वामदेवगीता
अध्यायः ९३ कथं धर्मे स्थातुमिच्छन्राजा वर्तेत धार्मिकः । पृच्छामि त्वा कुरुश्रेष्ठ तन्मे ब्रूहि पिता मह ॥ १॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता ॥ २॥ राजा वसु मना नाम कौसल्यो बलवाञ्शुचिः । महर्षिं परिपप्रच्छ वामदेवं यशो विनम् ॥ ३॥ धर्मार्थसहितं वाक्यं भगवन्ननुशाधि माम् । येन वृत्तेन वै तिष्ठन्न च्यवेयं स्वधर्मतः ॥ ४॥ तमब्रवीद्वामदेवस्तपस्वी जपतां वरः । हेमवर्णमुपासीनं ययातिमिव नाहुषम् ॥ ५॥ धर्ममेवानुवर्तस्व न धर्माद्विद्यते परम् । धर्मे स्थिता हि राजानो जयन्ति पृथिवीमिमाम् ॥ ६॥ अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः । ऋतां च कुरुते बुद्धिं स धर्मेण विरोचते ॥ ७॥ अधर्मदर्शी यो राजा बलादेव प्रवर्तते । क्षिप्रमेवापयातोऽस्मादुभौ प्रथममध्यमौ ॥ ८॥ असत्पापिष्ठ सचिवो वध्यो लोकस्य धर्महा । सहैव परिवारेण क्षिप्रमेवावसीदति ॥ ९॥ अर्थानामननुष्ठाता कामचारी विकत्थनः । अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति ॥ १०॥ अथाददानः कल्याणमनसूयुर्जितेन्द्रियः । वर्धते मतिमान्राजा स्रोतोभिरिव सागरः ॥ ११॥ न पूर्णोऽस्मीति मन्येत धर्मतः कामतोऽर्थतः । बुद्धितो मित्र तश्चापि सततं वसुधाधिपः ॥ १२॥ एतेष्वेव हि सर्वेषु लोकयात्रा प्रतिष्ठिता । एतानि शृण्वँल्लभते यशः कीर्तिं श्रियः प्रजाः ॥ १३॥ एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः । अर्थान्समीक्ष्यारभते स ध्रुवं महदश्नुते ॥ १४॥ अदाता ह्यनति स्नेहो दण्डेनावर्तयन्प्रजाः । साहस प्रकृतीराजा क्षिप्रमेव विनश्यति ॥ १५॥ अथ पापं कृतं बुद्ध्या न च पश्यत्यबुद्धि मान् । अकीर्त्यापि समायुक्तो मृतो नरकमश्नुते ॥ १६॥ अथ मानयितुर्दातुः शुक्लस्य रसवेदिनः । व्यसनं स्वमिवोत्पन्नं विजिघांसन्ति मानवाः ॥ १७॥ यस्य नास्ति गुरुर्धर्मे न चान्याननुपृच्छति । सुखतन्त्रोऽर्थलाभेषु नचिरं महदश्नुते ॥ १८॥ गुरु प्रधानो धर्मेषु स्वयमर्थान्ववेक्षिता । धर्मप्रधानो लोकेषु सुचिरं महदश्नुते ॥ १९॥अध्यायः ९४ यत्राधर्मं प्रणयते दुर्बले बलवत्तरः । तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः ॥ १॥ राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम् । अविनीत मनुष्यं तत्क्षिप्रं राष्ट्रं विनश्यति ॥ २॥ यद्वृत्तिमुपजीवन्ति प्रकृतिस्थस्य मानवाः । तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते ॥ ३॥ साहस प्रकृतिर्यत्र कुरुते किं चिदुल्बणम् । अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति ॥ ४॥ योऽत्यन्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते । जितानामजितानां च क्षत्रधर्मादपैति सः ॥ ५॥ द्विषन्तं कृतकर्माणं गृहीत्वा नृपती रणे । यो न मानयते द्वेषात्क्षत्रधर्मादपैति सः ॥ ६॥ शक्तः स्यात्सुमुखो राजा कुर्यात्कारुण्यमापदि । प्रियो भवति भूतानां न च विभ्रश्यते श्रियः ॥ ७॥ अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत् । नचिरेण प्रियः स स्याद्योऽप्रियः प्रियमाचरेत् ॥ ८॥ मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः । न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ॥ ९॥ नापत्रपेत प्रश्नेषु नाभिभव्यां गिरं सृजेत् । न त्वरेत न चासूयेत्तथा सङ्गृह्यते परः ॥ १०॥ प्रिये नातिभृशं हृष्येदप्रिये न च सञ्ज्वरेत् । न मुह्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन् ॥ ११॥ यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः । तस्य कर्माणि सिध्यन्ति न च सन्त्यज्यते श्रिया ॥ १२॥ निवृत्तं प्रतिकूलेभ्यो वर्तमानमनुप्रिये । भक्तं भजेत नृपतिस्तद्वै वृत्तं सताम् इह ॥ १३॥ अप्रकीर्णेन्द्रियं प्राज्ञमत्यन्तानुगतं शुचिम् । शक्तं चैवानुरक्तं च युञ्ज्यान्महति कर्मणि ॥ १४॥ एवमेव गुणैर्युक्तो यो न रज्यति भूमिपम् । भर्तुरर्थेष्वसूयन्तं न तं युञ्जीत कर्मणि ॥ १५॥ मूढमैन्द्रियकं लुब्धमनार्य चरितं शठम् । अनतीतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम् ॥ १६॥ त्यक्तोपात्तं मद्य रतं द्यूतस्त्री मृगया परम् । कार्ये महति यो युञ्ज्याद्धीयते स नृपः श्रियः ॥ १७॥ रक्षितात्मा तु यो राजा रक्ष्यान्यश्चानुरक्षति । प्रजाश्च तस्य वर्धन्ते ध्रुवं च महदश्नुते ॥ १८॥ ये के चिद्भूमिपतयस्तान्सर्वानन्ववेक्षयेत् । सुहृद्भिरनभिख्यातैस्तेन राजा न रिष्यते ॥ १९॥ अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत् । श्येनानुचरितैर्ह्येते निपतन्ति प्रमाद्यतः ॥ २०॥ दृढमूलस्त्वदुष्टात्मा विदित्वा बलमात्मनः । अबलानभियुञ्जीत न तु ये बलवत्तराः ॥ २१॥ विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयन् । आहवे निधनं कुर्याद्राजा धर्मपरायणः ॥ २२॥ मरणान्तमिदं सर्वं नेह किं चिदनामयम् । तस्माद्धर्मे स्थितो राजा प्रजा धर्मेण पालयेत् ॥ २३॥ रक्षाधिकरणं युद्धं तथा धर्मानुशासनम् । मन्त्रचिन्त्यं सुखं काले पञ्चभिर्वर्धते मही ॥ २४॥ एतानि यस्य गुप्तानि स राजा राजसत्तम । सततं वर्तमानोऽत्र राजा भुङ्क्ते महीमिमाम् ॥ २५॥ नैतान्येकेन शक्यानि सातत्येनान्ववेक्षितुम् । एतेष्वाप्तान्प्रतिष्ठाप्य राजा भुङ्क्ते महीं चिरम् ॥ २६॥ दातारं संविभक्तारं मार्दवोपगतं शुचिम् । असन्त्यक्त मनुष्यं च तं जनाः कुर्वते प्रियम् ॥ २७॥ यस्तु निःश्रेयसं ज्ञात्वा ज्ञानं तत्प्रतिपद्यते । आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते ॥ २८॥ योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते । शृणोति प्रतिकूलानि वि मना नचिरादिव ॥ २९॥ अग्राम्यचरितां बुद्धिमत्यन्तं यो न बुध्यते । जितानामजितानां च क्षत्रधर्मादपैति सः ॥ ३०॥ मुख्यानमात्यान्यो हित्वा निहीनान्कुरुते प्रियान् । स वै व्यसनमासाद्य गाध मार्तो न विन्दति ॥ ३१॥ यः कल्याण गुणाञ्ज्ञातीन्द्वेषान्नैवाभिमन्यते । अदृढात्मा दृढक्रोधो नास्यार्थो रमतेऽन्तिके ॥ ३२॥ अथ यो गुणसम्पन्नान्हृदयस्याप्रियानपि । प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति ॥ ३३॥ नाकाले प्रणयेदर्थान्नाप्रिये जातु सञ्ज्वरेत् । प्रिये नातिभृशं हृष्येद्युज्येतारोग्य कर्मणि ॥ ३४॥ के मानुरक्ता राजानः के भयात्समुपाश्रिताः । मध्यस्थ दोषाः के चैषामिति नित्यं विचिन्तयेत् ॥ ३५॥ न जातु बलवान्भूत्वा दुर्बले विश्वसेत्क्व चित् । भारुण्ड सदृशा ह्येते निपतन्ति प्रमाद्यतः ॥ ३६॥ अपि सर्वैर्गुणैर्युक्तं भर्तारं प्रियवादिनम् । अभिद्रुह्यति पापात्मा तस्माद्धि विभिषेज्जनात् ॥ ३७॥ एतां राजोपनिषदं ययातिः स्माह नाहुषः । मनुष्यविजये युक्तो हन्ति शत्रूननुत्तमान् ॥ ३८॥
अध्यायः ९५ अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपः । जघन्यमाहुर्विजयं यो युद्धेन नराधिप ॥ १॥ न चाप्यलब्धं लिप्सेत मूले नातिदृढे सति । न हि दुर्बलमूलस्य राज्ञो लाभो विधीयते ॥ २॥ यस्य स्फीतो जनपदः सम्पन्नः प्रिय राजकः । सन्तुष्टपुष्टसचिवो दृढमूलः स पार्थिवः ॥ ३॥ यस्य योधाः सुसन्तुष्टाः सान्त्विताः सूपधास्थिताः । अल्पेनापि स दण्डेन महीं जयति भूमिपः ॥ ४॥ पौरजानपदा यस्य स्वनुरक्ताः सुपूजिताः । सधना धान्यवन्तश्च दृढमूलः स पार्थिवः ॥ ५॥ प्रभावकालावधिकौ यदा मन्येत चात्मनः । तदा लिप्सेत मेधा वी परभूमिं धनान्युत ॥ ६॥ भोगेष्वदयमानस्य भूतेषु च दया वतः । वर्धते त्वरमाणस्य विषयो रक्षितात्मनः ॥ ७॥ तक्षत्यात्मानमेवैष वनं परशुना यथा । यः सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते ॥ ८॥ न वै द्विषन्तः क्षीयन्ते राज्ञो नित्यमपि घ्नतः । क्रोधं नियन्तुं यो वेद तस्य द्वेष्टा न विद्यते ॥ ९॥ यदार्य जनविद्विष्टं कर्म तन्नाचरेद्बुधः । यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ॥ १०॥ नैनमन्येऽवजानन्ति नात्मना परितप्यते । कृत्यशेषेण यो राजा सुखान्यनुबुभूषति ॥ ११॥ इदं वृत्तं मनुष्येषु वर्तते यो महीपतिः । उभौ लोकौ विनिर्जित्य विजये सम्प्रतिष्ठते ॥ १२॥ इत्युक्तो वामदेवेन सर्वं तत्कृतवान्नृपः । तथा कुर्वंस्त्वमप्येतौ लोकौ जेता न संशयः ॥ १३॥ ॥ इति वामदेवगीता समाप्ता ॥ Adhyaya numbers 93-95 in shAntiparva, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition they are 92-94.