अक्षर आकार:

सिद्धगीता

Siddha Gita

सिद्धगीता

अस्त्यस्तमितसर्वापदुद्यत्सम्पदुदारधीः । विदेहानां महीपालो जनको नाम वीर्यवान् ॥ १॥ कल्पवृक्षोऽर्थिसार्थानां मित्रालानां दिवाकरः । माधवो बन्धुपुष्पाणां स्त्रीणां मकरकेतनः ॥ २॥ द्विजकैरवशीतांशुर्द्विषत्तिमिरभास्करः । सौजन्यरत्नजलधिर्भुवं विष्णुरिवास्थितः ॥ ३॥ प्रफुल्लबाललतिके मञ्जरीपुञ्जपिञ्जिरे । स कदाचिन्मधौ मत्ते कोकिलालापलासिनि ॥ ४॥ ययौ कुसुमिताभोगं सुविलासलताङ्गनम् । लीलयोपवनं कान्तं नन्दनं वासवो यथा ॥ ५॥ तस्मिन्वरवने हृद्ये केसरोद्दाममारुते । दूरस्थानुचरः सानुकुञ्जेषु विचचार ह ॥ ६॥ अथ शुश्राव कस्मिंश्चित्तमालवनगुल्मके । सिद्धानामप्रदृश्यानां स्वप्रसङ्गादुदाहृताः ॥ ७॥ विविक्तवासिनां नित्यं शैलकन्दरचारिणाम् । इमाः कमलपत्राक्ष गीता गीतात्मभावनाः ॥ ८॥ सिद्धा ऊचुः । द्रष्टुदृश्यसमायोगात्प्रत्ययानन्दनिश्चयः । यस्तं स्वमात्मतत्त्वोत्थं निःस्पन्दं समुपास्महे ॥ ९॥ अन्ये ऊचुः । द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह । दर्शनप्रथमाभासमात्मानं समुपास्महे ॥ १०॥ अन्ये ऊचुः । द्वयोर्मध्यगतं नित्यमस्तिनास्तीति पक्षयोः । प्रकाशनं प्रकाश्यानामात्मानं समुपास्महे ॥ ११॥ अन्ये ऊचुः । यस्मिन्सर्वं यस्य सर्वं यतः सर्वं यस्मायिदम् । येन सर्वं यद्धि सर्वं तत्सत्यं समुपास्महे ॥ १२॥ अन्ये ऊचुः । अशिरस्कं हकारान्तमशेषाकारसंस्थितम् । अजस्रमुच्चरन्तं स्वं तमात्मानमुपास्महे ॥ १३॥ अन्ये ऊचुः । सन्त्यज्य हृद्गुहेशानं देवमन्यं प्रयान्ति ये । ते रत्नमभिवाञ्छन्ति त्यक्तहस्तस्थकौस्तुभाः ॥ १४॥ अन्ये ऊचुः । सर्वाशाः किल सन्त्यज्य फलमेतदवाप्यते । येनाशाविषवल्लीनां मूलमाला विलूयते ॥ १५॥ अन्ये ऊचुः । बुद्ध्वाप्यत्यन्तवैरस्यं यः पदार्थेषु दुर्मतिः । बध्नाति भावनां भूयो नरो नासौ स गर्दभः ॥ १६॥ अन्ये ऊचुः । उत्थितानुत्थितानेतानिन्द्रियाहीन्पुनः पुनः । हन्याद्विवेकदण्डेन वज्रेणेव हरिर्गिरीन् ॥ १७॥ अन्ये ऊचुः । उपशमसुखमाहरेत्पवित्रं सुशमवतः शममेति साधुचेतः । प्रशमितमनसः स्वके स्वरूपे भवति सुखे स्थितिरुत्तमा चिराय ॥ १८॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये देवदूतोक्ते मोक्षोपायेषूपशमप्रकरणे सिद्धगीतानामाष्टमः सर्गः ॥ ८॥