अक्षर आकार:

विभीषणगीता अध्यात्मरामायणे

Vibhishanagita from Adhyatmaramayana

विभीषणगीता अध्यात्मरामायणे

रामस्य वचनं श्रुत्वा सुग्रीवो हृष्टमानसः । विभीषणमथानाय्य दर्शयामास राघवम् ॥ १३॥ विभीषणस्तु साष्टाङ्गं प्रणिपत्य रघूत्तमम् । हर्षगद्गदया वाचा भक्त्या च परयान्वितः ॥ १४॥ रामं श्यामं विशालाक्षं प्रसन्नमुखपङ्कजम् । धनुर्बाणधरं शान्तं लक्ष्मणेन समन्वितम् ॥ १५॥ कृताञ्जलिपुटो भूत्वा स्तोतुं समुपचक्रमे ॥ १६ ॥ विभीषण उवाच । नमस्ते राम राजेन्द्र नमः सीतामनोरम । नमस्ते चण्डकोदण्ड नमस्ते भक्तवत्सल ॥ १७॥ नमोऽनन्ताय शान्ताय रामायामिततेजसे । सुग्रीवमित्राय च ते रघूणां पतये नमः ॥ १८॥ जगदुत्पत्तिनाशानां कारणाय महात्मने । त्रैलोक्यगुरवेऽनादिगृहस्थाय नमो नमः ॥ १९॥ त्वमादिर्जगतां राम त्वमेव स्थितिकारणम् । त्वमन्ते निधनस्थानं स्वेच्छाचारस्त्वमेव हि ॥ २०॥ चराचराणां भूतानां बहिरन्तश्च राघव । व्याप्यव्यापकरूपेण भवान् भाति जगन्मयः ॥ २१॥ त्वन्मायया हृतज्ञाना नष्टात्मानो विचेतसः । गतागतं प्रपद्यन्ते पापपुण्यवशात् सदा ॥ २२॥ तावत्सत्यं जगद्भाति शुक्तिकारजतं यथा यावन्न ज्ञायते ज्ञानं चेतसानन्यगामिना ॥ २३॥ त्वदज्ञानात् सदा युक्ताः पुत्रदारगृहादिषु । रमन्ते विषयान् सर्वानन्ते दुःखप्रदान् विभो। । २४ ॥ त्वमिन्द्रोऽग्निर्यमो रक्षो वरुणश्च तथानिलः । कुबेरश्च तथा रुद्रस्त्वमेव पुरुषोत्तम ॥ २५॥ त्वमणोरप्यणीयांश्च स्थूलात् स्थूलतरः प्रभो । त्वं पिता सर्वलोकानां माता धाता त्वमेव हि ॥ २६॥ आदिमध्यान्तरहितः परिपूर्णोऽच्युतोऽव्ययः । त्वं पाणिपादरहितश्चक्षुःश्रोत्रविवर्जितः ॥ २७॥ श्रोता द्रष्टा ग्रहीता च जवनस्त्वं खरान्तक । कोशेभ्यो व्यतिरिक्तस्त्वं निर्गुणो निरुपाश्रयः ॥ २८॥ निर्विकल्पो निर्विकारो निराकारो निरीश्वरः । षड्भावरहितोऽनादिः पुरुषः प्रकृते परः ॥ २९॥ मायया गृह्यमाणस्त्वं मनुष्य इव भाव्यसे । ज्ञात्वा त्वां निर्गुणमजं वैष्णवा मोक्षगामिनः ॥ ३० ॥ अहं त्वत्पादसद्भक्तिनिःश्रेणीं प्राप्य राघव । इच्छामि ज्ञानयोगाख्यं सौधमारोढुमीश्वर ॥ ३१ ॥ नमः सीतापते राम नमः कारुणिकोत्तम । रावणारे नमस्तुभ्यं त्राहि मां भवसागरात् ॥ ३२॥ ततः प्रसन्नः प्रोवाच श्रीरामो भक्तवत्सलः । वरं वृणीष्व भद्रं ते वाञ्छितं वरदोऽस्म्यहम् ॥ ३३ ॥ विभीषण उवाच । धन्योऽस्मि कृतकृत्योऽस्मि कृतकार्योऽस्मि राघव । त्वत्पाददर्शनादेव विमुक्तोऽस्मि न संशयः ॥ ३४॥ नास्ति मत्सदृशो धन्यो नास्ति मत्सदृशः शुचिः । नास्ति मत्सदृशो लोके राम त्वन्मूर्तिदर्शनात् ॥ ३५॥ कर्मबन्धविनाशाय त्वज्ज्ञानं भक्तिलक्षणम् । त्वद्ध्यानं परमार्थं च देहि मे रघुनन्दन ॥ ३६॥ न याचे राम राजेन्द्र सुखं विषयसंभवम् । त्वत्पादकमले सक्ता भक्तिरेव सदास्तु मे ॥ ३७॥ Vibhishanagita – from Adhyatmaramayana Yuddha Kanda – 3rd Sarga – Slokas 13 to 37