वृत्रगीता
अध्यायः २७० य् धन्या धन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युत । न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह ॥ १॥ लोकसम्भावितैर्दुःखं यत्प्राप्तं कुरुसत्तम । प्राप्य जातिं मनुष्येषु देवैरपि पितामह ॥ २॥ कदा वयं करिष्यामः संन्यासं दुःखसञ्ज्ञकम् । दुःखमेतच्छरीराणां धारणं कुरुसत्तम ॥ ३॥ विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः । इन्द्रियार्थैर्गुणैश्चैव अस्ताभिः प्रपितामह ॥ ४॥ न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः । कदा वयं भविष्यामो राज्यं हित्वा परन्तप ॥ ५॥ भी नास्त्यनन्तं महाराज सर्वं सङ्ख्यान गोचरम् । पुनर्भावोऽपि सङ्ख्यातो नास्ति किं चिदिहाचलम् ॥ ६॥ न चापि गम्यते राजन्नैष दोषः प्रसङ्गतः । उद्योगादेव धर्मज्ञ कालेनैव गमिष्यथ ॥ ७॥ ईशोऽयं सततं देही नृपते पुण्यपापयोः । तत एव समुत्थेन तमसा रुध्यतेऽपि च ॥ ८॥ यथाञ्जन मयो वायुः पुनर्मानः शिलं रजः । अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन्दिशः ॥ ९॥ तथा कर्मफलैर्देही रञ्जितस्तमसावृतः । विवर्णो वर्ममाश्रित्य देहेषु परिवर्तते ॥ १०॥ ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः । व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम् ॥ ११॥ अयत्न साध्यं मुनयो वदन्ति ये चापि मुक्तास्त उपासितव्याः । त्वया च लोकेन च सामरेण तस्मान्न शाम्यन्ति महर्षिसङ्घाः ॥ १२॥ अस्मिन्नर्थे पुरा गीतं शृणुष्वैक मना नृप । यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम् ॥ १३॥ निर्जितेनासहायेन हृतराज्येन भारत । अशोचता शत्रुमध्ये बुद्धिमास्थाय केवलाम् ॥ १४॥ भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमब्रवीत् । कच्चित्पराजितस्याद्य न व्यथा तेऽस्ति दानव ॥ १५॥ व्र्त्र सत्येन तपसा चैव विदित्वा सङ्क्षयं ह्यहम् । न शोचामि न हृष्यामि भूतानामागतिं गतिम् ॥ १६॥ कालसञ्चोदिता जीवा मज्जन्ति नरकेऽवशाः । परिदृष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः ॥ १७॥ क्षपयित्वा तु तं कालं गणितं कालचोदिताः । सावशेषेण कालेन सम्भवन्ति पुनः पुनः ॥ १८॥ तिर्यग्योनिसहस्राणि गत्वा नरकमेव च । निर्गच्छन्त्यवशा जीवाः कालबन्धन बन्धनाः ॥ १९॥ एवं संसरमाणानि जीवान्यहमदृष्टवान् । यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम् ॥ २०॥ तिर्यग्गच्छन्ति नरकं मानुष्यं दैवमेव च । सुखदुःखे प्रियद्वेष्ये चरित्वा पूर्वमेव च ॥ २१॥ कृतान्तविधिसंयुक्तं सर्वलोकः प्रपद्यते । गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा ॥ २२॥ भी कालसङ्ख्यान सङ्ख्यातं सृष्टि स्थिति परायनम् । तं भासमानं भगवानुशनाः प्रत्यभासत । भीमान्दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाससे ॥ २३॥ व्र्त्र प्रत्यक्षमेतद्भवतस्तथान्येषां मनीसिनाम् । मया यज्जय लुब्धेन पुरा तप्तं महत्तपः ॥ २४॥ गन्धानादाय भूतानां रसांश्च विविधानपि । अवर्धं त्रीन्समाक्रम्य लोकान्वै स्वेन तेजसा ॥ २५॥ ज्वालामाला परिक्षिप्तो वैहायसचरस्तथा । अजेयः सर्वभूतानामासं नित्यमपेतभीः ॥ २६॥ ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः । धृतिमास्थाय भगवन्न शोचामि ततस्त्वहम् ॥ २७॥ युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना । ततो मे भगवान्दृष्टो हरिर्नारायणः प्रभुः ॥ २८॥ वैकुण्ठः पुरुषो विष्णुः शुक्लोऽनन्तः सनातनः । मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः ॥ २९॥ नूनं तु तस्य तपसः सावशेषं ममास्ति वै । यदहं प्रस्तुमिच्छामि भवन्तं कर्मणः फलम् ॥ ३०॥ ऐश्वर्यं वै महद्ब्रह्मन्कस्मिन्वर्णे प्रतिष्ठितम् । निवर्तते चापि पुनः कथमैश्वर्यमुत्तमम् ॥ ३१॥ कस्माद्भूतानि जीवन्ति प्रवर्तन्तेऽथ वा पुनः । किं वा फलं परं प्राप्य जीवस्तिष्ठति शाश्वतः ॥ ३२॥ केन वा कर्मणा शक्यमथ ज्ञानेन केन वा । ब्रह्मर्षे तत्फलं प्राप्तुं तन्मे व्याख्यातुमर्हसि ॥ ३३॥ इतीदमुक्तः स मुनिस्तदानीं प्रत्याह यत्तच्छृणु राजसिंह । मयोच्यमानं पुरुषर्षभ त्वम् अनन्यचित्तः सह सोदरीयैः ॥ ३४॥अध्यायः २७१ उशनस् नमस्तस्मै भगवते देवाय प्रभविष्णवे । यस्य पृथ्वी तलं तात साकाशं बाहुगोचरम् ॥ १॥ मूर्धा यस्य त्वनन्तं च स्थानं दानव सत्तम । तस्याहं ते प्रवक्ष्यामि विष्णोर्माहात्म्यमुत्तमम् ॥ २॥ भी तयोः संवदतोरेवमाजगाम महामुनिः । सनत्कुमारो धर्मात्मा संशय छेदनाय वै ॥ ३॥ स पूजितोऽसुरेन्द्रेण मुनिनोशनसा तथा । निषसादासने राजन्महार्हे मुनिपुङ्गवः ॥ ४॥ तमासीनं महाप्राज्ञमुशना वाक्यमब्रवीत् । ब्रूह्यस्मै दानवेन्द्राय विन्सोर्माहात्म्यमुत्तमम् ॥ ५॥ सनत्कुमारस्तु ततः श्रुत्वा प्राह वचोऽर्थवत् । विष्णोर्माहात्म्य संयुक्तं दानवेन्द्राय धीमते ॥ ६॥ शृणु सर्वमिदं दैत्य विन्सोर्माहात्म्यमुत्तमम् । विष्णौ जगत्स्थितं सर्वमिति विद्धि परन्तप ॥ ७॥ सृजत्येष महाबाहो भूतग्रामं चराचरम् । एष चाक्षिपते काले काले विसृजते पुनः । अस्मिन्गच्छन्ति विलयमस्माच्च प्रभवन्त्युत ॥ ८॥ नैष दानवता शक्यस्तपसा नैव चेज्यया । सम्प्राप्तुमिन्द्रियाणां तु संयमेनैव शक्यते ॥ ९॥ बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितः । निर्मली कुरुते बुद्ध्या सोऽमुत्रानन्त्यमश्नुते ॥ १०॥ यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत् । बहुशोऽतिप्रयत्नेन महतात्म कृतेन ह ॥ ११॥ तद्वज्जातिशतैर्जीवः शुध्यतेऽल्पेन कर्मणा । यत्नेन महता चैवाप्येकजातौ विशुध्यते ॥ १२॥ लीलयाल्पं यथा गात्रात्प्रमृज्यादात्मनो रजः । बहु यत्नेन महता दोषनिर्हरनं तथा ॥ १३॥ यथा चाल्पेन माल्येन वासितं तिलसर्षपम् । न मुञ्चति स्वकं गन्धं तद्वत्सूक्ष्मस्य दर्शनम् ॥ १४॥ तदेव बहुभिर्माल्यैर्वास्यमानं पुनः पुनः । विमुञ्चति स्वकं गन्धं माल्यगन्धेऽवतिष्ठति ॥ १५॥ एवं जातिशतैर्युक्तो गुणैरेव प्रसङ्गिषु । बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन वै ॥ १६॥ कर्मणा स्वेन रक्तानि विरक्तानि च दानव । यथा कर्मविशेषांश्च प्राप्नुवन्ति तथा शृणु ॥ १७॥ यथा च सम्प्रवर्तन्ते यस्मिंस्तिष्ठन्ति वा विभो । तत्तेऽनुपूर्व्या व्याख्यास्ये तदिहैकमनाः शृणु ॥ १८॥ अनादि निधनं श्रीमान्हरिर्नारायणः प्रभुः । स वै सृजति भूतानि स्थावराणि चराणि च ॥ १९॥ एष सर्वेषु भूतेषु क्षरश्चाक्षर एव च । एकादश विकारात्मा जगत्पिबति रश्मिभिः ॥ २०॥ पादौ तस्य महीं विद्धि मूर्धानं दिवमेव च । बाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च ॥ २१॥ तस्य तेजोमयः सूर्यो मनश् चन्द्रमसि स्थितम् । बुद्धिर्ज्ञानगता नित्यं रसस्त्वाप्सु प्रवर्तते ॥ २२॥ भ्रुवोरनन्तरास्तस्य ग्रहा दानव सत्तम । नक्षत्रचक्रं नेत्राभ्यां पादयोर्भूश्च दानव ॥ २३॥ रजस्तमश्च सत्त्वं च विद्धि नारायणात्मकम् । सोऽऽश्रमाणां मुखं तात कर्मणस्तत्फलं विदुः ॥ २४॥ अकर्मणः फलं चैव स एव परमव्ययः । छन्दांसि तस्य रोमाणि अक्षरं च सरस्वती ॥ २५॥ बह्वाश्रयो बहु मुखो धर्मो हृदि समाश्रितः । स ब्रह्म परमो धर्मस्तपश्च सदसच्च सः ॥ २६॥ श्रुतिशास्त्रग्रहोपेतः षोडशर्त्विक्क्रतुश्च सः । पितामहश्च विष्णुश्च सोऽश्विनौ स पुरन्दरः ॥ २७॥ मित्रश्च वरुणश्चैव यमोऽथ धनदस्तथा । ते पृथग्दर्शनास्तस्य संविदन्ति तथैकताम् । एकस्य विद्धि देवस्य सर्वं जगदिदं वशे ॥ २८॥ नाना भूतस्य दैत्येन्द्र तस्यैकत्वं वदत्ययम् । जन्तुः पश्यति ज्ञानेन ततः सत्त्वं प्रकाशते ॥ २९॥ संहार विक्षेपसहस्रकोतीस् तिष्ठन्ति जीवाः प्रचरन्ति चान्ये । प्रजा विसर्गस्य च पारिमाण्यं वापी सहस्राणि बहूनि दैत्य ॥ ३०॥ वाप्यः पुनर्योजनविस्तृतास्ताः क्रोशं च गम्भीरतयावगाधाः । आयामतः पञ्चशताश्च सर्वाः प्रत्येकशो योजनतः प्रवृत्थाः ॥ ३१॥ वाप्या जलं क्षिप्यति वालकोत्या त्वह्ना सकृच्चाप्यथ न द्वितीयम् । तासां क्षये विद्धि कृतं विसर्गं संहारमेकं च तथा प्रजानाम् ॥ ३२॥ सो जीव वर्गाः परमं प्रमाणं कृष्णो धूम्रो नीलमथास्य मध्यम् । रक्तं पुनः सह्यतरं सुखं तु हारिद्र वर्णं सुसुखं च शुक्लम् ॥ ३३॥ परं तु शुक्लं विमलं विशोकं गतक्लमं सिध्यति दानवेन्द्र । गत्वा तु योनिप्रभवानि दैत्य सहस्रशः सिद्धिमुपैति जीवः ॥ ३४॥ गतिं च यां दर्शनमाह देवो गत्वा शुभं दर्शनमेव चाह । गतिः पुनर्वर्णकृता प्रजानां वर्णस्तथा कालकृतोऽसुरेन्द्र ॥ ३५॥ शतं सहस्राणि चतुर्दशेह परा गतिर्जीव गुणस्य दैत्य । आरोहणं तत्कृतमेव विद्धि स्थानं तथा निःसरणं च तेषाम् ॥ ३६॥ कृष्णस्य वर्णस्य गतिर्निकृष्टा स मज्जते नरके पच्यमानः । स्थानं तथा दुर्गतिभिस्तु तस्य प्रजा विसर्गान्सुबहून्वदन्ति ॥ ३७॥ शतं सहस्राणि ततश्चरित्वा प्राप्नोति वर्णं हरितं तु पश्चात् । स चैव तस्मिन्निवसत्यनीशो युगक्षये तमसा संवृतात्मा ॥ ३८॥ स वै यदा सत्त्वगुणेन युक्तस् तमो व्यपोहन्घतते स्वबुद्ध्या । स लोहितं वर्णमुपैति नीलो मनुष्यलोके परिवर्तते च ॥ ३९॥ स तत्र संहार विसर्गमेव स्वकर्मजैर्बन्धनैः क्लिश्यमानः । ततः स हारिद्रमुपैति वर्णं संहार विक्षेपशते व्यतीते ॥ ४०॥ हारिद्र वर्णस्तु प्रजा विसर्गान् सहस्रशस्तिष्ठति सञ्चरन्वै । अविप्रमुक्तो निरये च दैत्य ततः सहस्राणि दशापरानि ॥ ४१॥ गतीः सहस्राणि च पञ्च तस्य चत्वारि संवर्तकृतानि चैव । विमुक्तमेनं निरयाच्च विद्धि सर्वेषु चान्येषु च सम्भवेषु ॥ ४२॥ स देवलोके विहरत्यभीक्ष्णं ततश्च्युतो मानुषताम् उपैति । संहार विक्षेपशतानि चाष्टौ मर्त्येषु तिष्ठन्नमृतत्वमेति ॥ ४३॥ सोऽस्मादथ भ्रश्यति कालयोगात् कृष्णे तले तिष्ठति सर्वकस्ते । यथा त्वयं सिध्यति जीवलोकस् तत्तेऽभिधास्याम्यसुरप्रवीर ॥ ४४॥ दैवानि स व्यूह शतानि सप्त रक्तो हरिद्रोऽथ तथैव शुक्लः । संश्रित्य सन्धावति शुक्लमेतम् अस्तापरानर्च्यतमान्स लोकान् ॥ ४५॥ अष्टौ च षष्टिं च शतानि यानि मनो विरुद्धानि महाद्युतीनाम् । शुक्लस्य वर्णस्य परा गतिर्या त्रीण्येव रुद्धानि महानुभाव ॥ ४६॥ संहार विक्षेपमनिष्टमेकं चत्वारि चान्यानि वसत्यनीशः । सस्थस्य वर्णस्य परा गतिर्या सिद्धा विशिष्टस्य गतक्लमस्य ॥ ४७॥ सप्तोत्तरं तेषु वसत्यनीशः संहार विक्षेपशतं सशेषम् । तस्मादुपावृत्य मनुष्यलोके ततो महान्मानुषताम् उपैति ॥ ४८॥ तस्मादुपावृत्य ततः क्रमेण सोऽग्रे स्म सन्तिष्ठति भूतसर्गम् । स सप्तकृत्वश्च परैति लोकान् संहार विक्षेपकृतप्रवासः ॥ ४९॥ सप्तैव संहारमुपप्लवानि सम्भाव्य सन्तिष्ठति सिद्धलोके । ततोऽव्ययं स्थानमनन्तमेति देवस्य विष्णोरथ ब्रह्मणश् च । शेषस्य चैवाथ नरस्य चैव देवस्य विष्णोः परमस्य चैव ॥ ५०॥ संहार काले परिदग्ध काया ब्रह्माणमायान्ति सदा प्रजा हि । चेष्टात्मनो देवगणाश् च सर्वे ये ब्रह्मलोकादमराः स्म तेऽपि ॥ ५१॥ प्रजा विसर्गं तु सशेषकालं स्थानानि स्वान्येव सरन्ति जीवाः । निःशेषाणां तत्पदं यान्ति चान्ते सर्वापदा ये सदृशा मनुष्याः ॥ ५२॥ ये तु च्युताः सिद्धलोकात्क्रमेण तेषां गतिं यान्ति तथानुपूर्व्या । जीवाः परे तद्बलवेषरूपा विधिं स्वकं यान्ति विपर्ययेन ॥ ५३॥ स यावदेवास्ति सशेषभुक्ते प्रजाश्च देवौ च तथैव शुक्ले । तावत्तदा तेषु विशुद्धभावः संयम्य पञ्चेन्द्रिय रूपमेतत् ॥ ५४॥ शुद्धां गतिं तां परमां परैति शुद्धेन नित्यं मनसा विचिन्वन् । ततोऽव्ययं स्थानुमुपैति ब्रह्म दुष्प्रापमभ्येति स शाश्वतं वै । इत्येतदाख्यातमहीनसत्त्व नारायणस्येह बलं मया ते ॥ ५५॥ व्र्त्र एवङ्गते मे न विषादोऽस्ति कश् चित् सम्यक्च पश्यामि वचस्तवैतत् । श्रुत्वा च ते वाचमदीनसत्त्व विकल्मषोऽस्म्यद्य तथा विपाप्मा ॥ ५६॥ प्रवृत्तमेतद्भगवन्महर्षे महाद्युतेश्चक्रमनन्व वीर्यम् । विष्णोरनन्तस्य सनातनं तत् स्थानं सर्गा यत्र सर्वे प्रवृत्ताः । स वै महात्मा पुरुषोत्तमो वै तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितम् ॥ ५७॥ भी एवमुक्त्वा स कौन्तेय वृत्रः प्रानानवासृजत् । योजयित्वा तथात्मानं परं स्थानमवाप्तवान् ॥ ५८॥ य् अयं स भगवान्देवः पितामह जनार्दनः । सनत्कुमारो वृत्राय यत्तदाख्यातवान्पुरा ॥ ५९॥ भी मूलस्थायी स भगवान्स्वेनानन्तेन तेजसा । तत्स्थः सृजति तान्भावान्नानारूपान्महातपः ॥ ६०॥ तुरीयार्धेन तस्येमं विद्धि केशवमच्युतम् । तुरीयार्धेन लोकांस्त्रीन्भावयत्येष बुद्धिमान् ॥ ६१॥ अर्वाक्स्थितस्तु यः स्थायी कल्पान्ते परिवर्तते । स शेते भगवानप्सु योऽसावतिबलः प्रभुः । तान्विधाता प्रसन्नात्मा लोकांश्चरति शाश्वतान् ॥ ६२॥ सर्वाण्यशून्यानि करोत्यनन्तः सनत्कुमारः सञ्चरते च लोकान् । स चानिरुद्धः सृजते महात्मा तत्स्थं जगत्सर्वमिदं विचित्रम् ॥ ६३॥ य् वृत्रेण परमार्थज्ञ दृष्टा मन्येऽऽत्मनो गतिः । शुभा तस्मात्स सुखितो न शोचति पितामह ॥ ६४॥ शुक्लः शुक्लाभिजातीयः साध्यो नावर्ततेऽनघ । तिर्यग्गतेश्च निर्मुक्तो निरयाच्च पितामह ॥ ६५॥ हारिद्र वर्णे रक्ते वा वर्तमानस्तु पार्थिव । तिर्यगेवानुपश्येत कर्मभिस्तामसैर्वृतः ॥ ६६॥ वयं तु भृशमापन्ना रक्ताः कस्त मुखेऽसुखे । कां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमाम् अथ ॥ ६७॥ भी शुद्धाभिजनसम्पन्नाः पाण्डवाः संशितव्रताः । विहृत्य देवलोकेषु पुनर्मानुष्यमेष्यथ ॥ ६८॥ प्रजा विसर्गं च सुखेन काले प्रत्येत्य देवेषु सुखानि भुक्त्वा । सुखेन संयास्यथ सिद्धसङ्ख्यां मा वो भयं भूद्विमलाः स्थ सर्वे ॥ ६९॥ ॥ इति वृत्रगीता समाप्ता ॥ Adhyaya numbers 269-270 in shAntiparva, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition they are 279-280.