अक्षर आकार:

श्रीवानरगीता श्रीपराशरसंहितायां

Shrivanaragita from ParasharasamhitA

श्रीवानरगीता श्रीपराशरसंहितायां

श्रीपराशर उवाच श‍ृणु मैत्रेय विप्रर्षे स्तोत्रं श्रीहनुमत्परम् । कृतं सर्ववानरैश्च श्रीवानरगीताभिदम् ॥ स्तोत्रं सर्वोत्तमं चैव हनुमत्तत्त्वदर्शनम् । सर्वमायहरं चैव आधिव्याधिविनाशनम् ॥ अगस्त्येन पुरा प्रोक्तं सर्वेषां मुनिसन्निधौ । इन्द्रेण याचितं चैतत् लोकोपकरणेच्छया ॥ इन्द्रोऽथ परिपप्रच्छ सत्कृतं मुनिपुङ्गवम् । अगस्त्यं च महात्मानं आसीनं च सुखासने ॥ देवदेव भवांभोधेः दुस्तरात्कलुषेन्द्रियाः । जनाः कथं तरन्तीह तन्मे वद कृपानिधे ॥ श्री अगस्त्य उवाच हनूमन्तं कृतस्तोत्रं वानरैर्विमलात्मभिः । पठन्ति ये सदा मर्त्याः तच्चित्तविमलात्मकाः ॥ तरन्ति भवपादोधिं प्राप्नुवन्ति हरेः पदम् । आयुः कीर्तिर्यशश्चैव लभन्ते नात्र संशयः ॥ ॐ अस्य श्रीवानरगीतास्तोत्रमन्त्रस्य - अगस्त्य ऋषिः जगती छन्दः - श्रीहनुमान् देवता - मारुतात्मज इति बीजम् - अञ्जनासूनुरिति शक्तिः - वायुपुत्र इति कीलकम् - श्रीहनुमत्प्रसादसिध्यर्थे विनियोगः ॥ ध्यानम् । वामे जानुनि वामजानुमपरं ज्ञानाख्यमुद्रान्वितं हृद्देशे कलयन्नुतो मुनिगणैराध्यात्मदक्षेक्षणः । आसीनः कदलीवने मणिमये बालार्ककोटिप्रभः ध्यायन् ब्रह्म परं करोतु मनसा शुद्धिं हनूमान् मम ॥ संजीव पर्वतोद्धार मोनोदुःखं निवारय । प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ॥ श्रीसुग्रीव उवाच सुवर्णशैलस्य गवां च कोटिशतस्य कोटेश्च शतस्य यत्फलम् । दानस्य नैवास्ति समं फलं च ध्रुवं च तन्मारुतिदर्शनेन ॥ १॥ श्रीगन्धमादनः हनुमन्निति मे स्नानं हनुमन्निति मे जपः । हनुमन्निति मे ध्यानं हनुमत्कीर्तनं सदा ॥ २॥ श्रीसुषेण उवाच रामभक्तचरिताकथामृतं वायुतनयगुणानुकीर्तनम् । रामदास तव पादसेवनं संभवन्तु मम जन्मजन्मनि ॥ ३॥ श्री अङ्गद उवाच माता सुवर्चलादेवी पिता मे वायुनन्दनः । बान्धवा हनुमद्भक्ताः स्वदेशं भुवनत्रयम् ॥ ४॥ श्रीनील उवाच भक्तकल्पतरुं सौम्यं लोकोत्तरगुणाकरम् । सुवर्चलापतिं वन्दे मारुतिं वरदं सदा ॥ ५॥ श्रीगवाक्ष उवाच वायुपुत्रेण महता यद्यदुक्तं करोमि तत् । न जानामि ततो धर्मं मद्धर्मं रक्ष मां सदा ॥ ६॥ श्रीमैन्द उवाच समीरसूते सततं त्वदाज्ञया त्वदंशकः प्रेरितमानसेन्द्रियः । करोम्यहं यच्च शुभाशुभं प्रभो त्वत्प्रीतये मत्कृतमस्तु तत्सदा ॥ ७॥ श्रीद्विविद उवाच रामादीनां रणे ख्यातिं दातुं यो रावणादिकान् । नावधीत्स्वयमेवैकस्तं वन्दे हनुमत्प्रभुम् ॥ ८॥ श्रीशरभ उवाच भौमस्य वासरे पूजा कर्तव्या हनुमत्प्रभोः । भवेत्सः शुचिरायुः श्रीः पुत्रमित्रकलत्रवान् ॥ ९॥ श्रीगवयः आमिषीकृतमार्ताण्डं गोष्पदीकृतसागरम् । तृणीकृतदशग्रीवं आञ्जनेयं नमाम्यहम् ॥ १०॥ श्रीप्रहस्तः उल्लङ्ख्य सिन्धोः सलिलं सलीलं यश्शोकवह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ११॥ श्रीनल उवाच नमाम्यहं वायुजपादपङ्कजं करोमि तद्वायुजपूजनं सदा । वदामि वातात्मजनाम मङ्गलं स्मरामि वायूद्भवकीर्तनं शुभम् ॥ १२॥ श्रीधर्मक उवाच सप्तषष्टिर्हतान् कोटिवानराणां तरस्विनाम् । यः सञ्जीवनयामास तं वन्दे मारुतात्मजम् ॥ १३॥ श्रीगज उवाच तनौ बालपाशः पिता पार्वतीशः स्फुरद्बाहुदण्डो मुखे वज्रदंष्ट्रः । सती चाञ्जना यस्य माता ततोऽन्यं न जाने न जाने न जाने न जाने ॥ १४॥ श्रीऋक्षरजस उवाच बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता । अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद्भवेत् ॥ १५॥ श्रीसम्पाति उवाच नाशकं सीताशोकस्य श्रीरामानन्ददायिनम् । सुखप्रदं साधकानां वायुपुत्रं नमाम्यहम् ॥ १६॥ श्रीवेगवान् उवाच अञ्जनावरपुत्राय रामेष्टाय हनूमते । सर्वलोकैकवीराय ब्रह्मरूपाय ते नमः ॥ १७॥ श्रीरुद्रग्रीव उवाच हनूमत्सदृशं दैवं नास्ति नास्तीति भूतले । तं पूजयन्ति सततं ब्रह्मा-गौरी-महेश्वराः ॥ १८॥ श्रीदधिमुखः आलोड्य वेदशास्त्राणि सर्वाण्यपि महर्षिभिः । इदमेकं सुनिर्णीतं न दैवं हनुमत्परम् ॥ १९॥ श्रीसुदंष्ट्र उवाच मङ्गलं हनुमन्नित्यं मङ्गलं कपिपुङ्गव । मङ्गलं चाञ्जनासूनो मङ्गलं राघवप्रिय ॥ २०॥ श्रीऋषभ उवाच करुणारसपूर्णाय जगदानन्दहेतवे । कुक्षिस्थाखिललोकाय हनूमद्ब्रह्मणे नमः ॥ २१॥ श्रीपृथु उवाच दाता दापयिता चैव संहर्ता रक्षकस्तथा । प्रेरकश्चानुमोदा च कर्ता भोक्ता कपीश्वरः ॥ २२॥ श्रीजाम्बवान् उवाच भुक्तिमुक्तिप्रदं नाम विहाय हनुमन् तव । संसरन्ति जना मूढाः किं विचित्रमतःपरम् ॥ २३॥ श्रीज्योतिर्मुख उवाच मत्प्रार्थनाफलमिदं मम जन्मनश्च नेच्छामि किञ्चिदपरं हनुमन् महात्मन् । त्वद्दासदासजनपादरजोनिकेतमस्मद्धितो भवतु सेवकपारिजात ॥ २४॥ श्रीसुमुख उवाच रसने रससारज्ञे मधुरास्वादकाङ्क्षिणि । हनुमन्नामपीयूषं सर्वदा रसने पिब ॥ २५॥ श्रीगोलाङ्गूल उवाच कुतो दुर्दिनं वा कुतो भौमवारः कुतो वैधृतिस्तस्य भद्रा कथं वा । कुतो वा व्यतीपातदोषक्षुतं वा हनूमत्पदध्यानवीताशुभस्य ॥ २६॥ श्रीकुमुद उवाच त्रातारो भुवि पादाश्च मार्गाश्च रसने तव ।? हनूमन्निर्मितास्सन्ति जनानां हीनता कुतः ॥ २७॥ श्रीशतबलि उवाच धन्योस्म्यनुगृहीतोऽस्मि पुण्योऽस्मि महितोऽस्म्यहम् । हनुमन् त्वत्पदाम्भोजसेवाविभवयोगतः ॥ २८॥ श्रीकेसरि उवाच त्वत्तोऽन्यः शरणं नास्ति त्वमेव मम रक्षकः । अतो मयि कृपादृष्ट्या हनुमन् रक्ष मां सदा ॥ २९॥ श्रीमारीच उवाच सदा पापौघनिष्ठूतं पापेषु हृष्टमानसम् । पापात्मानं महापापं रक्ष मां हनुमत्प्रभो ॥ ३०॥ श्रीतरुण उवाच हनूमदाज्ञया यच्च भावि तद्भवति ध्रुवम् । यदभावि न तद्भावि वृथा देहपरिश्रमः ॥ ३१॥ श्रीगोमुख उवाच अपराधशतं नित्यं कुर्वाणं मां नृशंसकम् । क्षमस्व दासबुध्या त्वं हनुमन् करुणानिधे ॥ ३२॥ श्रीपनस उवाच हनुमतो न परं परमार्थतो हनुमतो न परं परमार्थतः । इति वदामि जनान् परमार्थतो न हि परं भवतोऽत्र विचक्षणः ॥ ३३॥ श्रीसुषेण उवाच माता हनूमांश्च पिता हनूमान् भ्राता हनूमान् भगिनी हनूमान् । विद्या हनूमान् द्रविणं हनूमान् स्वामी हनूमान् सकलं हनूमान् ॥ ३४॥ श्रीहरिलोम उवाच इतो हनूमान् परतो हनूमान् यतो यतो यामि ततो हनूमान् । हनूमतोऽन्यं ननु नास्ति किञ्चित् ततो हनूमान् तमहं प्रपद्ये ॥ ३५॥ श्रीरङ्ग उवाच यद्वर्णपदमात्राभिः सहसोच्चारणो भवेत् । क्षमस्व तत्कृपादृष्ट्या हनूमन् प्रणतोऽस्म्यहम् ॥ ३६॥ श्रीविधुष्ट उवाच हनूमान् रक्षतु जले स्थले रक्षतु वायुजः । अटव्यां वायुपुत्रस्तु सर्वतः पातु मारुतिः ॥ ३७॥ फलश्रुतिः इतीदं वानरप्रोक्तं सर्वपापहरं वरम् । सर्वज्ञानप्रदं चैव सर्वसौभाग्यवर्धनम् ॥ इमां वानरगीतां ये पठन्ति श्रद्धयान्विताः । पुत्रान् पौत्रांश्च भोगांश्च लभन्ते क्षणमात्रतः ॥ ऐश्वर्यं शाश्वतं चैव सुस्थिराः सम्पदस्तथा । आयुर्दीर्घं च कीर्तिं च प्राप्नुवन्ति न संशयः ॥ इह भुक्त्वाखिलान् कामान् आञ्जनेयप्रसादतः । गच्छन्त्यन्ते पदं नित्यं पुनरावृत्तिवर्जितम् ॥ इति श्रीपराशरसंहितायां पराशरमैत्रेयसंवादे श्रीवानरगीता नाम षट्सप्ततितमः पटलः ॥ (Earlier encoding by Pranav and Vrushali Tendulkar pranav.tendulkar at gmail.com)