अक्षर आकार:

उल्लापनगीतम्

Queen Madalasa's Lullaby

उल्लापनगीतम्

मदालसोपाख्यान - बालोल्लापनगीतम् Queen Madalasa's lullaby to her 1st born, Vikranta; Markandeya Purana, Ch. 25 सा वै मदालसा पुत्रं बालमुत्तनशायिनम् । उल्लापनच्छलेनाह रुदमनमविस्वरम् ॥ १०॥ शुद्धोऽसि रे तात न तेऽस्ति नाम कृतं हि ते कल्पनयाधुनैव । पञ्चात्मकं देहमिदं तवैत- न्नैवास्य त्वं रोदिषि कस्य हेतोः ॥ ११॥ न वा भवान्रोदिति वै स्वजन्मा शब्दोऽयमासाद्य महीशसूनुम् । विकल्प्यमाना विविधा गुणास्ते ऽगुणाश्च भौताः सकलेन्द्रियेषु ॥ १२॥ भूतानि भूतैः परिदुर्बलानि वृद्धिं समायान्ति यथेह पुंसः । अन्नाम्बुदानादिभिरेव कस्य न तेऽस्ति वृद्धिर्न च तेऽस्ति हानिः ॥ १३॥ त्वं कञ्चुके शीर्यमाणे निजेऽस्मिं- स्तस्मिंश्च देहे मूढतां मा व्रजेथाः । शुभाशुभैः कर्माभिर्देहमेत- नादादिमूढैः कञ्चुकस्तेपि नद्धः ॥ १४॥ तातेति किञ्चित्तनयेति किञ्चि- दम्वेति किञ्चिद्दयितेति किञ्चित् । ममेति किञ्चिन्न ममेति किञ्चित् त्वं भूतसङ्घं बहु मानयेथाः ॥ १५॥ दुःखानि दुःखोपशमाय भोगान् सुखाय जानाति विमूढचेताः । तान्येव दुःखानि पुनः सुखानि जानात्यविद्वान् सुविमूढचेताः ॥ १६॥ हासोऽस्थिसन्दर्शनमक्षियुग्म- मत्युज्ज्वलं तर्जनमङ्गनायाः । कुचादि पीनं पिशितं घनं तत् स्थानं रतेः किं नरकं न योषित् ॥ १७॥ यानं क्षितौ यानगतञ्च देहं देहेऽपि चान्यः पुरुषो निविष्टः । ममत्वबुद्धिर्न तथा यथा स्वे देहेऽतिमात्रं बत मूढतैषा ॥ १८॥ त्यज धर्ममधर्मञ्च उभे सत्यानृते त्यज । उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज ॥ इति श्रीमार्कण्डेयपुराणान्तर्गतं मदालसोपाख्याने बालोल्लापनगीतम् समाप्ता ॥