां दिशं विद्यया यान्ति यां गच्छन्ति च कर्मणा । शृणुध्वं सांप्रतं विप्रा गहनं ह्येतदुत्तरम् ॥ २३७.४॥ अस्ति धर्म इति युक्तं नास्ति तत्रैव यो वदेत् । यक्षस्य सादृश्यमिदं यक्षस्येदं भवेदथ ॥ २३७.५॥ द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मो निवृत्तो वा विभाषितः ॥ २३७.६॥ कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ २३७.७॥ कर्मणा जायते प्रेत्य मूर्तिमान्षोडशात्मकः । विद्यया जायते नित्यमव्यक्तं ह्यक्षरात्मकम् ॥ २३७.८॥ कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धिरता नराः । तेन ते देहजालेन रमयन्त उपासते ॥ २३७.९॥ ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः । न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्निवः ॥ २३७.१०॥ कर्मणां फलमाप्नोति सुखदुःखे भवाभवौ । विद्यया तदवाप्नोति यत्र गत्वा न शोचति ॥ २३७.११॥ न म्रियते यत्र गत्वा यत्र गत्वा न जायते । न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते ॥ २३७.१२॥ यत्र तद्ब्रह्म परममव्यक्तमचलं ध्रुवम् । अव्याकृतमनायामममृतं चाधियोगवित् ॥ २३७.१३॥ द्वंद्वैर्न यत्र बाध्यन्ते मानसेन च कर्मणा । समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः ॥ २३७.१४॥ विद्यामयोऽन्यः पुरुषो द्विजाः कर्ममयोऽपरः । विप्राश्चन्द्रसमस्पर्शः सूक्ष्मया कलया स्थितः ॥ २३७.१५॥ तदेतदृषिणा प्रोक्तं विस्तरेणानुगीयते । न वक्तुं शक्यते द्रष्टुं चक्रतन्तुमिवाम्बरे ॥ २३७.१६॥ एकादशविकारात्मा कलासंभारसंभृतः । मूर्तिमानिति तं विद्याद्विप्राः कर्मगुणात्मकम् ॥ २३७.१७॥ देवो यः संश्रितस्तस्मिन्बुद्धीन्दुरिव पुष्करे । क्षेत्रज्ञं तं विजानीयान्नित्यं योगजितात्मकम् ॥ २३७.१८॥ तमो रजश्च सत्त्वं च ज्ञेयं जीवगुणात्मकम् । जीवमात्मगुणं विद्यादात्मानं परमात्मनः ॥ २३७.१९॥ सचेतनं जीवगुणं वदन्ति, स चेष्टते जीवगुणं च सर्वम् । ततः परं क्षेत्रविदो वदन्ति, प्रकल्पयन्तो भुवनानि सप्त ॥ २३७.२०॥ व्यास उवाच प्रकृत्यास्तु विकारा ये क्षेत्रज्ञास्ते परिश्रुताः । ते चैनं न प्रजानन्ति न जानाति स तानपि ॥ २३७.२१॥ तैश्चैव कुरुते कार्यं मनः षष्ठैरिहेन्द्रियैः । सुदान्तैरिव संयन्ता दृढः परमवाजिभिः ॥ २३७.२२॥ इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ २३७.२३॥ महतः परमव्यक्तमव्यक्तात्परतोऽमृतम् । अमृतान्न परं किंचित्सा काष्ठा परमा गतिः ॥ २३७.२४॥ एवं सर्वेषु भूतेषु गूढात्मा न प्रकाशते । दृश्यते त्वगय्रया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ २३७.२५॥ अन्तरात्मनि संलीय मनःषष्ठानि मेधया । इन्द्रियैरिन्द्रियार्थांश्च बहुचित्तमचिन्तयन् ॥ २३७.२६॥ ध्यानेऽपि परमं कृत्वा विद्यासम्पादितं मनः । अनीश्वरः प्रशान्तात्मा ततो गच्छेत्परं पदम् ॥ २३७.२७॥ इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः । आत्मनः सम्प्रदानेन मर्त्यो मृत्युमुपाश्नुते ॥ २३७.२८॥ विहत्य सर्वसंकल्पान्सत्त्वे चित्तं निवेशयेत् । सत्त्वे चित्तं समावेश्य ततः कालंजरो भवेत् ॥ २३७.२९॥ चित्तप्रसादेन यतिर्जहातीह शुभाशुभम् । प्रसन्नात्माऽऽत्मनि स्थित्वा सुखमत्यन्तमश्नुते ॥ २३७.३०॥ लक्षणं तु प्रसादस्य यथा स्वप्ने सुखं भवेत् । निर्वाते वा यथा दीपो दीप्यमानो न कम्पते ॥ २३७.३१॥ एवं पूर्वापरे रात्रे युञ्जन्नात्मानमात्मना । लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥ २३७.३२॥ रहस्यं सर्ववेदानामनैतिह्यमनागमम् । आत्मप्रत्यायकं शास्त्रमिदं पुत्रानुशासनम् ॥ २३७.३३॥ धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद्वसु । दशवर्षसहस्राणि निर्मथ्यामृतमुद्धृतम् ॥ २३७.३४॥ नवनीतं यथा दध्नः काष्ठादग्निर्यथैव च । तथैव विदुषां ज्ञानं मुक्तिहेतोः समुद्धृतम् ॥ २३७.३५॥ स्नातकानामिदं शास्त्रं वाच्यं पुत्रानुशासनम् । तदिदं नाप्रशान्ताय नादान्ताय तपस्विने ॥ २३७.३६॥ नावेदविदुषे वाच्यं तथा नानुगताय च । नासूयकायानृजवे न चानिर्दिष्टकारिणे ॥ २३७.३७॥ न तर्कशास्त्रदग्धाय तथैव पिशुनाय च । श्लाघिने श्लाघनीयाय प्रशान्ताय तपस्विने ॥ २३७.३८॥ इदं प्रियाय पुत्राय शिष्यायानुगताय तु । रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथंचन ॥ २३७.३९॥ यदप्यस्य महीं दद्याद्रत्नपूर्णामिमां नरः । इतमेव ततः श्रेय इति मन्येत तत्त्ववित् ॥ २३७.४०॥ अतो गुह्यतरार्थं तदध्यात्ममतिमानुषम् । यत्तन्महर्षिभिर्दुष्टं वेदान्तेषु च गीयते ॥ २३७.४१॥ तद्युष्मभ्यं प्रयच्छामि यन्मां पृच्छत सत्तमाः । यन्मे मनसि वर्तेत यस्तु वो हृदि संशयः॥ श्रुतं भवद्भिस्तत्सर्वं किमन्यत्कथयामि वः ॥ २३७.४२॥ मुनय ऊचुः अध्यात्मं विस्तरेणेह पुनरेव वदस्व नः । यदध्यात्मं यथा विद्मो भगवन्नृषिसत्तम ॥ २३७.४३॥ व्यास उवाच अध्यात्मं यदिदं विप्राः पुरुषस्येह पठ्यते । युष्मभ्यं कथयिष्यामि तस्य व्याख्याऽवधार्यताम् ॥ २३७.४४॥ भीमिरापस्तथा ज्योतिर्वायुराकाशमेव च । महाभूतानि यश्चैव सर्वभूतेषु भूतकृत् ॥ २३७.४५॥ मुनय ऊचुः आकारं तु भवेद्यस्य यस्मिन्देहं न पश्यति । आकासाद्यं शरीरेषु कथं तदुपवर्णयेत्॥ इन्द्रियाणां गुणाः केचित्कथं तानुपलक्षयेत् ॥ २३७.४६॥ व्यास उवाच एतद्वो वर्णयिष्यामि यथावदनुदर्शनम् । शृणुध्वं तदिहैकाग्य्रा यथातत्त्वं यथा च तत् ॥ २३७.४७॥ शब्दः श्रोत्रं तथा खानि त्रयमाकाशलक्षणम् । प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः ॥ २३७.४८॥ रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते । रसोऽथ रसनं स्वेदो गुणास्त्वेते त्रयोऽम्भसाम् ॥ २३७.४९॥ घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः । एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः ॥ २३७.५०॥ वायोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रूपमुच्यते । आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः ॥ २३७.५१॥ मनो बुद्धिः स्वभावश्च गुणा एते स्वयोनिजाः । ते गुणानतिवर्तन्ते गुणेभ्यः परमा मताः ॥ २३७.५२॥ यथा कुर्म इवाङ्गानि प्रसार्य संनियच्छति । एवमेवेन्द्रियग्रामं बुद्धिश्रेष्ठो नियच्छति ॥ २३७.५३॥ यदूर्ध्वं पादतलयोरवार्केर्द्वं च(गधश्च)पश्यति । एतस्मिन्नेव कृत्ये सा वर्तते बुद्धिरुत्तमा ॥ २३७.५४॥ गुणैस्तु नीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि । मनःषष्ठानि सर्वाणि बुद्ध्या भवात्कुतो गृणाः ॥ २३७.५५॥ इन्द्रियाणि नरैः पञ्च षष्ठं तन्मन उच्यते । सप्तमीं बुद्धिमेवाऽऽहुः क्षेत्रज्ञं विद्धि चाष्टमम् ॥ २३७.५६॥ चक्षुरालोकनायैव संशयं कुरुते मनः । बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ॥ २३७.५७॥ रजस्तमश्च सत्त्वं च त्रय एते स्वयोनिजाः । समाः सर्वेषु भूतेषु तान्गुणानुपलक्षयेत् ॥ २३७.५८॥ तत्र यत्प्रीतिसंयुक्तं किंचिदात्मनि लक्षयेत् । प्रशान्तमिव संयुक्तं सत्त्वं तदुपधारयेत् ॥ २३७.५९॥ यत्तु संतापसंयुक्तं काये मनसि वा भवेत् । प्रवृत्तं रज इत्येवं तत्र चाप्युपलक्षयेत् ॥ २३७.६०॥ यत्तु संमोहसंयुक्तमव्यक्तं विषमं भवेत् । अप्रतर्क्यमविज्ञेयं तमस्तदुपदारयेत् ॥ २३७.६१॥ प्रहर्षः प्रीतिरानन्दं स्वाम्यं स्वस्थात्मचित्तता । अकस्माद्यदि वा कस्माद्वदन्ति सात्त्विकान्गुणान् ॥ २३७.६२॥ अभिमानो मृषावादो लोभो महोस्तथा क्षमा । लिङ्गानि रजसस्तानि वर्तन्ते हेतुतत्त्वतः ॥ २३७.६३॥ तथा मोहः प्रमादश्च तन्द्री निन्द्राऽप्रबोधिता । कथंचिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः ॥ २३७.६४॥ मनः प्रसृजते भावं बुद्धिरध्यवसायिनी । हृदयं प्रियमेवेह त्रिविधा कर्मचोदना ॥ २३७.६५॥ इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा परः स्मृतः ॥ २३७.६६॥ बुद्धिरात्मा मनुष्यस्य बुद्धिरेवाऽऽमनायिका । यदा विकुरुते भावं तदा भवति सा मनः ॥ २३७.६७॥ इन्द्रियाणां पृथग्भावाद्बुद्धिर्विकुरुते ह्यनु । क्षृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते ॥ २३७.६८॥ पश्यन्ति च भवेद्दृष्टी रसन्ती भवेत् । जिघ्रन्ती भवति घ्राणं बुद्धिर्विकुरुते पृथक् ॥ २३७.६९॥ इन्द्रियाणि तु तान्याहुस्तेषां वृत्त्या वितिष्ठति । तिष्ठति पुरुषे बुद्धिर्बुद्धिभावव्यवस्थिता ॥ २३७.७०॥ कदाचिल्लभते प्रीतिं कदाचिदपि शोचति । न सुखेन न दुःखेन कदाचिदिह मुह्यते ॥ २३७.७१॥ स्वयं भावात्मिका भावांस्त्रीनेतानतिवर्तते । सरितां सागरो भर्ता महावेलामिवोर्मिमान् ॥ २३७.७२॥ यदा प्रार्थयते किंचित्तदा भवति सा मनः । अधिष्ठाने च वै बुद्ध्या पृथगेतानि संस्मरेत् ॥ २३७.७३॥ इन्द्रियाणि च मेध्यानि विचेतव्यानि कृत्स्नशः । सर्वाण्येवानुपूर्वेण यद्यदा च विधीयते ॥ २३७.७४॥ अभिभागमना बुद्धिर्भावो मनसि वर्तते । प्रवर्तमानस्तु रजः सत्त्वमप्यतिवर्तते ॥ २३७.७५॥ ये वै भावेन वर्तन्ते सर्वेष्वेतेषु ते त्रिषु । अन्वर्थान्सम्प्रवर्तन्ते रथनेमिमरा इव ॥ २३७.७६॥ प्रदीपार्थं मनः कुर्यादिन्द्रियैर्बुद्धिसत्तमैः । निश्चरद्भिर्यथायोगमुदासीनैर्यदृच्छया ॥ २३७.७७॥ एवं स्वभावमेवेदमिति बुद्ध्वा न मुह्यति । अशोचन्सम्प्रहृष्यंश्च नित्य विगतमत्सरः ॥ २३७.७८॥ न ह्यात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः । प्रवर्तमानैरनेकैर्कर्धदुरैरकृतात्मभिः ॥ २३७.७९॥ तेषां तु मनसा रश्मीन्यदा सम्यङ्नियच्छति । तदा प्रकाशतेऽस्याऽऽत्मा दीपदीप्ता यथाऽऽकृतिः ॥ २३७.८०॥ सर्वेषामेव भूतानां तमस्युपगते यथा । प्रकाशं भवते सर्वं तथैवमुपधार्यताम् ॥ २३७.८१॥ यथा वारिचरः पक्षी न लिप्यति जले चरन् । विमुक्तात्मा तथा योगी गुणदोषैर्न लिप्यते ॥ २३७.८२॥ एवमेव कृतप्रज्ञो न दोषैर्विषयांश्चरन् । असज्जमानः सर्वेषु न कथंचित्प्रलिप्यते ॥ २३७.८३॥ त्यक्त्वा पूर्वकृतं कर्मरतिर्यस्य सदाऽऽत्मनि । सर्वभूतात्मभूतस्य गुणसङ्गेन सज्जतः ॥ २३७.८४॥ स्वयमात्मा प्रसवति गुणेष्वपि कदाचन । न गुणा विदुरात्मानं गुणान्वेद स सर्वदा ॥ २३७.८५॥ परिदध्याद्गुणानां स द्रष्टा चैव यथातथम् । सत्तवक्षेत्रज्ञयोरेवमन्तरं लक्षयेन्नरः ॥ २३७.८६॥ सृजते तु गुणानेक एको न सृजते गुणान् । पृथग्भूतौ प्रकृत्यैतौ सम्प्रयुक्तौ च सर्वदा ॥ २३७.८७॥ यथाऽश्मना हिरण्यस्य सम्प्रयुक्तौ तथैव तौ । मशकौदुम्बरौ वाऽपि सम्प्रयुक्तौ यथा सह ॥ २३७.८८॥ इषिका वा यथा मुञ्जे पृथक्च सह चैवाह । तथैव सहितावेतौ अन्योन्यस्मिन्प्रतिष्ठितौ ॥ २३७.८९॥ इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे सप्तत्रिंशदधिकद्विशततमोध्यायः ॥ २३७॥
अध्यायः २३८ (१३०) गुणसर्जनकथनम् व्यास उवाच सृजते तु गुणान्सत्त्वे क्षेत्रज्ञस्त्वधितिष्ठति । गुणान्विक्रियतः सर्वानुदासीनवदीश्वरः ॥ २३८.१॥ स्वभावयुक्तं तत्सर्वं यदिमान्सृजते गुणान् । ऊर्णनाभिर्यथा सूत्रं सृजते तद्गुणांस्तथा ॥ २३८.२॥ प्रवृत्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते । एवमेक व्यवस्यन्ति निवृत्तिमिति चापरे ॥ २३८.३॥ उभयं सम्प्रधार्यैतदध्यवस्येद्यथामति । अनेनैव विधानेन भवेद्वै संशयो महान् ॥ २३८.४॥ अनादिनिधनो ह्यात्मा तं बुद्ध्वा विहरेन्नरः । अक्रुध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः ॥ २३८.५॥ इत्येवं हृदये सर्वो बुद्धिचिन्तामयं दृढम् । अनित्यं सुखमासीनमशोच्यं छिन्नसंशयः ॥ २३८.६॥ तरयेत्प्रच्युतां पृथ्वीं यथा पूर्णां नदीं नराः । अवगाह्य च विद्वांसो विप्रा लोलमिमं तथा ॥ २३८.७॥ न तु तप्यति वै विद्वान्स्थले चरति तत्त्ववित् । एवं विचिन्त्य चाऽऽत्मानं केवलं ज्ञानमात्मनः ॥ २३८.८॥ तां(तं)तु बुद्ध्वा नरः सर्गं भूतानामागतिं गतिम् । समचेष्टश्च वै सम्यग्लभते शममुत्तमम् ॥ २३८.९॥ एतद्द्विजन्मसामग्य्रं ब्राह्मणस्य विशेषतः । आत्मज्ञानसमस्नेहपर्याप्तं तत्परायणम् ॥ २३८.१०॥ त्वं बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् । विज्ञायैतद्विमुच्यन्ते कृतकृत्या मनीषिणः ॥ २३८.११॥ न भवति विदुषां महद्भयं, यदविदुषां सुमहद्भयं परत्र । न हि गतिरधिकाऽस्ति कस्यचिद्भवति हि या विदुषः सनातनी ॥ २३८.१२॥ लोके मातरमसूयते नरस्तत्र देवमनिरीक्ष्य शोचते । तत्र चेत्कुशलो न शोचते, ये विदुस्तदुभयं कृताकृतम् ॥ २३८.१३॥ यत्करोत्यनभिसंधिपूर्वकं, तच्च निन्दयति यत्पुरा कृतम् । यत्प्रियं तदुभयं न वाऽप्रियं, तस्य तज्जनयतीह कुर्वतः ॥ २३८.१४॥ मुनय ऊचुः यस्माद्वर्मात्परो धर्मो विद्यते नेह कश्चन । यो विशिष्टश्च भूतेभ्यस्तद्भवान्प्रब्रवीतु नः ॥ २३८.१५॥ व्यास उवाच धर्मं च सम्प्रवक्ष्यामि पुराणमृषिभिः स्तुतम् । विशिष्टं सर्वधर्मेभ्यः शृणुध्वं मुनिसत्तमाः ॥ २३८.१६॥ इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य तत्त्वतः । सर्वतः प्रसृतानीह पिता बालानिवाऽऽत्मजान् ॥ २३८.१७॥ मनसश्चेन्द्रियाणां चाप्यैकाग्रयं परमं तपः । विज्ञेयः सर्वधर्मेभ्यः स धर्मः पर उच्यते ॥ २३८.१८॥ तानि सर्वाणि संधाय मनः षष्ठानि मेधया । आत्मतृप्तः स एवाऽऽसीद्बहुचिन्त्यमचिन्तयन् ॥ २३८.१९॥ गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि । तदा चैवाऽऽत्मनाऽऽत्मानं परं द्रक्ष्यथ शाश्वतम् ॥ २३८.२०॥ सर्वात्मानं महात्मानं विधूममिव पावकम् । प्रपश्यन्ति महात्मानं ब्राह्मणा ये मनीषिणः ॥ २३८.२१॥ यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः । आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम् ॥ २३८.२२॥ एवमात्मा न जानीते क्व गमिष्ये कुतोऽन्वहम् । अन्यो ह्यस्यान्तरात्माऽस्ति यः सर्वमनुपश्यति ॥ २३८.२३॥ ज्ञानदीपेन दीप्तेमन पश्यत्यात्मानमात्मना । दृष्ट्वाऽऽत्मानं तथा यूयं विरागा भवत द्विजाः ॥ २३८.२४॥ विमुक्ताः सर्वपापेभ्यो मुक्तत्वच इवोरगाः । परां बुद्धिमवाप्येहाप्यचिन्ता विगतज्वराः ॥ २३८.२५॥ सर्वतः स्रोतसं घोरां नदीं लोकप्रवाहिणीम् । पञ्चेन्द्रियग्राहवतीं मनःसंकल्परोधसम् ॥ २३८.२६॥ लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम् । सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम् ॥ २३८.२७॥ अव्यक्तप्रभवां शीघ्रां कामक्रोधसमाकुलाम् । प्रतरध्वं नदीं बुद्ध्या दुस्तरामकृतात्मभिः ॥ २३८.२८॥ संसारसागरगमां योनिपातालदुस्तराम् । आत्मजन्मोद्भवां तां तु जिह्वावर्तदुरासदाम् ॥ २३८.२९॥ यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः । तां तीर्णः सर्वतो मुक्तो विधूतात्माऽऽत्मवाञ्शुचिः ॥ २३८.३०॥ उत्तमां बुद्धिमास्थाय ब्रह्मभूयाय कल्पते । उत्तीर्णः सर्वसंक्लेशान्प्रसन्नात्मा विक्लमषः ॥ २३८.३१॥ भूयिष्ठानीव भूतानि सर्वस्थानान्निरीक्ष्य च । अक्रुध्यन्नप्रसीदंश्च ननृशंसमतिस्तथा ॥ २३८.३२॥ ततो द्रक्ष्यथ सर्वेषां भूतानां प्रभवाप्ययात् । एतद्वि सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः ॥ २३८.३३॥ धर्मं धर्मभृतां श्रेष्ठा मनुयः सत्यदर्शिनः । आत्मानो व्यापिनो विप्रा इति पुत्रानुशासनम् ॥ २३८.३४॥ प्रयताय प्रवक्तव्यं हितायानुगताय च । आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत् ॥ २३८.३५॥ अब्रवं यदहं विप्रा आत्मसाक्षिकमञ्जसा । नैव स्त्री न पुमानेवं न चैवेदं नपुंसकम् ॥ २३८.३६॥ अदुः खमसुखं ब्रह्म भूतभव्यभवात्मकम् । यथा मतानि सर्वाणि तथैतानि यथा तथा । कथितानि मया विप्रा भवन्ति न भवन्ति च ॥ २३८.३७॥ यथा मतानि सर्वाणि तथैतानि यथा तथा । कथितानि मया विप्रा भवन्ति न भवन्ति च ॥ २३८.३८॥ तत्प्रीतियुक्तेन गुणान्वितेन, पुत्रेण सत्पुत्रदयान्वितेन । दृष्ट्वा हितं प्रीतमना यदर्थं, ब्रूयात्सुतस्येह यदुक्तमेतत् ॥ २३८.३९॥ मुनय ऊचुः मोक्षः पितामहेनोक्त उपायान्नानुपायतः । तमुपायं यथान्यायं श्रोतुमिच्छामहे मुने ॥ २३८.४०॥ व्यास उवाच अस्मासु तन्महाप्राज्ञा युक्तं निपुणदर्शनम् । यदुपायेन सर्वार्थान्मृगयध्वं सदाऽनघाः ॥ २३८.४१॥ घटोपकरणे बुद्धिर्घटोत्पत्तौ न सा मता । एवं धर्माद्युपायार्थ नान्यधर्मेषु कारणम् ॥ २३८.४२॥ पूर्वे समुद्रेयः पन्था न स गच्छति पश्चिमम् । एकः पन्था हि मोक्षस्य तच्छृणुध्वं ममानघाः ॥ २३८.४३॥ क्षमया क्रोधमुच्छिन्द्यात्कामं संकल्पवर्जनात् । सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति ॥ २३८.४४॥ अप्रमादाद्भयं रक्षेद्रक्षेत्क्षेत्रं च संविदम् । इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत् ॥ २३८.४५॥ निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् । उपद्रवांस्तथा योगी हितजीर्णमिताशनात् ॥ २३८.४६॥ लोभं मोहं च संतोषाद्विषयांस्तत्त्वदर्शनात् । अनुक्रोशादधर्मं च जयेद्धर्ममुपेक्षया ॥ २३८.४७॥ आयत्या च जयेदाशां सामर्थ्यं सङ्गवर्जनात् । अनित्यत्वेन च स्नेहं क्षुधां योगेन पण्डितः ॥ २३८.४८॥ कारुण्येनाऽऽत्मनाऽऽत्मानं तृष्णां च परितोषतः । उत्थानेन जयेत्तन्द्रां वितर्कं निश्चयाज्जयेत् ॥ २३८.४९॥ मौनेन बहुभाषां च शौर्येण च भयं जयेत् । यच्छेद्वाङ्मनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा ॥ २३८.५०॥ ज्ञानमात्मा महान्यच्छेत्तं यच्छेच्छान्तिरात्मनः । तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा ॥ २३८.५१॥ योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः । कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ॥ २३८.५२॥ परित्यज्य निषेवेत यथावद्योगसाधनात् । ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ॥ २३८.५३॥ शौचमाचारतः शुद्धिरिन्द्रियाणां च संयमः । एतैर्विवर्धते तेजः पाप्मानमुपहन्ति च ॥ २३८.५४॥ सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते । धूतपातः स तेजस्वी लघ्वाहारो जितेन्द्रियः ॥ २३८.५५॥ कामक्रोधौ वशे कृत्वा निर्विशेद्ब्रह्मणः पदम् । अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम् ॥ २३८.५६॥ अदैन्यमनुदीर्णत्वमनुद्वेगो ह्यवस्थितिः । एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः॥ तथा वाक्कायमनसां नियमाः कामतोऽव्ययाः ॥ २३८.५७॥ इति श्रीमहापुराणे आदिब्राह्मे सांख्ययोगनिरूपणं नाम अष्टात्रिंशदधिकद्विशततमोऽध्यायः ॥ २३८॥
अध्यायः २३९ (१३१) योगविधिनिरूपणम् मुनय ऊचुः सांख्यं योगस्य नो विप्र विशेषं वक्तुमर्हसि । तव धर्मज्ञ सर्वं हि विदितं मुनिसत्तम ॥ २३९.१॥ व्यास उवाच सांख्यां सांख्यं प्रशंसन्ति योगान्योगविदुत्तमाः । वदन्ति कारणैः श्रेष्ठैः स्वपक्षोद्भवनाय वै ॥ २३९.२॥ अनीश्वरः कथं मुच्येदित्येवं मुनिसत्तमाः । वदन्ति कारणैः श्रेष्ठं योगं सम्यङ्मनीषिणः ॥ २३९.३॥ वदन्ति कारणं वेदं सांख्यं सम्यग्द्विजातयः । विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः ॥ २३९.४॥ ऊर्ध्वं स देहात्सुव्यक्तं विमुच्येदिति नान्यथा । एतदाहुर्महाप्राज्ञाः सांख्यं वै मोक्षदर्शनम् ॥ २३९.५॥ स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् । शिष्टानां हि मतं ग्राह्यं भवद्भिः शिष्टसंमतैः ॥ २३९.६॥ प्रत्यक्षं हेतवो योगाः सांख्याः शास्त्रविनिश्चयाः । उभे चैते तत्त्वे समवेते द्विजोत्तमाः ॥ २३९.७॥ उभे चैते मते ज्ञाते मुनीन्द्राः शिष्टसंमते । अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् ॥ २३९.८॥ तुल्यं शौचं तयोर्युक्तं दया भूतेषु चानघाः । व्रतानां धारणं तुल्यं दर्शनं त्वसमं तयोः ॥ २३९.९॥ मुनय ऊचुः यदि तुल्यं व्रतं शौचं दया चात्र महामुने । तुल्यं तद्दर्शनं कस्मात्तन्नौ ब्रूहि द्विजोत्तम ॥ २३९.१०॥ व्यास उवाच रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् । योगास्थिरोदितान्दोषान्पञ्चैतान्प्राप्नुवन्ति तान् ॥ २३९.११॥ यथा वाऽनिमिषाः स्थूलं जालं छित्त्वा पुनर्जलम् । प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥ २३९.१२॥ तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः । प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥ २३९.१३॥ लोभजानि तथा विप्रा बन्धनानि बलान्वितः । छित्त्वा योगात्परं मार्गं गच्छन्ति विमलं शुभम् ॥ २३९.१४॥ अचलास्त्वाविला विप्रा वागुरासु तथाऽऽपरे । विनश्यन्ति न संदेहस्तद्वद्योगबलादृते ॥ २३९.१५॥ बलहीनाश्च विप्रेन्द्रा यथा जालं गता द्विजाः । बन्धं न गच्छन्त्यनघा योगास्ते तु सुदुर्लभाः ॥ २३९.१६॥ यथा च शकुनाः सूक्ष्मं प्राप्य जालमरिन्दमाः । तत्राशक्ता विपद्यन्ते मुच्यन्ते तु बलान्विताः ॥ २३९.१७॥ कर्मजैर्बन्धनैर्बद्धास्तद्वद्योगपरा द्विजाः । अबला न विमुच्यन्ते मुच्यन्ते च बलान्विताः ॥ २३९.१८॥ अल्पकश्च यथा विप्रा वह्निः शाम्यति दुर्बलः । आक्रान्त इन्धनैः स्थूलैस्तद्वद्योगबलः स्मृतः ॥ २३९.१९॥ स एव च तदा विप्रा वह्निर्जातबलः पुनः । समीरणगतः कृत्स्नां दहेत्क्षिप्रं महीमिमाम् ॥ २३९.२०॥ तत्त्वज्ञानबलो विप्रा वह्निर्जातबलः पुनः । समीरणगतः कृत्स्नां दहेत्क्षिप्रं महीमिमाम् ॥ २३९.२१॥ दुर्बलश्च यथा विप्राः स्रोतसा ह्रियते नरः । बलहीनस्तथा योगी विषयैर्ह्रियते च सः ॥ २३९.२२॥ तदेव तु यथा स्रोतसा विष्कम्भयति वारणः । तद्वद्योगबलं लब्धवा न भवेद्विषयैर्हृतः ॥ २३९.२३॥ विशन्ति वा वशाद्वाऽथ योगाद्योगबलन्विताः । प्रजापतीन्मनून्सर्वान्महाभूतानि चेश्वराः ॥ २३९.२४॥ न यमो नान्तकः क्रुद्धो न मृत्युर्भीमविक्रमः । विशन्ते तद्द्विजाः सर्वे योगस्यामिततेजसः ॥ २३९.२५॥ आत्मनां च सहस्राणि बहूनि द्विजसत्तमाः । योगं कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत् ॥ २३९.२६॥ प्राप्नुयाद्विषयान्कश्चित्पुनश्चोग्रं तपश्चरेत् । संक्षिप्येच्च पुनर्विप्राः सूर्यस्तेजोगुणानिव ॥ २३९.२७॥ बलस्थस्य हि योगस्य बलार्थं मुनिसत्तमाः । विमोक्षप्रभवं विष्णुमुपपन्नमसंशयम् ॥ २३९.२८॥ बलानि योगप्रोक्तानि मयैतानि द्विजोत्तमाः । निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनर्द्विजाः ॥ २३९.२९॥ आत्मनश्च समाधाने धारणां प्रति वा द्विजाः । निदर्शनानि सूक्ष्माणि सूक्ष्माणि शृणुध्वं मुनिसत्तमाः ॥ २३९.३०॥ अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः । युक्तः सम्यक्तथा योगी मोक्षं प्राप्नोत्यसंशयम् ॥ २३९.३१॥ स्नेहपात्रे यथा पूर्णे मन आधाय निश्चलम् । पुरुषो युक्त आरोहेत्सोपानं युक्तमानसः ॥ २३९.३२॥ मुक्तस्तथाऽयमात्मानं योगं तद्वत्सुनिश्चलम् । करोत्यमलामात्मानं भास्करोपमदर्शने ॥ २३९.३३॥ यथा च नावं विप्रेन्द्राः कर्णधारः समाहितः । महार्णवगतां शीघ्रं नयेद्विप्रांस्तु पत्तनम् ॥ २३९.३४॥ तद्वदात्मसमाधानं युक्तो योगेन योगवित् । दुर्गमं स्थानमाप्नोति हित्वा देहमिमं द्विजाः ॥ २३९.३५॥ सारथिश्च यथा युक्तः सदश्वान्सुसमाहितः । प्राप्नोत्याशु परं स्थानं लक्ष्यमुक्त इवाऽऽशुगः ॥ २३९.३६॥ तथैव च द्विजा योगी धारणासु समाहितः । प्राप्नोत्यशु परं स्थानं लक्ष्यमुक्त इवाऽऽशुगः ॥ २३९.३७॥ आविश्याऽऽत्मनि चाऽऽत्मानं योऽवतिष्ठति सोऽचलः । पाशं वहत्वे मीनानां पदमाप्नोति सोऽजरम् ॥ २३९.३८॥ नाभ्यां शीर्षे च कुक्षौ च हृदि वक्षसि पार्श्वयोः । दर्शने श्रवणे वाऽपि घ्राणे चामितविक्रमः ॥ २३९.३९॥ स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः । आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग्द्विजोत्तमाः ॥ २३९.४०॥ सुशीघ्रमचलप्रख्यं कर्म दग्ध्वा शुभाशुभम् । उत्तमं योगमास्थाय यदीच्छति विमुच्यते ॥ २३९.४१॥ मुनय ऊचुः आहारान्कीदृशान्कृत्वा कानि जित्वा च सत्तम । योगी बलमवाप्नोति तद्भवान्वक्तुमर्हति ॥ २३९.४२॥ व्यास उवाच कणानां भक्षणे युक्तः पिण्याकस्य च भो द्विजाः । स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात् ॥ २३९.४३॥ भुञ्जानो यावकं रूक्षं दीर्घकालं द्विजोत्तमाः । एकाहारी विशुद्धात्मा योगी बलमवाप्नुयात् ॥ २३९.४४॥ पक्षान्मासानृतूंश्चित्रान्संचरंश्च गुहास्तथा । अपः पीत्वा पयोमिश्रा योगी बलमावाप्नुयात् ॥ २३९.४५॥ अखण्डमपि वा मासं सततं मुनिसत्तमाः । उपोष्य सम्यक्षुद्धात्मा योगी बलमवाप्यनुयात् ॥ २३९.४६॥ कामं जित्वा तथा क्रोधं शीतोष्णं वर्षमेव च । भयं शोकं तथा स्वापं पौरुषीन्विषयांस्तथा ॥ २३९.४७॥ अरतिं दुर्जयां चैव घोरां दृष्ट्वा च भो द्विजाः । स्पर्शं निद्रां तथा तन्द्रां दुर्जयां मुनिसत्तमाः ॥ २३९.४८॥ दीपयन्ति महात्मानं सूक्ष्ममात्मानमात्मना । वीतरागा महाप्राज्ञा ध्यानाध्ययनसम्पदा ॥ २३९.४९॥ दुर्गस्त्वेष मतः पन्था ब्राह्मणानां विपश्चिताम् । यः कश्चिद्व्रजति क्षिप्रं क्षेमेण मुनिपुंगवाः ॥ २३९.५०॥ यथा कश्चिद्वनं घोरं बहुसर्पसरीसृपम् । श्वभ्रवत्तोयहीनं च दुर्गमं बहुकण्टकम् ॥ २३९.५१॥ अभक्तमटवीप्रायं दावदग्धमहीरुहम् । पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेत्तथा ॥ २३९.५२॥ योगमार्गं समासाद्य यः कश्चिद्व्रजते द्विजः । क्षेमेणोपरमेन्मार्गाद्बहुदोषोऽपि संमतः ॥ २३९.५३॥ आस्थेयं क्षुरधारासु निशितासु द्विजोत्तमाः । धारणा सा तु योगस्य दुर्गेयमकृतात्मभिः ॥ २३९.५४॥ विषमा धारणा विप्रा यान्ति वैन शुभां गतिम् । नेतृहीना यथा नावः पुरुषाणां तु वै द्विजाः ॥ २३९.५५॥ यस्तु तिष्ठति योगाधौ धारणासु यथाविधि । मरणं जन्मदुःखित्वं सुखित्वं स विशिष्यते ॥ २३९.५६॥ नानाशास्त्रेषु नियतं नानामुनिनिषेवितम् । परं योगस्य पन्थानं निश्चितं तं द्विजातिषु ॥ २३९.५७॥ परं हि तद्ब्रह्ममयं मुनीन्द्रा, ब्रह्मणमीशं वरदं च विष्णुम् । भवं च धर्मं च महानुभावं यद्ब्रह्मपुत्रान्सुमहानुभावान् ॥ २३९.५८॥ तमश्च कष्टं सुमहद्रजश्च, सत्त्वं च शुद्धं प्रकृतिं परां च । सिद्धिं च देवीं वरुणस्य पत्नीं, तेजश्च कृत्स्नं सुमहच्च धैर्यम्॥ २३९.५९ ॥ ताराधिपं खे विमलं सुतारं, विश्वांश्च देवानुरगान्पितॄंश्च । शैलांश्च कृत्स्नानुदधींश्च वाऽचलान्नदीश्च सर्वाः सनगांश्च नागान् ॥ २३९.६०॥ साध्यांस्तथा यक्षगणान्दिशश्च, गन्धर्वसिद्धान्पुरुषान्स्त्रियश्च । परस्परं प्राप्य महान्महात्मा विशेत योगी नचिराद्विमुक्तः ॥ २३९.६१॥ कथा च या विप्रवराः प्रसक्ता, दैवे महावीर्यमतौ शुभेयम् । योगान्स सर्वाननुभूय मर्त्या, नारायणं तं द्रुतमाप्नुवन्ति ॥ २३९.६२॥ इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे योगविधिनिरूपणं नाम एकोनचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २३९॥
अध्यायः २४० (१३२) सांख्यविधिनिरूपणम् मुनय ऊचुः सम्यक्क्रियेयं विप्रेन्द्र वर्णिता शिष्टसंमता । योगमार्गो यथान्यायं शिष्यायेह हितषिणा ॥ २४०.१॥ सांख्ये त्विदानीं धर्मस्य विधिं प्रब्रूहि तत्त्वतः । त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते ॥ २४०.२॥ व्यास उवाच शृणुध्वं मुनयः सर्वमाख्यानं विदितात्मनाम् । विहितं यतिभिर्वृद्धैः कपिलादिभिरीश्वरैः ॥ २४०.३॥ यस्मिन्सुविभ्रामाः केचिद्दृश्यन्ते मुनिसत्तमाः । गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला ॥ २४०.४॥ ज्ञानेन परिसंख्याय सदोषान्विषयान्द्विजाः । मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा ॥ २४०.५॥ विषयानौरगाञ्ज्ञात्वा गन्धर्वविषयांस्तथा । पितॄणां विषयाञ्ज्ञात्वा तिर्यक्त्वं चरतां द्विजाः ॥ २४०.६॥ सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा । महर्षिविषयांश्चैव राजर्षिविषयांस्तथा ॥ २४०.७॥ आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च । देवर्षिविषयाञ्ज्ञात्वा योगानामपि वै परान् ॥। २४०.८॥ विषयांश्च प्रमाणस्य ब्रह्मणो विषयांतथा । आयुषश्च परं कालं लोकैर्विज्ञाय तत्त्वतः ॥ २४०.९॥ सुखस्य च परं कालं विज्ञाय मुनिसत्तमाः । प्राप्तकाले च यद्दुःखं पततां विषयैषिणाम् ॥ २४०.१०॥ तिर्यक्त्वे पततां विप्रास्तथैव नरकेषु यत् । स्वर्गस्य च गुणाञ्ज्ञात्वा दोषान्सर्वांश्च भो द्विजाः ॥ २४०.११॥ वेदवादे च ये दोषा गुणा ये चापि वैदिकाः । ज्ञानयोगे च ये दोषा ज्ञानयोगे च ये गुणाः ॥ २४०.१२॥ सांख्यज्ञाने च ये दोषांस्तथैव च गुणां तथा । षड्गुणं च नभो ज्ञात्वा तमश्च त्रिगुणं महत् ॥ २४०.१३॥ तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा । षड्गुणं च नभो ज्ञात्वा तपश्च त्रिगुणं महत् ॥ २४०.१४॥ द्विगुणं च रजो ज्ञात्वा सत्त्वं चैकगुणं पुनः । मार्गं विज्ञाय तत्त्वेन प्रलयप्रेक्षणेन तु ॥ २४०.१५॥ ज्ञानविज्ञानसम्पन्नाः कारणैर्भावितात्मभिः । प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम् ॥ २४०.१६॥ रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च । शब्दग्राह्यं तथा श्रोत्रं जिह्वां रसगुणेन च ॥ २४०.१७॥ त्वचं स्पर्शं तथा शक्यं वायुं चैव तदाश्रितम् । मोहं तमसि संयुक्तं लोभं मोहेषु संश्रिताः ॥ २४०.१८॥ विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथाऽनलम् । अप्सु देवीं समायुक्तामापस्तेजसि संश्रिताः ॥ २४०.१९॥ तेजो वायौ तु संयुक्तं वायुं नभसि चाऽऽश्रितम् । नभो महति संयुक्तं तमो महसि संस्थितम् ॥ २४०.२०॥ रजः सत्त्वं तथा सक्तं सत्त्वं सक्तं तथाऽऽत्मनि । सक्तमात्मानमीशे च देवे नारायणे तथा ॥ २४०.२१॥ देवं मोक्षे च संयुक्तं ततो मोक्षं च न क्वचित् । ज्ञात्वा सत्त्वगुणं देहं वृतं षोडशभिर्गुणैः ॥ २४०.२२॥ स्वभावं भावनां चैव ज्ञात्वा देहसमाश्रिताम् । मध्यस्थमिव चाऽऽत्मानं पापं यस्मिन्न विद्यत ॥ २४०.२३॥ द्वितीयं कर्म वै ज्ञात्वा विप्रेन्द्रा विष्यैषिणाम् । इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान् ॥ २४०.२४॥ दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् । प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः ॥ २४०.२५॥ आद्यं चैवानिलं ज्ञात्वा प्रभवं चानिलं पुनः । सप्तधा तांस्तथा शेषासप्तधा विधिवत्पुनः ॥ २४०.२६॥ प्रजापतीनृषींश्चैव सर्गांश्च सुबहून्वरान् । सप्तर्षीश्च बहूञ्ज्ञात्वा राजर्षींश्च परंतपान् ॥ २४०.२७॥ सुरर्षीन्मरुतश्चान्यान्ब्रह्मर्षीन्सूर्यसंनिभान् । ऐश्वर्याच्च्यावितान्दृष्ट्वा कालेन महता द्विजाः ॥ २४०.२८॥ महतां भूतसंघानां श्रुत्वा नाशं च भो द्विजाः । गतिं वाचां शुभां ज्ञात्वा अर्चार्हाः पापकर्मणाम् ॥ २४०.२९॥ वैतरण्यां च यद्दुःखं पतितानां यमक्षये । योनिषु च विचित्रासु संचारानशुभांस्तथा ॥ २४०.३०॥ जठरे चाशुभे वासं शोणितोदकभाजने । श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते ॥ २४०.३१॥ शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे । शिरशतसमाकीर्णे नवद्वारे पुरेऽथ वै ॥ २४०.३२॥ विज्ञाय हितमात्मानं योगांश्च विविधान्द्विजाः । तामसानां च जन्तूनां रमणीयानृतात्मनाम् ॥ २४०.३३॥ सात्त्विकानां च जन्तूनां कुत्सितं मुनिसत्तमाः । गर्हिंतं महातामर्थे सांख्यानां विदितात्मनाम् ॥ २४०.३४॥ उपप्लवांस्तथा घोराञ्शशिनस्तेजस्तथा । ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् ॥ २४०.३५॥ द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं द्विजाः । अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम् ॥ २४०.३६॥ बाल्ये मोहं च विज्ञाय पक्षदेहस्य चाशुभम् । रागं मोहं च सम्प्राप्तं क्वचित्सत्त्वं समाश्रितम् ॥ २४०.३७॥ सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः । दुर्लभत्वं च मोक्षस्य विज्ञानं श्रुतिपूर्वकम् ॥ २४०.३८॥ बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः । विषयाणां च दौरात्म्यं विज्ञाय च पुनर्द्विजाः ॥ २४०.३९॥ गतासूनां च सत्त्वानां देहान्भित्त्वा तथा शुभान् । वासं कुलेषु जन्तूनां मरणाय धृतात्मनाम् ॥ २४०.४०॥ सात्त्विकानां च जन्तूनां दुःखं विज्ञाय भो द्विजाः । ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् ॥ २४०.४१॥ सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् । गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ॥ २४०.४२॥ जननीषु च वर्तन्ते येन सम्यग्द्विजोत्तमाः । सदेवकेषु लोकेषु येन वर्तन्ति मानवाः ॥ २४०.४३॥ तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् । तिर्यग्योनिगतानां च विज्ञाय च गतीः पृथक् ॥ २४०.४४॥ वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा । क्षयं संवत्सराणां च मासानां च क्षयं तथा ॥ २४०.४५॥ पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम् । क्षय संवत्सराणां च मासानां च क्षयं तथा ॥ २४०.४६॥ वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः । क्षयं धनानां दृष्ट्वा च पुनर्वृद्धिं तथैव च ॥ २४०.४७॥ संयोगानां तथा दृष्ट्वा युगानां च विशेषतः । देहवैक्लव्यतां चैव सम्यग्विज्ञाय तत्त्वतः ॥ २४०.४८॥ आत्मदोषांश्च विज्ञाय सर्वानात्मनि संस्थितान् । स्वदेहादुत्थितान्गन्धांस्तथा विज्ञाय चाशुभाम् ॥ २४०.४९॥ मुनय ऊचुः कानुत्पातभवान्दोषान्पश्यति ब्रह्मवित्तम । एतं नः संशयं कृत्स्नं वक्तुमर्हस्यशेषतः ॥ २४०.५०॥ व्यास उवाच पञ्च दोषान्द्विजा देहे प्रवदन्ति मनीषिणः । मार्गज्ञाः कापिलाः सांख्याः शृणुध्वं मुनिसत्तमाः ॥ २४०.५१॥ कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते । एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् ॥ २४०.५२॥ छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात् । सत्त्वसंसेवनान्निद्रामप्रमादाद्भयं तथा ॥ २४०.५३॥ छिन्दन्ति पञ्चमं श्वासमल्पाहारतया द्विजाः । गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि ॥ २४०.५४॥ हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः । अपां फेनोपमं लोकं विष्णोर्मायाशतैः कृतम् ॥ २४०.५५॥ चित्रभित्तिप्रतीकाशं नलसारमनर्थकम् । तमः संभ्रमितं दृष्ट्वा वर्षबुद्बुदसंनिभम् ॥ २४०.५६॥ नाशप्रायं सुखाधानं नाशोत्तरमहाभयम् । रजस्तमसि संमग्नं पङ्के द्विपमिवावशम् ॥ २४०.५७॥ सांख्या विप्रा महाप्राज्ञास्त्यक्त्वा स्नेहं प्रजाकृतम् । ज्ञानज्ञेयेन सांख्येन व्यापिना महता द्विजाः ॥ २४०.५८॥ राजसानशुभान्गन्धांस्तामसांश्च तथाविधान् । पुण्यांश्च सात्त्विकान्गन्धान्स्पर्शजान्देहसंश्रितान् ॥ २४०.५९॥ छित्त्वाऽऽमज्ञानशस्त्रेण तपोदण्डेन सत्तमाः । ततो दुःखादिकं घोरं चिन्ताशोकमहाह्रदम् ॥ २४०.६०॥ व्याधिमत्युमहाघोरं महाभयमहोरगम् । ततः कूर्मं रजोमीनं प्रज्ञया संतरन्त्युत ॥ २४०.६१॥ स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपं द्विजोत्तमाः । कर्मागाधं सत्यतीरं स्थितं व्रतमनीषिणः ॥ २४०.६२॥ हर्षसंघमहावेगं नानारससमाकुलम् । नानाप्रीतिमहारत्नं दुःखज्वरसमीरितम् ॥ २४०.६३॥ शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहारुजम् । अस्थिसंघातसंघट्टं श्लेष्मयोगं द्विजोत्तमाः ॥ २४०.६४॥ दानमुक्ताकरं घोरं शोणितोद्गारविद्रुमम् । हसितोत्क्रुष्टनिर्घोषं नानाज्ञासुदुष्करम् ॥ २४०.६५॥ रोदनाश्रुमलक्षारं सङ्गयोगपरायणम् । प्रलब्ध्वा जन्मलोको यं पुत्रबान्धवपत्तनम् ॥ २४०.६६॥ अहिंसासत्यमर्यादं प्राणयोगमयोर्मिलम् । वृन्दानुगामिनं क्षीरं सर्वभूतपयोदधिम् ॥ २४०.६७॥ मोक्षदुर्लभविषयं वाडवासुखसागरम् । तरन्ति यतयः सिद्धा ज्ञानयोगेन चानघाः ॥ २४०.६८॥ तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः । ततस्तान्सुकृतीञ्ज्ञात्वा सूर्यो वहतिरश्मिभिः ॥ २४०.६९॥ पद्मतन्तुवदाविश्य प्रवहन्विषयान्द्विजाः । तत्र तान्प्रवहो वायुः प्रतिगृह्णाति चानघाः ॥ २४०.७०॥ वीतरागान्यतीन्सिद्धान्वीर्ययुक्तांस्तपोधनान् । सूक्ष्मः शीतः सुगन्धश्च सुखस्पर्शश्च भो द्विजाः ॥ २४०.७१॥ सप्तानां मरुतां श्रेष्ठो लोकान्गच्छति यः शुभान् । स तान्वहति विप्रेन्द्रा नभसः परमां गतिम् ॥ २४०.७२॥ नभो वहति लोकेशान्रजसः परमां गतिम् । रजो वहति विप्रेन्द्राः सत्त्वस्य परमांगतिम् ॥ २४०.७३॥ सत्त्वं वहति शुद्धात्मा परं नारायणं प्रभुम् । प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना ॥ २४०.७४॥ परमात्मानमासाद्य तद्भूता यतयोऽमलाः । अमृतत्वाय कल्पन्ते न निवर्तन्ति च द्विजाः ॥ २४०.७५॥ परमा सा गतिर्विप्रा निर्द्वन्द्वानां महात्मनाम् । सत्यार्जवरतानां वै सर्वभूतदयावताम् ॥ २४०.७६॥ मुनय ऊचुः स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः । आजन्ममरणं वा ते रमन्ते तत्र वा न वा ॥ २४०.७७॥ यदत्र तथ्यं तत्त्वं नो यथावद्वक्तुमर्हसि । त्वदृते मानवं नान्यं प्रष्टुमर्हाम सत्तम ॥ २४०.७८॥ मोक्षदोषो महानेष प्राप्य सिद्धिं गतानृषीन् । यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥ २४०.७९॥ प्रवृत्तिलक्षणं धर्मं पश्याम परमं द्विज । मग्नस्य हि परे ज्ञाने किंतु दुःखान्तरं भवेत् ॥ २४०.८०॥ व्यास उवाच यथानायायं मुनिश्रेष्ठाः प्रश्नः पृष्टश्च संकटः । बुधानामपि संमोहः प्रश्नेऽस्मिन्मुनिसत्तमाः ॥ २४०.८१॥ अत्रापि तत्त्वं परमं शृणुध्वं वचनं मम । बुद्धिश्च परमा यत्र कपिलानां महात्मनाम् ॥ २४०.८२॥ इन्द्रियाण्यपि बुध्यन्ते स्वदेहं देहिनां द्विजाः । करणान्यात्मनस्तानि सूक्ष्मं पश्यन्ति तैस्तु सः ॥ २४०.८३॥ आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु । विनश्यन्ति न संदेहो वेला इव महार्णवे ॥ २४०.८४॥ इन्द्रियैः सह सुप्तस्य देहिनो द्विजसत्तमाः । सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः ॥ २४०.८५॥ स पश्यति यथान्यायं स्मृत्वा स्पृशति चानघाः । बुध्यमानो यथापूर्वमखिलेनेह भो द्विजाः ॥ २४०.८६॥ इन्द्रियाणि ह सर्वाणि स्वे स्वे स्थाने यथाविधि । अनीशत्वात्प्रलीयन्ते सर्पा विषहता इव ॥ २४०.८७॥ इन्द्रियाणि ह सर्वाणि स्वस्थानेष्वेव सर्वशः । आक्रम्य गतयः सूक्ष्माव(श्च)रत्यात्मा न संशयः ॥ २४०.८८॥ सत्त्वस्य च गुणान्कृत्स्नान्रजसश्च गुणान्पुनः । गुणांश्च तमसः सर्वान्गुणान्बुद्धेश्च सत्तमाः ॥ २४०.८९॥ गुणांश्च मनसश्चापि नभसश्च गुणांस्तथा । गुणान्वायोश्च सर्वज्ञाः स्नेहजांश्च गुणान्पुनः ॥ २४०.९०॥ अपां गुणास्तथा विप्राः पार्थिवांश्च गुणानपि । सर्वानेव गुणैर्व्याप्य क्षेत्रज्ञेषु द्विजोत्तमाः ॥ २४०.९१॥ आत्मा चरति क्षेत्रज्ञः कर्मणा च शुभाशुभे । शिष्या इवमहात्मानमिन्द्रियाणि च तं द्विजाः ॥ २४०.९२॥ प्रकृतिं चाप्यतिक्रम्य सुद्धं सूक्ष्मं परात्परम् । नारायणं महात्मानं निर्विकारं परात्परम् ॥ २४०.९३॥ विमुक्तं सर्वपापेक्ष्यः प्रविष्टं च ह्यनामयम् । परमात्मानमगुणं निर्वृतं तं च सप्तमाः ॥ २४०.९४॥ श्रेष्ठं तत्र मनो विप्रा इन्द्रियाणि च भोः द्विजाः । आगच्छन्ति यथाकालं गुरोः संदेशकारिणः ॥ २४०.९५॥ शक्यं वाऽल्पेन कालेन शान्तिं प्राप्तुं गुणांस्तथा । एवमुक्तेन विप्रेन्द्राः सांख्य योगेन मोक्षिणीम् ॥ २४०.९६॥ सांख्या विप्रा महाप्राज्ञा गच्छन्ति परमां गतिम् । ज्ञानेनानेन विप्रेन्द्रास्तुल्यं ज्ञानं न विद्यते ॥ २४०.९७॥ अत्र वः संशयो मा भूज्ज्ञानं सांख्यं परं मतम् । अक्षरं ध्रुवमेवोक्तं पूर्वं ब्रह्म सनातनम् ॥ २४०.९८॥ अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम् । कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः ॥ २४०.९९॥ यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः । एवं शंसन्ति शास्त्रेषु प्रवक्तारो महर्षयः ॥ २४०.१००॥ सर्वे विप्राश्च वेदाश्च तथा सामविदो जनाः । ब्रह्मण्यं परमं देवमनन्तं परमाच्युतम् ॥ २४०.१०१॥ प्रर्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः । सम्यगुक्तास्तथा योगाः सांख्याश्चामितदर्शनाः ॥ २४०.१०२॥ अमूर्तिस्तस्य विप्रेन्द्राः सांख्यं मूर्तिरिति श्रुतिः । अभिज्ञानानि तस्याऽऽहुर्महान्ति मुनिसत्तमाः ॥ २४०.१०३॥ द्विविधानि हि भूतानि पृथिव्यां द्विजसत्तमाः । अगम्यगम्यसंज्ञानि गम्यं तत्र विशिष्यते ॥ २४०.१०४॥ ज्ञानं महद्वै महतश्च विप्रा, वेदेषु सांख्येषु तथैव योगे । यच्चापि दृष्टं विधिवत्पुराणे, सांख्यागतं तन्निखिलं मुनीन्द्राः ॥ २४०.१०५॥ यच्चेतिहासेषु महत्सु दृष्टं, यथार्थशास्त्रेषु विशिष्टदृष्टम् । ज्ञानं च लोके यदिहास्ति किंचित्सांख्यागतं तच्च महामुनीन्द्राः ॥ २४०.१०६॥ समस्तदृष्टं परमं बलं च, ज्ञानं च मोक्षश्च यथावदुक्तम् । तपांसि सूक्ष्माणि च यानि चैव, सांख्यं यथावद्विहितानि विप्राः ॥ २४०.१०७॥ विपर्ययं तस्य हितं सदैव, गच्छन्ति सांख्याः सततं सुखेन । तांश्चापि संधार्य ततः कृतार्थाः, पतन्ति विप्रायतनेषु भूयः ॥ २४०.१०८॥ हित्वा च देहं प्रविशन्ति मोक्षं दिवौकसश्चापि च योगसांख्याः । अतोऽधिकं तेऽभिरता महार्हे, साख्ये द्विजा भो इह शिष्टजुष्टे ॥ २४०.१०९॥ तेषां तु तिर्यग्गमनं हि दृष्टं, नाधो गतिः पापकृतां निवासः । न वा प्रधाना अपि ते द्विजातयो, ये ज्ञानमेतन्मुनयो न सक्ताः ॥ २४०.११०॥ सांख्यां विशालं परमं पुराणं, महार्णवं विमलमुदारकान्तम् । कृत्स्नं हि सांख्या मुनया महात्मनारायणे धारयथाप्रमेयम् ॥ २४०.१११॥ एतन्मयोक्तं परमं हि तत्त्वं, नारायणाद्विश्वमिदं पुराणम् । स सर्गकाले च करोति सर्गं, संहारकाले च हरेत भूयः ॥ २४०.११२॥ इति श्रीमहापुराणे आदिब्राह्मे व्यासऋषिसंवादे सांख्यविधिनिरूपणं नामैकोनचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४०॥
अध्यायः २४१ (१३३) वसिष्ठकरालजनकसंवादे क्षराक्षरविचारनिरूपणम् मुनय ऊचुः किं तदक्षरमित्युक्तं यस्मान्नाऽऽवर्तते पुनः । किंस्वित्तत्क्षरमित्युक्तं यस्मादावर्तते पुनः ॥ २४१.१॥ अक्षराक्षरयोर्व्यक्तिं पृच्छामस्त्वां महामुने । उपलब्धुं मुनिश्रेष्ठ तत्त्वेन मुनिपुंगव ॥ २४१.२॥ त्वं हि ज्ञानविदां श्रेष्ठः प्रोच्यसे वेदपारगैः । ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः ॥ २४१.३॥ तदेतच्छ्रोतुमिच्छास्त्वत्तः सर्वं महामते । न तृप्तिमधिगच्छामः शृण्वन्तोऽमृतमुत्तमम् ॥ २४१.४॥ व्यास उवाच अत्र वो वर्णयिष्यामि इतिहासं पुरातनम् । वसिष्ठस्य च संवादं करालजनकस्य च ॥ २४१.५॥ वसिष्ठं श्रेष्ठमासीनमृषीणां भास्करद्युतिम् । पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् ॥ २४१.६॥ परमात्मनि कुशलमध्यात्मगतिनिश्चयम् । मैत्रावरुणमिमासीनमभिवाद्य कृताञ्जलिः ॥ २४१.७॥ स्वच्छन्दं सुकृतं चैव मधुरं चाप्यनुल्बणम् । पप्रच्छर्षिवरं राजा करालजनकः पुरा ॥ २४१.८॥ करालजनक उवाच भगवञ्श्रोतुमिच्छामि परं ब्रह्म सनातनम् । यस्मिन्न पुनरावृत्तिं प्राप्नुवन्ति मनीषिणः ॥ २४१.९॥ यच्च तत्क्षरमित्युक्तं यत्रेदं क्षरते जगत् । यच्चाक्षरमिति प्रोक्तं शिवं क्षेममनामयम् ॥ २४१.१०॥ वसिष्ठ उवाच श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् । यत्र क्षरति पूर्वेण यावत्कालेन चाप्यथ ॥ २४१.११॥ युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्युगम् । दशकल्पशतावर्तंमहस्तद्ब्राह्मुच्यते ॥ २४१.१२॥ रात्रिश्चैतावती राजन्यस्यन्ते प्रतिबुध्यते । सृजत्यनन्तकर्माणि महान्तं भूतमग्रजम् ॥ २४१.१३॥ मूर्तिमन्तममूर्तात्मा विश्वं शंभुः स्वयंभुवः । यत्रोत्पत्तिं प्रवक्ष्यामि मूलतो नृपसत्तम ॥ २४१.१४॥ अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम् । सर्वतःपाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् ॥ २४१.१५॥ सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति । हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतिः ॥ २४१.१६॥ महानिति च योगेषु विरिञ्चिरिति चाप्यथ । सांख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः ॥ २४१.१७॥ विचित्ररूपो विश्वात्मा एकाक्षर इति श्रुतः । धृतमेकात्मकं येन कृत्स्नं त्रैलोक्यमात्मना ॥ २४१.१८॥ तथैव बहुरूपत्वाद्विश्वरूप इति श्रुतः । एष वै विक्रियापन्नः सृजत्यात्मानमात्मना ॥ २४१.१९॥ प्रधानं तस्य संयोगादुत्पन्नं सुमहत्पुरम् । अहंकारं महातेजाः प्रजापतिनमस्कृतम् ॥ २४१.२०॥ अव्यक्ताद्व्यक्तिमापन्नं विद्यासर्गं वदन्ति तम् । महान्तं चाप्यहंकारमविद्यासर्ग एव च ॥ २४१.२१॥ अचरश्च चरश्चैव समुत्पन्नौ तथैकतः । विद्याऽविद्योति विख्याते श्रुतिशास्त्रानुचिन्तकैः ॥ २४१.२२॥ भूतसर्गमहंकारत्तृतीयं विद्धि पार्थिव । अहंकारेषु नृपते चतुर्थं विद्धि वैकृतम् ॥ २४१.२३॥ वायुर्ज्योतिरथाऽऽकाशमापोऽथ पृथिवी तथा । शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च ॥ २४१.२४॥ एवं युगपदुत्पन्नं दशवर्गमसंशयम् । पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थकृत् ॥ २४१.२५॥ श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमेव च पञ्चमम् । वाघस्तौ चैव पादौ च पायुर्मेढ्रं तथैव च ॥ २४१.२६॥ बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च । संभूतानीह युगपन्मनसा सह पार्थिव ॥ २४१.२७॥ एषा तत्त्वचतुर्विंशा सर्वाऽऽकृतिः प्रवर्तते । यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः ॥ २४१.२८॥ एवमेतत्समुत्पन्नं त्रैलोक्यमिदमुत्तमम् । वेदितव्यं नरश्रेष्ठ सदैव नरकार्णवे ॥ २४१.२९॥ सयक्षभूतगन्धर्वे सकिंनरमहोरगे । सचारणपिशाचे वै सदेवर्षिनिशाचरे ॥ २४१.३०॥ सदंशकीटमशके सपूतिकृमिमूषके । शुनि श्वपाके चैणेये सचाण्डाले सपुल्कसे ॥ २४१.३१॥ हस्त्यश्वखरशार्दूले सवृके गवि चैव ह । या च मूर्तिश्च यत्किंचित्सर्वत्रैतन्निदर्शनम् ॥ २४१.३२॥ जले भुवि तथाऽऽकाशे नान्यत्रेति विनिश्चयः । स्थानं देहवतामासीदित्येवनुशुश्रुम ॥ २४१.३३॥ कृत्स्नमेतावतस्तात क्षरते व्यक्तसंज्ञकः । अहन्यहनि भूतात्मा यच्चाक्षर इति स्मृतम् ॥ २४१.३४॥ ततस्तत्क्षरमित्युक्तं क्षरतीदं यथा जगत् । जगन्मोहात्मकं चाऽऽहुरव्यक्ताद्व्यक्तसंज्ञकम् ॥ २४१.३५॥ महांश्चैवाक्षरो नित्यमेतत्क्षरविवर्जनम् । कथितं ते महाराज यस्मान्नाऽऽवर्तते पुनः ॥ २४१.३६॥ पञ्चविंशतिकोऽमूर्तः स नित्यस्तत्त्वसंज्ञकः । सत्त्वसंश्रयणात्तत्वं सत्त्वमाहुर्मनीषिणः ॥ २४१.३७॥ यदमूर्तिः सृजद्व्यक्तं तन्मूर्तिमधितिष्ठति । चतुर्विंशतिमो व्यक्तो ह्यमूर्तिः पञ्चविंशकः ॥ २४१.३८॥ स एव हृदि सर्वासु मूर्तिष्वातिष्ठताऽऽत्मवान् । चेतयंश्चेतनीं नित्यं सर्वमूर्तिरमूर्तिमान् ॥ २४१.३९॥ सर्गप्रलयधर्मेण स सर्गप्रलयात्मकः । गोचरे वर्तते नित्यं निर्गुणो गुणसंज्ञितः ॥ २४१.४०॥ एवमेष महात्मा च सर्गप्रलयकोटिशः । विकुर्वाणः प्रकृतिमान्नाभिमन्येत बुद्धिमान् ॥ २४१.४१॥ तमःसत्त्वरजोयुक्तस्तासु तास्विह योनिषु । लीयते प्रतिबुद्धत्वादबुद्धजनसेवनात् ॥ २४१.४२॥ सहवासनिवासत्वाद्बालोऽहमिति मन्यते । योऽहं न सोऽहमित्युक्ते गुणानेवानुवर्तते ॥ २४१.४३॥ तमसा तामसान्भावन्विविधान्प्रतिपद्यते । रजसा राजसांश्चैव सात्त्विकान्सत्त्वसंक्षयात् ॥ २४१.४४॥ शुक्ललोहितकृष्णानि रूपाण्येतानि त्रीणि तु । सर्वाण्येतानि रूपाणि जानीहि प्राकृतानि तु ॥ २४१.४५ । तामसा निरयं यान्ति राजसा मानुषानथ । सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः ॥ २४१.४६॥ निष्केवलेन पापेन तिर्यग्योनिमवाप्नुयात् । पुण्यपापेषु मानुष्यं पुण्यमात्रेण देवताः ॥ २४१.४७॥ एवमव्यक्तविषयं मोक्षमाहुर्मनीषिणः । पञ्चविंशतिमो योऽयं ज्ञानादेव प्रवर्तते ॥ २४१.४८॥ इति श्रीमहापुराणे आदिब्राह्मे वसिष्ठकरालजनकसंवादे क्षराक्षरविचारनिरूपणं नाम एकचत्वारिंशदधिकद्विशततमोऽध्यायः॥ २४१ ॥
अध्यायः २४२ (१३४) वशिष्ठकरालजनकसंवादवर्णनम् वसिष्ठ उवाच एवमप्रतिबुद्धत्वादबुद्धमनुवर्तते । देहाद्देहसहस्राणि तथा च न स भिद्यते ॥ २४२.१॥ तिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि । उत्पद्यति तपोयोगाद्गुणैः सह गुणक्षयात् ॥ २४२.२॥ मनुष्यत्वाद्दिवं याति देवो मानुष्यमेति च । मानुष्यान्निरयस्थानमालयं प्रतिपद्यते ॥ २४२.३॥ कोषकारो यथाऽऽत्मानं कीटः समभिरुन्धति । सूत्रतन्तुगुणैर्नित्यं तथाऽयमगुणो गुणैः ॥ २४२.४॥ द्वंद्वंमेति च निर्द्वंद्वस्तासु तास्विह योनिषु । शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे ॥ २४२.५॥ जलोदरेऽतिसारे च गण्डमालविचर्चिके । श्वत्रकुष्ठेऽग्निदग्धे च सिध्मापस्मारयोरपि ॥ २४२.६॥ यानि चान्यानि द्वंद्वानि प्राकृतानि शरीरिणाम् । उत्पद्यन्ते विचित्राणि तान्येवाऽऽत्माऽभिमन्यते ॥ २४२.७॥ अभिमानातिमानानां तथैव सुकृतान्यपि । एकवासाश्चतुर्वासाः शायी नित्यमधस्तथा ॥ २४२.८॥ मण्डूकशायी च तथा वीरासनगतस्तथा । वीरमासनमाकाशे तथा शयनमेव च ॥ २४२.९॥ इष्टकाप्रस्तरे चैव चक्रकप्रस्तरे तथा । भस्माप्रस्तरशायी च भूमिशय्यानुलेपनः ॥ २४२.१०॥ वीरस्थानाम्बुपाके च शयनं फलकेषु च । विविधासु च शय्यासु फलगृह्यान्वितासु च ॥ २४२.११॥ उद्याने खललाग्ने तु क्षौमकृष्णाजिनान्वितः । मणिवालपरीधानो व्याघ्रचर्मपरिच्छदः ॥ २४२.१२॥ सिंहचर्मपरीधानः पट्टवासास्तथैव च । फलकं(?)परिधानश्च तथा कटकवस्त्रधृक् ॥ २४२.१३॥ कटैकवसनश्चैव चीरवासास्तथैव च । वस्त्राणि चान्यानि बहून्यभिमत्य य बुद्धिमान् ॥ २४२.१४॥ भोजनानि विचित्राणि रत्नानि विविधानि च । एकरात्रान्तराशित्वमेककालिभोजनम् ॥ २४२.१५॥ चतुर्थाष्टमकालं च षष्ठकालिकमेव च । षड्रात्रभोजनश्चैव तथा चाष्टाहभोजनः ॥ २४२.१६॥ मासोपवासी मूलाशी फलाहारस्तथैव च । वायुभक्षश्च पिण्याकदधिगोमयभोजनः ॥ २४२.१७॥ गोमूत्रभोजनश्चैव काशपुष्पाशनस्तथा । शैवालभोजनश्चैव तथा चान्येन वर्तयन् ॥ २४२.१८॥ वर्तयञ्शीर्मपर्णैश्च प्रकीर्णफलभोजनः । विविधानि च कृच्छ्राणि सेवते सिद्धिकाङ्क्षया ॥ २४२.१९॥ चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च । चातुराश्रम्ययुक्तानि धर्माधर्माश्रयाण्यपि ॥ २४२.२०॥ उपाश्रयानप्यपरान्पाखण्डान्विविधानपि । विविक्ताश्च शिलाछायास्तथा प्रस्रवणानि च ॥ २४२.२१॥ पुलिनानि विविक्तानि विविधानि तपांसि च । यज्ञांश्च विविधाकारान्विद्याश्च विविधास्तथा ॥ २४२.२२॥ नियमान्विविधांश्चापि विविधानि तपांसि च । यज्ञांश्च विविधाकारान्विद्याश्च विविधास्तथा ॥ २४२.२३॥ वणिक्पथं द्विजक्षत्रवैश्यशूद्रांस्तथैव च । दानां च विविधाकारं दीनान्धकृपणादिषु ॥ २४२.२४॥ अभिमन्येत संधातुं तथैव विविधान्गुणान् । सत्त्वं रजस्तमश्चैव धर्मार्थै काम एव च ॥ २४२.२५॥ यजनाध्ययने दानं तथैवाऽऽहुः प्रतिग्रहम् । याजनाध्यापने चैव तथाऽन्यदपि किंचन ॥ २४२.२६॥ यजनाध्ययने दानं तथैवाऽऽहुः प्रतिग्रहम् । याजनाध्यापने चैव तथाऽन्यदपि किंचन ॥ २४२.२७॥ जन्ममृत्युविधानेन तथा विशसनेन च । शुभाशुभमयं सर्वमेतदाहुः सनातनम् ॥ २४२.२८॥ प्रकृतिः कुरुते देवी भयं प्रलयमेव च । दिवसान्ते गुणानेतानतीत्यैकोऽवतिष्ठते ॥ २४२.२९॥ रश्मिजालमिवाऽऽदित्यस्तत्कालं संनियच्छति । एवमेवैष तत्सर्वं क्रीडार्थमभिमन्यते ॥ २४२.३०॥ आत्मरूपगुणानेतान्विविधान्हृदयप्रियान् । एवमेतां प्रकुर्वाणः सर्गप्रलयधर्मिणीम् ॥ २४२.३१॥ क्रियां क्रियापथे रक्तस्त्रिगुणस्त्रिगुणाधिपः । क्रियाक्रियापतोपेतस्तथा तदिति मन्यते ॥ २४२.३२॥ प्रकृत्या सर्वमेवेदं जगदन्धीकृतं विभो । रजसा तमसा चैव व्याप्तं सर्वमनेकधा ॥ २४२.३३॥ एवं द्वंद्वान्यतीतानि मम वर्तन्ति नित्यशः । मत्त एतानि जायन्ते प्रलये यान्ति मामपि ॥ २४२.३४॥ निस्तर्तव्याण्थैतानि सर्वाणीति नराधिप । मन्यते पक्षबुद्धत्वात्तथैव सुकृतान्यपि ॥ २४२.३५॥ भोक्तव्यानि ममैतानि वेवलोकगतेन वै । इहैव चैनं भोक्ष्यामि शुभासुभफलोदयम् ॥ २४२.३६॥ सुखमेवं तु कर्तव्यं सकृत्कृत्वा सुखं मम॥ यावदेव तु मे सौख्यं जात्यां जात्यां भविष्यति ॥ २४२.३७॥ भविष्यति न मे दुःखं कृतेनेहाप्यनन्तकम् । सुखदुःखं हि मानुष्यं निरये चापि मज्जनम् ॥ २४२.३८॥ निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः । मनुष्यत्वाच्च देवत्वं देवत्वात्पौरुषं पुनः ॥ २४२.३९॥ मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति । एष एवं द्विजातीनामात्मा वै स गुणैर्वृतः ॥ २४२.४०॥ तेन देवमनुष्येषु निरयं चोपपद्यते । ममत्वेनाऽऽवृतो नित्यं तत्रैव परिवर्तते ॥ २४२.४१॥ सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु । य एवं कुरुते कर्म शूभाशुभफलात्मकम् ॥ २४२.४२॥ स एव फलमाप्नोति त्रिषु लोकेषु मूर्तिमान् । प्रकृतिः कुरुते कर्मशुभशुभफलात्मकम् ॥ २४२.४३॥ प्रकृतिश्व तथाऽऽनोति त्रिषु लोकेषु कामणा । तिर्यग्योनिमनुष्यत्वले देवलोके तथैव च ॥ २४२.४४॥ त्रीणि स्थानानि चैतानि जानीयात्प्राकृतानि ह । अलिङ्गप्रकृतित्वाच्च लिङ्गैरप्यनुमीयते ॥ २४२.४५॥ तथैव पौरुषं लिङ्गमनुमानाद्धि मन्यते । स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम् ॥ २४२.४६॥ व्रणद्वाराण्यधिष्ठाय कर्माण्यात्मनि मन्यते । श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाण्यथ ॥ २४२.४७॥ रागादीनि प्रवर्तन्ते गुणेष्विह गुणैः सह । अहमेतानि वै कुर्वन्ममैतानीन्द्रियाणिह ॥ २४२.४८॥ निरिन्द्रियो हि मन्येत व्रणवानस्मि निर्व्रणः । अलिङ्गो लिङ्गमात्मानमकालं कालमात्मनः ॥ २४२.४९॥ असत्त्वं सत्त्वमात्मानममृतं मृतमात्मनः । अमृत्युं मृत्युमात्मात्मानमभवं भवमात्मनः ॥ २४२.५०॥ अक्षेत्रं क्षेत्रमात्मानमसङ्गं सङ्गमात्मनः । अतत्त्वं तत्त्वमात्मानमभवं भवमात्मनः ॥ २४२.५१॥ अक्षरं क्षरमात्मानमबुद्धत्वाद्धि मन्यते । एवमप्रतिबुद्धत्वादबुद्धजनसेवनात् ॥ २४२.५२॥ सर्गकोटिसहस्राणि पतनान्तानि गच्छति । जन्मान्तरसहस्राणि मरणान्तानि गच्छति ॥ २४२.५३॥ तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च । चन्द्रमा इव कोशानां पुनस्तत्र सहस्रशः ॥ २४२.५४॥ नीयतेऽप्रतिबुद्धत्वादेवमेव कुबुद्धिमान् । कला पञ्चदशी योनिस्तद्धाम इति पठ्यते ॥ २४२.५५॥ नित्यमेव विजानीहि सोमं वै षोडशांशकैः । कलया जायतेऽजस्रं पुनः पुनरबुद्धिमान् ॥ २४२.५६॥ धीमांश्चायं न भवति नृप एवं हि जायते । षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् ॥ २४२.५७॥ न तूपयूज्यते देवैर्दैवानपि युनक्ति सः । ममत्वं क्षपयित्वा तु जायते नृपसत्तम॥ प्रकृतेस्त्रिगुणायास्तु स एव त्रिगुणो भवेत् ॥ २४२.५८॥ इति श्रीमहापुराणे आदिब्राह्मे वसिष्ठकरालजनकसंवादे द्विचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४२॥ रह्मपुराणम्
अध्यायः २४३ (१३५) वशिष्ठं प्रति मोक्षधर्मविषयको जनकप्रश्नः जनक उवाच अक्षरक्षरयोरेष द्वयोः संबन्ध इष्यते । स्त्रीपुंसयोर्वा सम्बन्ध स वै पुरुष उच्यते ॥ २४३.१॥ ऋते तु पुरुषं नेह स्त्री गर्भान्धारयत्युत । ऋते स्त्रियं न पुरुषो रूपं निर्वर्तते तथा ॥ २४३.२॥ अन्योन्यस्याभिसंबन्धानयोन्यगुणसंश्रयात् । रूपं निर्वर्तयेदेतदेवं सर्वासु योनिषु ॥ २४३.३॥ रत्यर्थमतिसंयोगादन्योन्यगुमसंश्रयात् । ऋतौ निर्वर्तते रूपं तद्वक्ष्यामि निदर्शनम् ॥ २४३.४॥ ये गुणाः परुषस्येह ये च मातुर्गुणास्तथा । अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज ॥ २४३.५॥ त्वङ्मासशोणितं चेति मातृजान्यनुशुश्रुम । एवमेतद्द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते ॥ २४३.६॥ प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते । वेदशास्त्रप्रमाणं च प्रमाणं तत्सनातनम् ॥ २४३.७॥ एवमेवाभिसम्बन्धौ नित्यं प्रकृतिपूरुषौ । यच्चापि भगवंस्तस्मान्मोक्षधर्मो न विद्यते ॥ २४३.८॥ अथवाऽनन्तरकृतं किंचिदेव निदर्शनम् । तन्ममाऽऽचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वदा ॥ २४३.९॥ मोक्षकामा वयं चापि काङ्क्षामो यदनामयम् । अजेयमजरं नित्यमतीन्द्रियमनीश्वरम् ॥ २४३.१०॥ वसिष्ठ उवाच यदेतदुक्तं भवता वेदशास्त्रनिदर्शनम् । एवमेतद्यता वक्ष्ये तत्त्वग्राही यथा भवान् ॥ २४३.११॥ धार्यते हि त्वाया ग्रन्थ उभयोर्वेदशास्त्रयोः । न च ग्रन्थस्य तत्त्वज्ञो यथातत्त्वं नरेश्वर ॥ २४३.१२॥ यो हि वेदे च शास्त्रे च ग्रान्थधारणतत्परः । न च ग्रन्तार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा ॥ २४३.१३॥ भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः । यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा ॥ २४३.१४॥ ग्रन्थस्यार्थं स पृष्टस्तु मादृशो वक्तुमर्हति । यथातत्त्वाभिगमनादर्थं तस्य स विन्दति ॥ २४३.१५॥ न यः समुत्सुकः कश्चिद्ग्रन्थार्थं स्थूलबुद्धिमान् । स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ॥ २४३.१६॥ अज्ञात्वा ग्रन्थतत्त्वानि वादं यः कुरुते नरः । लोभाद्वाऽप्यथवा दम्भात्स पापी नरकं व्रजेत् ॥ २४३.१७॥ निर्णयं चापि च्छिद्रात्मा न तद्वक्ष्यति तत्त्वतः । सोऽपीहास्यार्थतत्त्वज्ञो यस्मान्नैवाऽऽत्मवानपि ॥ २४३.१८॥ तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यते । यथा तत्त्वेन सांख्येषु योगेषु च महात्मसु ॥ २४३.१९॥ यदेव योगाः पश्यन्ति सांख्यं तदनुगम्यते । एकं सांख्यां च योगं च यः यपश्यति स बुद्धिमान् ॥ २४३.२०॥ त्वङ्मांसं रुधिरं मेदः पित्तं मज्जाऽस्थि स्नायु च । एतदैन्द्रियकं तात यद्भवानित्थमात्थ माम् ॥ २४३.२१॥ द्रव्याद्द्रव्यस्य निर्वृत्तिरिन्द्रियादिन्द्रियं तथा । देहाद्देहमवाप्नोति बीजाद्बीजं तथैव च ॥ २४३.२२॥ निरिन्द्रियस्य बीजस्य निर्द्रव्यस्यापि देहिनः । कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः ॥ २४३.२३॥ गुणा गुणेषु जायन्ते तत्रैव विरमन्ति च । एवं गुणाः प्रकृतिजा जायन्ते न च यान्ति च ॥ २४३.२४॥ त्वङ्मांसं रुधिरं मेदः पित्तं मज्जाऽस्ति स्नायु च । अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतेन वै ॥ २४३.२५॥ पुमांश्चैवापुमांस्चैव स्त्रीलिङ्गं प्राकृतं स्मृतम् । वायुरेष पुमांश्चैव रस इत्यभिधीयते ॥ २४३.२६॥ अलिङ्गा प्रकृतिर्लिङ्गैरुपलभ्यति साऽऽत्मजैः । यथा पुष्पफलैर्नित्यं मूर्तं चामूर्तयस्तथा ॥ २४३.२७॥ एवमप्यनुमानेन स लिङ्गमुपलभ्यते । पञ्चविंशतिकस्तात लिङ्गेषु नियतात्मकः ॥ २४३.२८॥ अनादिनिधनोऽनन्तः सर्वदर्शनकेवलः । केवलं त्वभिमानित्वाद्गुणेषु गुण उच्यते ॥ २४३.२९॥ गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः । तस्मादेवं विजानन्ति ये जना गुणदर्शिनः ॥ २४३.३०॥ यदा त्वेष गुणानेतान्प्राकृतानभिमन्यते । तदा स गुणवानेव गुणभेदान्प्रपश्यति ॥ २४३.३१॥ यत्तद्बुद्धेः परं प्राहुः सांख्ययोगं च सर्वशः । बुध्यमानं महाप्राज्ञाः प्रबुद्धपरिवर्जनात् ॥ २४३.३२॥ अप्रबुद्धं यथा व्यक्तं स्वगुणैः प्राहुरीश्वरम् । निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च ॥ २४३.३३॥ प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः । सांख्ययोगे च कुशला बुध्यन्ते परमैषिणः ॥ २४३.३४॥ यदा प्रबुद्धमव्यक्तमवस्थात(प)ननी(भी)रवः । बुध्यमानं न बुध्यन्तेऽवगच्छन्ति समं तदा ॥ २४३.३५॥ एतन्नदर्शनं सम्यङ्न सम्यगनुदर्शनम् । बुध्यमानं प्रबुध्यन्ते द्वाभ्यां पृथगरिंदम ॥ २४३.३६॥ परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम् । एकत्वदर्शनं चास्य नानात्वं चास्य दर्शनम् ॥ २४३.३७॥ पञ्चविंशतिनिष्ठोऽयं तदा सम्यक्प्रचक्षते । एकत्वदर्शनं चास्य नानात्वं चास्य दर्शनम् ॥ २४३.३८॥ तत्त्ववित्तत्त्वयोरेव पृथगेतन्निदर्शनम् । पञ्चविंसतिभिस्तत्त्वं तत्त्वमाहुर्मनीषिणः ॥ २४३.३९॥ निस्तत्त्वं पञ्चविंशस्य परमाहुर्मषिणः । वर्ज्यस्य वर्ज्यमाचारं तत्त्वं तत्त्वात्सनातनम् ॥ २४३.४०॥ करालजनक उवाच नानात्वैकत्वमित्युक्तं त्वयैतद्द्विजसत्तम । पश्यतस्तद्वि संदिग्धमेतयोर्वै निदर्शनम् ॥ २४३.४१॥ तथा बुद्धप्रबुद्धाभ्यां बुध्यमानस्य चानघ । स्थूलबुद्ध्या न पश्यामि तत्त्वमेतन्न संशयः ॥ २४३.४२॥ अक्षरक्षरयोरुक्तं त्वया यदपि कारणम् । तदप्यस्थिरबुद्धित्वात्प्रनष्टमिव मेऽनघ ॥ २४३.४३॥ तदेतच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम् । द्वंद्वं चैवानिरुद्धं च बुध्यमानं च तत्त्वतः ॥ २४३.४४॥ विद्याविद्ये च भगवन्नक्षरं क्षरमेव च । सांख्ययोगं च कृत्स्नेन बुद्धाबुद्धिं पृथक्पृथक् ॥ २४३.४५॥ वसिष्ठ उवाच हन्त ते सम्प्रवक्ष्यामि यदेतदनुपृच्छसि । योगकृत्यं महाराज पृथगेव शृणुष्व मे ॥ २४३.४६॥ योगकृत्यं तु योगानां ध्यानमेव परं बलम् । तच्चापि द्विविधं ध्यानमाहुर्विद्याविदो जनाः ॥ २४३.४७॥ एकग्रता च मनसः प्राणायामस्तथैव च । प्राणायामस्तु सगुणो निर्गुणो मानसस्तथा ॥ २४३.४८॥ मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप(?) । द्विकालं नोपभृञ्जीत शेषं भुञ्जीत तत्परः ॥ २४३.४९॥ इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः । दशद्वादशभिर्वाऽपि चतुर्विंशात्परं यतः ॥ २४३.५०॥ स चोदनाभिर्मतिमान्नात्मानं चोदयेदथ । तिष्ठन्तमजरं तं तु यत्तदुक्तं मनीषिभिः ॥ २४३.५१॥ विश्वात्मा सततं ज्ञेय इत्येवमनुसुश्रुम । द्रव्यं ह्यहीनमनसो नान्यथेति विनिश्चयः ॥ २४३.५२॥ विमुक्तः सर्वसङ्गेभ्यो लवाहारो जितेन्द्रियः । पूर्वरात्रे पार्धे च धारयीत मनो हृदि ॥ २४३.५३॥ स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर । मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः ॥ २४३.५४॥ स्थाणुवच्चाप्यकम्प्यः स्याद्दारुवच्चापि निश्चलः । बुद्ध्या विधिविधानज्ञास्ततो युक्तं प्रचक्षते ॥ २४३.५५॥ न शृणोति न चाऽऽघ्राति न च पश्यति किंचन । न च सपर्शं विजानाति न च संकल्पते मनः ॥ २४३.५६॥ न चापि मन्यते किंचिन्न च बुध्येत काष्ठवत् । तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः ॥ २४३.५७॥ न भाति हि यथा दीपो दीप्तिस्तद्वच्च दृश्यते । निलिङ्गस्चाधश्चोर्ध्वं च तिर्यग्गतिमवाप्नुयात् ॥ २४३.५८॥ तदा तदुपपन्नश्च यस्मिन्दृष्टे च कथ्यते । हृदयस्थोऽन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः ॥ २४३.५९॥ निर्धूम इव सप्तार्चिरादित्य इव रश्मिवान् । वैद्युतोऽग्निरिवाऽकाशे पस्यत्यात्मानमात्मनि ॥ २४३.६०॥ यं पस्यन्ति महात्मानो धृतिमन्तो मनीषिणः । ब्राह्मणा ब्रह्मयोनिस्था ह्ययोनिममृतात्मकम् ॥ २४३.६१॥ तदेवाऽऽहुरणुभ्योऽणु तन्महद्भ्यो महत्तरम् । सर्वत्र सर्वभूतेषु ध्रुवं तिष्ठन्न दृश्यते ॥ २४३.६२॥ बुद्धिद्रव्येण दृश्येन मनोदीपेन लोककृत् । महतस्तमसस्ततात पारे तिष्ठन्न तामसः ॥ २४३.६३॥ तमसो दूर इत्युक्तस्तत्त्वज्ञैर्वेदपारगैः । विमलो विमतश्चैव निर्लिङ्गोऽलिङ्गसंज्ञकः ॥ २४३.६४॥ योग एष हि लोकानां किमन्यद्योगलक्षणम् । एवं पश्यन्प्रपश्येन आत्मानमजरं परम् ॥ २४३.६५॥ योगदर्शनमेतावदुक्तं ते तत्त्वतो मया । सांख्यज्ञानं प्रवक्ष्यामि परिसंख्यानिदर्शनम् ॥ २४३.६६॥ अव्यक्तमाहुः प्रख्यानं परां प्रकृतिमात्मनः । तस्मान्महात्समुत्पन्नं द्वितीयं राजसत्तम ॥ २४३.६७॥ अहंकारस्तु महतस्तृतीय इति नः श्रुतम् । पञ्चभूतान्यहंकारादाहुः सांख्यात्मदर्शिनः ॥ २४३.६८॥ एताः प्रकृतयस्त्वष्टौ विकाराश्चापि षोडश । पञ्च चैव विशेषाश्च तथा पञ्चेन्द्रियाणि च ॥ २४३.६९॥ एतावदेव तत्त्वानां सांख्यमाहुर्मनीषिणः । सांख्ये सांख्यविधानज्ञा नित्यं सांख्यपथे स्थिताः ॥ २४३.७०॥ यस्माद्यदभिजायेत तत्तत्रैव प्रलीयते । लीयन्ते प्रतिलोमानि गृह्यन्ते चान्तरात्मना ॥ २४३.७१॥ आनुलोम्येन जायन्ते लीयन्ते प्रतिलोमतः । गुणा गुणेषु सततं सागरस्योर्मयो यथा ॥ २४३.७२॥ सर्गप्रलय एतावान्प्रकृतेर्नृपसत्तम । एकत्वं प्रलये चास्य बहुत्वं च तथा सृजि ॥ २४३.७३॥ एवमेव च राजेन्द्र विज्ञेयं ज्ञानकोविदैः । अधिष्ठातारमव्यक्तमस्याप्येतन्निदर्शनम् ॥ २४३.७४॥ एकत्वं च बहुत्वं च प्रकृतेरनुतत्त्ववान् । एक्तंव प्रलये चास्य बहुत्वं च प्रवर्तनात् ॥ २४३.७५॥ बहुलाऽऽत्मा राजेन्द्र प्रोच्यते यतिसत्तमैः । अधिष्ठानादधिष्ठाता क्षेत्राणामिति नः श्रुतम् ॥ २४३.७६॥ अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः । अधिष्ठानादधिष्ठाता क्षेत्राणामिति नःश्रुतम् ॥ २४३.७७॥ क्षेत्रं जानाति चाव्यक्तं ज्ञेत्रज्ञ इति चोच्यते । अव्यक्तिके पुरे शेते पुरुषश्चेति कथ्यते ॥ २४३.७८॥ अन्यदेव च क्षेत्रं स्यादन्यः क्षेत्रज्ञ उच्यते । क्षेत्रमव्यक्त इत्युक्तं ज्ञातारं पञ्चविंशकम् ॥ २४३.७९॥ अन्यदेव च ज्ञानं स्यादन्यज्ज्ञेयं तदुच्यते । ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकम् ॥ २४३.८०॥ अव्यक्तं क्षेत्रमित्युक्तं तथा सत्त्वं तथेश्वरम् । अनीश्वरमतत्त्वं च तत्त्वं तत्पञ्चविंशकम् ॥ २४३.८१॥ सांक्यदर्शनमेतावत्परिसंख्या न विद्यते । संख्यां प्रकुरुते चैव प्रकृतिं च प्रवक्ष्यते ॥ २४३.८२॥ चत्वारिंशच्चतुर्विंशत्प्रतिसंख्याय तत्त्वतः । संख्या सहस्रकृत्या तु निस्तत्त्वः पञ्चविंशकः ॥ २४३.८३॥ पञ्चविंशत्प्रबुद्धात्मा बुध्यमान इति श्रुतः । यदा बुध्यति आत्मानं तदा भवति केवलः ॥ २४३.८४॥ सम्यग्दर्शनमेतावद्भाषितं तव तत्त्वतः । एवमेतद्विजानन्तः साम्यतां प्रतियान्त्युत ॥ २४३.८५॥ सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा । गुणवत्त्वाद्यथैतानि निर्गुणेभ्यस्तथा भवेत् ॥ २४३.८६॥ सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा । गुणवत्त्वाद्यथैतानि निर्गुणेभ्यस्तथा भवेत् ॥ २४३.८७॥ पश्यन्त्यमतयो ये नच सम्यक्तेषु च दर्शनम् । ते व्यक्तिं प्रतिपद्यन्ते पुनः पुनररिंदम ॥ २४३.८८॥ सर्वमेतद्विजानन्तो न सर्वस्य प्रबोधनात् । व्यक्तिभूता भविष्यन्ति व्यक्तस्यैवानुवर्तनात् ॥ २४३.८९॥ सर्वमव्यक्तमित्युक्तमसर्वः पञ्चविंशकः । य एवमभिजानन्ति न भयं तेषु विद्यते ॥ २४३.९०॥ इति श्रीमहापुराणे आदिब्राह्मे वसिष्ठकरालजनकसंवादे त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४३॥
अध्यायः २४४ (१३६) विद्याविद्ययोःस्वरूपकथनम् वसिष्ठ उवाच सांख्यदर्शनमेतावदुक्तं ते नृपसत्तम । विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः ॥ २४४.१॥ अभेद्यमाहुरव्यक्तं सर्गप्रलयधर्मिणः । सर्गप्रलय इत्युक्तं विद्याविद्ये च विंशकः ॥ २४४.२॥ परस्परस्य विद्या वै तन्निबोधानुपूर्वशः । यथोक्तमृषिभिस्तात सांख्यस्यातिनिदर्शनम् ॥ २४४.३॥ कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् । बुद्धीन्द्रियाणां च तथा विशषा इति नः श्रुतम् ॥ २४४.४॥ विषयाणां मनस्तेषां विद्यामाहुर्मनीषिणः । मनसः पञ्च भूतानि विद्या इत्यभिचक्षते ॥ २४४.५॥ अहंकारस्तु भूतानां पञ्चानां नात्र संशयः । अहंकारस्तथा विद्या बुद्धिर्विद्या नरेश्वर ॥ २४४.६॥ बुद्ध्या प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरः । विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः ॥ २४४.७॥ अव्यक्तमपरं प्राहुर्विद्या वै पञ्चविंशकः । सर्वस्य सर्वमित्युक्तं ज्ञेयज्ञानस्य पारगः ॥ २४४.८॥ ज्ञानमव्यक्तमित्युक्तं ज्ञेयं वै पञ्चविंसकम् । तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशकः ॥ २४४.९॥ विद्याविद्ये तु तत्त्वेन मयोक्ते वै विशेषतः । अक्षरं च क्षरं चैव यदुक्तं तन्निबोध मे ॥ २४४.१०॥ उभावेतौ क्षरावुक्तौ उभावेतावन(था)क्षरौ । कारणं तु प्रवक्ष्यामि यथाज्ञानं तु ज्ञानतः ॥ २४४.११॥ अनादिनिधनावेतौ उभावेवेश्वरौ मतौ । तत्तवसंज्ञावुभावेव प्रोच्यते ज्ञानचिन्तकैः ॥ २४४.१२॥ सर्गप्रलयधर्मित्वादव्यक्तं प्राहुरव्ययम् । तदेतद्गुणसर्गाय विकुर्वाणं पुनः पुनः ॥ २४४.१३॥ गुणानां महदादीनामुत्पद्यति परस्परम् । अधिष्ठानं क्षेत्रमाहुरेतद्वै पञ्चविंशकम् ॥ २४४.१४॥ यदन्तर्गुणजालं तु तद्व्यक्तात्मनि संक्षिपेत् । तदहं तद्गुणैस्तस्तु पञ्चविंशे विलीयते ॥ २४४.१५॥ गुणा गुणेषु लीयन्ते तदेका प्रकृतिर्भवेत् । क्षेत्रज्ञोऽपि तदा तावत्क्षेत्रज्ञः सम्प्रणीयते ॥ २४४.१६॥ यदाऽक्षरं प्रकृतिर्यं गच्छते गुणसंज्ञिता । निर्गुणत्वं च वै देहे गुणेषु परिवर्तनात् ॥ २४४.१७॥ एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षयात् । प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम ॥ २४४.१८॥ क्षरो भवत्येष यदा गुणवती गुणेष्वथ । प्रकृतिं त्वथ जनाति निर्गुणत्वं तथात्मनः ॥ २४४.१९॥ तथा विशुद्धो भवति प्रकृते परिवर्जनात् । अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान् ॥ २४४.२०॥ तदैषोऽव्यथतामेति न च मिश्रत्वमाव्रजेत् । प्रकृत्या चैष राजेन्द्र मिश्रोऽन्योऽन्यस्य दृश्यते ॥ २४४.२१॥ यदा तु गुणजालं तत्प्राकृतं विजुगुप्सते । पश्यते च परं पश्यंस्तदा पश्यंस्तदा पश्यन्नु संसृजेत् ॥ २४४.२२॥ किं मया कृतमेतावद्योऽहं कालनिमज्जनः । यथा मत्स्यो ह्यभिज्ञानादनुवर्तितवाञ्जलम् ॥ २४४.२३॥ अहमेव हि संमोहादन्यमन्यं जनाज्जनम् । मत्स्यो यथोदकज्ञानादनुवर्तितवानिह ॥ २४४.२४॥ मत्स्योऽन्यत्वमथाज्ञानादुदकान्नाभिमन्यते । आत्मानं तदवज्ञानादन्यं चैव न वेद्म्यहम् ॥ २४४.२५॥ ममास्तु धिक्कुबुद्धस्य योऽहं मग्न इमं पुनः । अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम् ॥ २४४.२६॥ अयमनुभवेद्बन्धुरनेन सह मे भयम् । साम्यमेकत्वातं यातो यादृशस्तादृशस्त्वहम् ॥ २४४.२७॥ तुल्यतामिह पश्यामि सदृशोऽहमनेन वै । अयं हि विमलो व्यक्तमहमीदृशकस्तदा ॥ २४४.२८॥ योऽहमज्ञानसंमोहादज्ञया सम्प्रवृत्तवान् । संसर्गादतिसंसर्गात्स्थितः कालमिमं त्वहम् ॥ २४४.२९॥ सोऽहमेवं वशीभूतः कालमेतं न बुद्धवान् । उत्तमाधममध्यानां तामहं कथमावसे ॥ २४४.३०॥ समानमायया चेह सहवासमहं कथम् । गच्छाम्यबुद्धभावत्वादिहेदीनीं स्थिरो व ॥ २४४.३१॥ सहवासं न यास्यामि कालमेतं विवञ्चनात् । वञ्चितो ह्यनया यद्धि निर्विकारो विकारया ॥ २४४.३२॥ न तत्तदपराद्दं स्यादपराधो ह्ययं मम । योऽहमत्रभवं सक्तः पराङ्मुखमुपस्थितः ॥ २४४.३३॥ ततोऽस्मिन्बहुरूपोऽथ स्थितो मूर्तिरमूर्तिमान् । अमूर्तिश्चाप्यमूर्तात्मा ममत्वेन प्रधर्षितः ॥ २४४.३४॥ प्रकृत्या च तया तेन तासु तास्विह योनिषु । निर्ममस्य ममत्वेन विकृतं तासु तासु च ॥ २४४.३५॥ योनिषु वर्तमानेन नष्टसंज्ञेन चेतसा । समता न मया काचिदहंकारे कृता मया ॥ २४४.३६॥ आत्मानं बहुधा कृत्वा सोऽयं भूयो युनक्ति माम् । इदानीमवबुद्धोऽस्मि निर्ममो निरहंकृतः ॥ २४४.३७॥ ममत्वं मनसा नित्यमहंकारकृतात्मकम् । अपलग्नामिमां हित्वा संश्रयिष्ये निरामयम् ॥ २४४.३८॥ अनेन साम्यं यास्यामि नानयाऽहमचेतसा । क्षेमं मम सहानेन नैवैकमनया सह ॥ २४४.३९॥ एवं परमसंबोधात्पञ्चविंशोऽनुबुद्धवान् । अक्षरत्वं निगच्छति त्यक्त्वा क्षरमनामयम् ॥ २४४.४०॥ अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा । निर्गुणं प्रथमं दृष्ट्वा तादृग्भवति मैथिल ॥ २४४.४१॥ अक्षरक्षरयोरेतदुक्तं तव निदर्शनम् । मयेह ज्ञानसम्पन्नं यथा श्रुतिनिद्रशनात् ॥ २४४.४२॥ निःसंदिग्धं च सूक्ष्मं च विशुद्धं विमलं तथा । प्रवक्ष्यामि तु ते भूयस्तन्निबोध यथाश्रुतम् ॥ २४४.४३॥ सांख्ययोगो मया प्रोक्तः शास्त्रद्वयनिदर्शनात् । यदेव सांक्यशास्त्रोक्तं योगदर्शनमेव तत् ॥ २४४.४४॥ प्रबोधनपरं ज्ञानं सांख्यानामवनीपते । विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया ॥ २४४.४५॥ बृहच्चैवमिदं शास्त्रमित्याहुर्विदुषो जनाः । अस्मिंश्च शास्त्रे योगानां पुनर्भवपुरःसरम् ॥ २४४.४६॥ पञ्चविंशात्परं तत्त्वं पठ्यते च नराधिप । सांख्यानां तु परं तत्त्वं यथावदनुवर्णितम् ॥ २४४.४७॥ बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः । बुध्यमानं च बुद्धत्वं प्राहुर्योगनिदर्शनम् ॥ २४४.४८॥ बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः । बुध्यमानं च बुद्धत्वं प्राहुर्योगनिदर्शनम् ॥ २४४.४९॥ इति श्रीमहापुराणे आदिब्राह्मे वसिष्ठकरालजनकसंवादे चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४४॥
अध्यायः २४५ (१३७) अजस्यापि विक्रियया नानाभवनम् वसिष्ठ उवाच अप्रबुद्धमथाव्यक्तमिमं गुणनिधिं सदा । गुणानां धार्यतां तत्त्वं सृजत्याक्षिपते तथा ॥ २४५.१॥ अजो हि क्रीडया भूप विक्रियां प्राप्त इत्युत । आत्मानं बहुधा कृत्वा नानेन प्रतिचक्षते ॥ २४५.२॥ एतदेवं विकुर्वाणो बुध्यमानो न बुध्यते । गुणानाचरते ह्येष सृजत्याक्षिपते तथा ॥ २४५.३॥ अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि । न त्वेवं बुध्यतेऽव्यक्तं सगुणं तात निर्गुणम् ॥ २४५.४॥ कदाचित्त्वेव खल्वेतत्तदाहुः प्रतिबुद्धकम् । बुध्यते यदि चाव्यक्तमेतद्वै पञ्चविंशकम् ॥ २४५.५॥ बुध्यमानो भवत्येष ममात्मक इति क्षुतः । अन्योन्यप्रतिबुद्धेन वदन्त्यव्यक्तमच्युतम् ॥ २४५.६॥ अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्युत । पञ्चविंशं महात्मनां न चासावपि बुध्यते ॥ २४५.७॥ षड्विंशं विमलं बुद्धमप्रमेयं महाद्युते । सततं पञ्चविंशं तु चतुर्विंशं विबुध्यते ॥ २४५.८॥ दृश्यादृश्ये ह्यनुगततत्स्वभावे महाद्युते । अव्यक्तं चैव तद्ब्रह्म बुध्यते तात केवलम् ॥ २४५.९॥ पञ्चविंशं चतुर्विंशमात्मानमनुपश्यति । बुध्यमानो यदाऽऽत्मानमन्याऽहमिति मन्यते ॥ २४५.१०॥ तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः । बुध्यते च परां बुद्धिं विशुद्धाममलां यथा(दा) ॥ २४५.११॥ षड्विंशं राजशार्दूल तदा बुद्धः कृतो व्रजेत् । ततस्त्यजति सोऽव्यक्तसर्गप्रलयधर्मिणम् ॥ २४५.१२॥ निर्गुणां प्रकृतिं वेद गुणयुक्तामचेतनाम् । ततः केवलधर्माऽसौ भवत्यव्यक्तदर्शनात् ॥ २४५.१३॥ केवलेन समागम्य विमुक्तात्मानमाप्नुयात् । एतत्तु तत्त्वमित्याहुर्निस्तत्त्वमजरामरम् ॥ २४५.१४॥ तत्त्वसंश्रवणादेव तत्त्वज्ञो जायते नृप । पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः ॥ २४५.१५॥ न चैव तत्त्ववांस्तात संसारेषु निमज्जति । एषामुपैति तत्त्वं हि क्षिप्रं बुध्यस्व लक्षणम् ॥ २४५.१६॥ षड्विंशोऽयमिति प्राज्ञो गृह्यमाणोऽजरामरः । केवलेन बलेनैव समतां यात्यसंशयम् ॥ २४५.१७॥ षड्विंशेन प्रबुद्धेन बुध्यमानोऽप्यबुद्धिमान् । एतन्नानात्वमित्युक्तं सांख्यश्रुतिनिदर्शनात् ॥ २४५.१८॥ चेतनेन समेतस्य पञ्चविंशतिकस्य ह । एकत्वं वै भवेत्तस्य यदा बुद्ध्याऽनुबुध्यते ॥ २४५.१९॥ बुध्यमानेन बुद्धेन समतां याति मैतिल । सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप ॥ २४५.२०॥ निःसङ्गात्मानमासाद्य षड्विंशं कर्मज विदुः । विभुस्त्यजति चाव्यक्तं यदा त्वेतद्विबुध्यते ॥ २४५.२१॥ चतुर्विंशमगाधं च षड्विंशस्य प्रबोधनात् । एष ह्यप्रतिबुद्धश्च बुध्यमानस्तु तेऽनघ ॥ २४५.२२॥ उक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात् । मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः(कता) ॥ २४५.२३॥ मत्स्योदकं यथा तद्वदन्यत्पमुपलभ्यते । एवमेव च गन्तव्यं नानात्वैकत्वमेतयोः ॥ २४५.२४॥ एतावन्मोक्ष इत्युक्तो ज्ञानविज्ञानसंज्ञितः । पञ्चविंशतिकस्याऽऽशु योऽयं देहे प्रवर्तते ॥ २४५.२५॥ एष मोक्षयितव्येति प्राहुरव्यक्तगोचरात् । सोऽयमेवं विमुच्येत नान्यथेति विनिश्चयः ॥ २४५.२६॥ परश्च परधर्मा च भवत्येव समेत्य वै । विशुद्धधर्माशुद्धेन नाशुद्धेन च बुद्धिमान् ॥ २४५.२७॥ विमुक्तधर्मा बुद्धेन समेत्य पुरुषर्षभ । वियोगधर्मिणा चैव विमुक्तात्मा भवत्यथ ॥ २४५.२८॥ विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत् । शुचिकर्मा शुचिश्चैव भवत्यमितबुद्धिमान् ॥ २४५.२९॥ विमलात्मा च भवति समेत्य विमलात्मना । केवलात्मा तथा चैव केवलेन समेत्य वै॥ स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्यते ॥ २४५.३०॥ एतावदेतत्कथितं मया ते तथ्यं महाराज यथार्थतत्त्वम् । अमत्सरस्त्वं प्रतिगृह्य बुद्ध्या, सनातनं ब्रह्म विशुद्धमाद्यम् ॥ २४५.३१॥ तद्वेदनिष्ठस्य जनस्य राजन्, प्रदेयमेतत्परमं त्वया भवेत् । विधित्सामानाय निबोधकारकं, प्रबोधहेतोः प्रणतस्य शासनम् ॥ २४५.३२॥ न देयमेतच्च यथाऽनृतात्मने, शठाय क्लीबाय न जिह्मबुद्धये । न पण्डितज्ञानपरोपतापिने, देयं तथा शिष्यविबोधनाय ॥ २४५.३३॥ श्रद्धान्वितायाथ गुणान्विताय, परापवादाद्विरताय नित्यम् । विशुद्धयोगाय बुधाय चैव, कृपावतेऽथ क्षमिणे हिताय ॥ २४५.३४॥ विविक्तशीलाय विधिप्रिययाय, विवादहीनाय बहुश्रुताय । विनीतवेशाय नहैतुकात्मने, सदैव गृह्यं त्विदमेव देयम् ॥ २४५.३५॥ एतैर्गुणैर्हीनतमे न देयमेतत्परं ब्रह्म विशुद्धमाहुः । न श्रेयसे योक्ष्यति तादृशे कृतं, धर्मप्रवक्तारमपात्रदानात् ॥ २४५.३६॥ पृथ्वीमिमां वा यदि रत्नपूर्णां,दद्याददेयं त्विदमव्रताय । जितेन्द्रियाय प्रयताय देयं, देयं परं तत्त्वविदे नरेन्द्र ॥ २४५.३७॥ कराल मा ते भयमस्ति किंचिदेतच्च्रुतं ब्रह्म परं त्वयाऽद्य । यथावदुक्तं परमं वपित्रं, विशोकमत्यन्तमनादिमध्यम् ॥ २४५.३८॥ अगाधमेतदजरामरं च, निरामयं वीतभयं शिवं च । समीक्ष्य मोहं परवादसंज्ञमेतस्य तत्त्वार्थमिमं विदित्वा ॥ २४५.३९॥ अवाप्तमेतद्धि पुरा सनातनाद्धिरण्यगर्भाद्धि ततो नराधिप । प्रसाद्य यत्नेन तमुग्रतेजसं, सनातनं ब्रह्म यथा त्वयैतत् ॥ २४५.४०॥ पृष्टस्त्वया चाऽस्मि यथा नरेन्द्र, तथा मयेदं त्वयि नोक्तमन्यत् । यथाऽवाप्नं ब्रह्मणो मे नरेन्द्र, महाज्ञानं मोक्षविदां परायणम् ॥ २४५.४१॥ एतदुक्तं परं ब्रह्म यस्मान्नाऽवर्तते पुनः । पञ्चविशं मुनिश्रेष्ठा वसिष्ठेन यथा पुरा ॥ २४५.४२॥ पुनरावृत्तिमाप्नोति परमं ज्ञानमव्ययम् । नाति बुध्यति तत्त्वेन बुध्यमानोऽजरामरम् ॥ २४५.४३॥ एतन्निःश्रेयसकरं ज्ञानं परमं मया । कथितं तत्त्वतो विप्राः श्रुत्वा देवर्षितो द्विजाः ॥ २४५.४४॥ हिरण्यगर्भादृषिणा वसिष्ठेन समाहृतम् । वसिष्ठादृषिसार्दूलो नारदोऽवाप्तवानिदम् ॥ २४५.४५॥ नारदाद्विदितं मह्यमेतदुक्तं सनातनम् । मा शुचध्वं मुनिश्रेष्ठाः श्रुत्वैतत्परमं पदम् ॥ २४५.४६॥ येन क्षराक्षरे भिन्ने न भयं तस्य विद्यते । विद्यते तु भयं यस्य यो नैनं वेत्ति तत्त्वतः ॥ २४५.४७॥ अविज्ञानाच्च मूढात्मा पुनः पुनरुपद्रवान् । प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते ॥ २४५.४८॥ देवलोकं तथा तिर्यङ्मानुष्यमपि चाश्नुते । यदि वा मुच्यते वाऽपि तस्मादज्ञानसागरात् ॥ २४५.४९॥ अज्ञानसागरे घोरे ह्यव्यक्तागाध उच्यते । अहन्यहनि मज्जन्ति यत्र भूतानि भो द्विजाः ॥ २४५.५०॥ तस्मादगाधादव्यक्तादुपक्षीणात्सनातनात् । तस्माद्युयं विरजसका वितमस्काश्च भो द्विजाः ॥ २४५.५१॥ एवं मया मुनिश्रेष्ठाः सारात्सारतरं परम् । कथितं परमं मोक्षं यं ज्ञात्वा न निवर्तते ॥ २४५.५२॥ न नास्तिकाय दातव्य नाभक्ताय कदाचन । न दुष्टमतये विप्रा न श्रद्धाविमुखाय च ॥ २४५.५३॥ इति श्रीमहापुराणे आदिब्राह्मे वसिष्ठकरालजनकसंवादसमाप्तिनिरूपणं नाम पञ्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४५॥ adhyAya numbering is different with gautamI mAhAtmya with 105 adhyAyas are inserted from 70th adhyAya in the encoding. Compare with adhyAya 126-137 in the printed book https://archive.org/details/BrahmaPurana are given as 234-245 above.