अक्षर आकार:

विचख्नुगीता

vichakhnugItA

विचख्नुगीता

अध्यायः २५७ भी अत्राप्युदाहरन्तीममितिहासं पुरातनम् । प्रजानामनुकम्पार्थं गीतं राज्ञा विचख्नुना ॥ १॥ छिन्नस्थूनं वृषं दृष्ट्वा विरावं च गवां भृशम् । गोग्रहे यज्ञवातस्य प्रेक्षमाणः स पार्थिवः ॥ २॥ स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम् । हिंसायां हि प्रवृत्तायामाशीरेषानुकल्पिता ॥ ३॥ अव्यवस्थित मर्यादैर्विमूढैर्नास्तिकैर्नरैः । संशयात्मभिरव्यक्तैर्हिंसा समनुकीर्तिता ॥ ४॥ सर्वकर्म स्वहिंसा हि धर्मात्मा मनुरब्रवीत् । कामरागाद्विहिंसन्ति बहिर्वेद्यां पशून्नराः ॥ ५॥ तस्मात्प्रमानतः कार्यो धर्मः सूक्ष्मो विजानता । अहिंसैव हि सर्वेभ्यो धर्मेभ्यो ज्यायसी मता ॥ ६॥ उपोष्य संशितो भूत्वा हित्वा वेद कृताः श्रुतीः । आचार इत्यनाचाराः कृपणाः फलहेतवः ॥ ७॥ यदि यज्ञांश्च वृक्षांश्च यूपांश्चोद्धिश्य मानवाः । वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते ॥ ८॥ मांसं मधु सुरा मत्स्या आसवं कृसरौदनम् । धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम् ॥ ९॥ कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम् । विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः । पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् ॥ १०॥ यज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः । यच्चापि किं चित्कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम् । महासत्त्वैः शुद्धभावैः सर्वं देवार्हमेव तत् ॥ ११॥ य् शरीरमापदश्चापि विवदन्त्यविहिंसतः । कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति ॥ १२॥ भी यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा । तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् ॥ १३॥ ॥ इति विचख्नुगीता समाप्ता ॥ Adhyaya number 257 in shAntiparva, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition it is 265.