अक्षर आकार:

वैष्णवगीता

vaiShNavagItA

वैष्णवगीता

अम्बरीष उवाच -- केनोपायेन देवर्षे भवबन्धाद्विमुच्यते । तद्वदस्व महाभाग यद्यस्ति मय्यनुग्रहः॥ १॥ नारद उवाच -- साधु पृष्टं महाभाग सर्वधर्मभृतां वर । वक्ष्यामि तव राजेन्द्र श‍ृणुष्वावहितो मम ॥ २॥ कैवल्यदायिनी गीता श्रीवैष्णवगीताभिधा । श‍ृणुष्व परया भक्त्या भवबन्धविमुक्तये ॥ ३॥ वैष्णवानां गतिर्यत्र पादस्पर्शश्च यत्र वै । तत्र सर्वाणि तीर्थानि तिष्ठन्ति नृपसत्तम ॥ ४॥ आलापं गात्रसंस्पर्शं पादाभिवन्दनं तथा । वाञ्छन्ति सर्वतीर्थानि वैष्णवानां सदैव हि ॥ ५॥ विष्णुमन्त्रोपासकानां शुद्धं पादोदकं शुभम् । पुनाति सर्वतीर्थानि वसुधामपि भूपते ॥ ६॥ निपीडितोऽहं श्रान्तोऽहम् दाघसंसारवर्त्मनि । येन भूयो न गच्छामि तत् कुरुष्व श्रीवैष्णव ॥ ७॥ दीनं च भक्तिहीनं च आधिव्याधिनिपीडितम् । अनाश्रयमनाथं च त्राहि मां कृपया प्रभो ॥ ८॥ गतिर्नास्ति गतिर्नास्ति सत्यं श्रीवैष्णवं विना । तत्पादरजसा पूतं त्रैलोक्यं सचराचरम् ॥ ९॥ कथितं तव राजेन्द्र रहस्यं परमाद्भुतम् । अभक्ताय न दातव्यं दत्ते तु नारका भवेत् ॥ १०॥ इति श्रीवैष्णवगीता समाप्ता ॥