अक्षर आकार:

उतथ्यगीता

utathyagItA

उतथ्यगीता

अध्यायः ९१ यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्म वित्तमः । मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत ॥ १॥ स यथानुशशासैनमुतथ्यो ब्रह्म वित्तमः । तत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर ॥ २॥ धर्माय राजा भवति न कामकरणाय तु । मान्धातरेवं जानीहि राजा लोकस्य रक्षिता ॥ ३॥ राजा चरति वै धर्मं देवत्वायैव गच्छति । न चेद्धर्मं स चरति नरकायैव गच्छति ॥ ४॥ धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति । तं राजा साधु यः शास्ति स राजा पृथिवीपतिः ॥ ५॥ राजा परमधर्मात्मा लक्ष्मीवान्पाप उच्यते । देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते ॥ ६॥ अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते । तदेव मङ्गलं सर्वं लोकः समनुवर्तते ॥ ७॥ उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान् । भयमाहुर्दिवारात्रं यदा पापो न वार्यते ॥ ८॥ न वेदाननुवर्तन्ति व्रतवन्तो द्विजातयः । न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते ॥ ९॥ वध्यानामिव सर्वेषां मनो भवति विह्वलम् । मनुष्याणां महाराज यदा पापो न वार्यते ॥ १०॥ उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम् । असृजन्सुमहद्भूतमयं धर्मो भविष्यति ॥ ११॥ यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते । यस्मिन्विलीयते धर्मं तं देवा वेषलं विदुः ॥ १२॥ वृषो हि भगवान्धर्मो यस्तस्य कुरुते ह्यलम् । वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥ १३॥ धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा । तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं प्रवर्धयेत् ॥ १४॥ धनात्स्रवति धर्मो हि धारणाद्वेति निश्चयः । अकार्याणां मनुष्येन्द्र स सीमान्त करः स्मृतः ॥ १५॥ प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयं भुवा । तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रह कारणात् ॥ १६॥ तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः । स राजा यः प्रजाः शास्ति साधु कृत्पुरुषर्षभः ॥ १७॥ कामक्रोधावनादृत्य धर्ममेवानुपालयेत् । धर्मः श्रेयः करतमो राज्ञां भरतसत्तम ॥ १८॥ धर्मस्य ब्राह्मणा योनिस्तस्मात्तान्पूजयेत्सदा । ब्राह्मणानां च मान्धातः कामान्कुर्यादमत्सरी ॥ १९॥ तेषां ह्यकाम करणाद्राज्ञः सञ्जायते भयम् । मित्राणि च न वर्धन्ते तथामित्री भवन्त्यपि ॥ २०॥ ब्राह्मणान्वै तदासूयाद्यदा वैरोचनो बलिः । अथास्माच्छ्रीरपाक्रामद्यास्मिन्नासीत्प्रतापिनी ॥ २१॥ ततस्तस्मादपक्रम्य सागच्छत्पाकशासनम् । अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरन्दरे ॥ २२॥ एतत्फलमसूयाया अभिमानस्य चाभिभो । तस्माद्बुध्यस्व मान्धातर्मा त्वा जह्यात्प्रतापिनी ॥ २३॥ दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः । तेन देवासुरा राजन्नीताः सुबहुशो वशम् ॥ २४॥ राजर्षयश्च बहवस्तस्माद्बुध्यस्व पार्थिव । राजा भवति तं जित्वा दासस्तेन पराजितः ॥ २५॥ स यथा दर्पसहितमधर्मं नानुसेवते । तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि ॥ २६॥ मत्तात्प्रमत्तात्पोगण्डादुन्मत्ताच्च विशेषतः । तदभ्यासादुपावर्तादहितानां च सेवनात् ॥ २७॥ निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः । पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात् ॥ २८॥ एतेभ्यो नित्ययत्तः स्यान्नक्तञ्चर्यां च वर्जयेत् । अत्यायं चाति मानं च दम्भं क्रोधं च वर्जयेत् ॥ २९॥ अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च । परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः ॥ ३०॥ कुलेषु पापरक्षांसि जायन्ते वर्णसङ्करात् । अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः ॥ ३१॥ एते चान्ये च जायन्ते यदा राजा प्रमाद्यति । तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते ॥ ३२॥ क्षत्रियस्य प्रमत्तस्य दोषः सञ्जायते महान् । अधर्माः सम्प्रवर्तन्ते प्रजा सङ्करकारकाः ॥ ३३॥ अशीते विद्यते शीतं शीते शीतं न विद्यते । अवृष्टिरति वृष्टिश्च व्याधिश्चाविशति प्रजाः ॥ ३४॥ नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथापरे । उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः ॥ ३५॥ अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति । प्रजाश्च तस्य क्षीयन्ते ताश्च सोऽनु विनश्यति ॥ ३६॥ द्वावाददाते ह्येकस्य द्वयोश् च बहवोऽपरे । कुमार्यः सम्प्रलुप्यन्ते तदाहुर्नृप दूषणम् ॥ ३७॥ ममैतदिति नैकस्य मनुष्येष्ववतिष्ठते । त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति ॥ ३८॥
अध्यायः ९२ कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः । सम्पद्यदैषा भवति सा बिभर्ति सुखं प्रजाः ॥ १॥ यो न जानाति निर्हन्तुं वस्त्राणां रजको मलम् । रक्तानि वा शोधयितुं यथा नास्ति तथैव सः ॥ २॥ एवमेव द्विजेन्द्राणां क्षत्रियाणां विशाम् अपि । शूद्राश्चतुर्णां वर्णानां नाना कर्मस्ववस्थिताः ॥ ३॥ कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि । ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु ॥ ४॥ तेषां यः क्षत्रियो वेद वस्त्राणामिव शोधनम् । शीलदोषान्विनिर्हन्तुं स पिता स प्रजापतिः ॥ ५॥ कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ । राजवृत्तानि सर्वाणि राजैव युगमुच्यते ॥ ६॥ चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च । सर्वं प्रमुह्यते ह्येतद्यदा राजा प्रमाद्यति ॥ ७॥ राजैव कर्ता भूतानां राजैव च विनाशकः । धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः ॥ ८॥ राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा । समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति ॥ ९॥ हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतर गर्दभाः । अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव ॥ १०॥ दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते । अबलं तन्महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम् ॥ ११॥ यच्च भूतं स भजते भूता ये च तदन्वयाः । अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव ॥ १२॥ दुर्बलस्य हि यच्चक्षुर्मुनेराशीविषस्य च । अविषह्य तमं मन्ये मा स्म दुर्बलमासदः ॥ १३॥ दुर्बलांस्तात बुध्येथा नित्यमेवाविमानितान् । मा त्वां दुर्बलचक्षूंषि प्रदहेयुः स बान्धवम् ॥ १४॥ न हि दुर्बलदग्धस्य कुले किं चित्प्ररोहति । आमूलं निर्दहत्येव मा स्म दुर्बलमासदः ॥ १५॥ अबलं वै बलाच्छ्रेयो यच्चाति बलवद्बलम् । बलस्याबल दग्धस्य न किं चिदवशिष्यते ॥ १६॥ विमानितो हतोत्क्रुष्टस्त्रातारं चेन्न विन्दति । अमानुष कृतस्तत्र दण्डो हन्ति नराधिपम् ॥ १७॥ मा स्म तात बले स्थेया बाधिष्ठा मापि दुर्बलम् । मा त्वा दुर्बलचक्षूंषि धक्ष्यन्त्यग्निरिवाश्रयम् ॥ १८॥ यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम् । तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशासताम् ॥ १९॥ यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्तृषु । न हि पापं कृतं कर्म सद्यः फलति गौरिव ॥ २०॥ यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति । महान्दैवकृतस्तत्र दण्डः पतति दारुणः ॥ २१॥ युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव । अभीक्ष्णं भिक्षुदोषेण राजानं घ्नन्ति तादृशाः ॥ २२॥ राज्ञो यदा जनपदे बहवो राजपूरुषाः । अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत् ॥ २३॥ यदा युक्ता नयन्त्यर्थान्कामादर्थवशेन वा । कृपणं याचमानानां तद्राज्ञो वैशसं महत् ॥ २४॥ महावृक्षो जायते वर्धते च तं चैव भूतानि समाश्रयन्ति । यदा वृक्षश्छिद्यते दह्यते वा तदाश्रया अनिकेता भवन्ति ॥ २५॥ यदा राष्ट्रे धर्ममग्र्यं चरन्ति संस्कारं वा राजगुणं ब्रुवाणाः । तैरेवाधर्मश्चरितो धर्ममोहात् तूर्णं जह्यात्सुकृतं दुष्कृतं च ॥ २६॥ यत्र पापा ज्यायमानाश् चरन्ति सतां कलिर्विन्दति तत्र राज्ञः । यदा राजा शास्ति नरान्नशिष्यान् न तद्राज्ञ्य वर्धते भूमिपाल ॥ २७॥ यश्चामात्यं मानयित्वा यथार्हं मन्त्रे च युद्धे च नृपो नियुज्ञ्यात् । प्रवर्धते तस्य राष्ट्रं नृपस्य भुङ्क्ते महीं चाप्यखिलां चिराय ॥ २८॥ अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम् । समीक्ष्य पूजयन्राजा धर्मं प्राप्नोत्यनुत्तमम् ॥ २९॥ संविभज्य यदा भुङ्क्ते न चान्यानवमन्यते । निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते ॥ ३०॥ त्रायते हि यदा सर्वं वाचा कायेन कर्मणा । पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते ॥ ३१॥ यदा शारणिकान्राजा पुत्र वत्परिरक्षति । भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते ॥ ३२॥ यदाप्त दक्षिणैर्यज्ञैर्यजते श्रद्धयान्वितः । कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते ॥ ३३॥ कृपणानाथ वृद्धानां यदाश्रु व्यपमार्ष्टि वै । हर्षं सञ्जनयन्नॄणां स राज्ञो धर्म उच्यते ॥ ३४॥ विवर्धयति मित्राणि तथारींश्चापकर्षति । सम्पूजयति साधूंश्च स राज्ञो धर्म उच्यते ॥ ३५॥ सत्यं पालयति प्राप्त्या नित्यं भूमिं प्रयच्छति । पूजयत्यतिथीन्भृत्यान्स राज्ञो धर्म उच्यते ॥ ३६॥ निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ । अस्मिँल्लोके परे चैव राजा तत्प्राप्नुते फलम् ॥ ३७॥ यमो राजा धार्मिकाणां मान्धातः परमेश्वरः । संयच्छन्भवति प्राणान्न संयच्छंस्तु पापकः ॥ ३८॥ ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमन्य च । यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते ॥ ३९॥ यमो यच्छति भूतानि सर्वाण्येवाविशेषतः । तस्य राज्ञानुकर्तव्यं यन्तव्या विधिवत्प्रजाः ॥ ४०॥ सहस्राक्षेण राजा हि सर्व एवोपमीयते । स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ ॥ ४१॥ अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम् । भूतानां सत्त्वजिज्ञासां साध्वसाधु च सर्वदा ॥ ४२॥ सङ्ग्रहः सर्वभूतानां दानं च मधुरा च वाक् । पौरजानपदाश्चैव गोप्तव्याः स्वा यथा प्रजाः ॥ ४३॥ न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम् । भरो हि सुमहांस्तात राज्यं नाम सुदुष्करम् ॥ ४४॥ तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम् । न हि शक्यमदण्डेन क्लीबेनाबुद्धिनापि वा ॥ ४५॥ अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः । सर्वा बुद्धीः परीक्षेथास्तापसाश्रमिणाम् अपि ॥ ४६॥ ततस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम् । स्वदेशे परदेशे वा न ते धर्मो विनश्यति ॥ ४७॥ धर्मश्चार्थश्च कामश् च धर्म एवोत्तरो भवेत् । अस्मिँल्लोके परे चैव धर्मवित्सुखमेधते ॥ ४८॥ त्यजन्ति दारान्प्राणांश्च मनुष्याः प्रतिपूजिताः । सङ्ग्रहश्चैव भूतानां दानं च मधुरा च वाक् ॥ ४९॥ अप्रमादश्च शौचं च तात भूतिकरं महत् । एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः ॥ ५०॥ अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः । नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् ॥ ५१॥ एतद्वृत्तं वासवस्य यमस्य वरुणस्य च । राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय ॥ ५२॥ तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम् । आतिष्ठ दिव्यं पन्थानमह्नाय भरतर्षभ ॥ ५३॥ धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत । देवर्षिपितृगन्धर्वाः कीर्तयन्त्यमितौजसः ॥ ५४॥ स एवमुक्तो मान्धाता तेनोतथ्येन भारत । कृतवानविशङ्कस्तदेकः प्राप च मेदिनीम् ॥ ५५॥ भवानपि तथा सम्यङ्मान्धातेव महीपतिः । धर्मं कृत्वा महीं रक्षन्स्वर्गे स्थानमवाप्स्यसि ॥ ५६॥ ॥ इति उतथ्यगीता समाप्ता ॥ Adhyaya numbers 91-92 in shAntiparva, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition they are 90-91.