अक्षर आकार:

श्रुतिगीता २

shrutigItA 2

श्रुतिगीता २

प्राकृताः श्रुतयः सर्वा भगवन्तमधोक्षजम् । स्तुवन्ति दोषनाशाय तत्राविष्टो भवेद्यथा ॥ १॥ सत्यो हरिः समस्तेषु भ्रमभातेष्वपि स्थिरः । अतः सन्तः समस्तार्थे कृष्णमेव विजानते ॥ २॥ कथानन्त्योक्तिहृदयाः साधनानि न कुर्वते । साक्षात्ते पादसंश्लिष्टास्ते किं वाच्या महाशयाः ॥ ३॥ कृष्ण एव सदा सेव्यो निर्णीतः पञ्चधा बुधैः । शरीरदः प्रेरकश्च सुखदः शेषसत्पदः ॥ ४॥ कर्मरूपं हरिं केचित्सेवन्ते योगरूपिणम् । तेभ्योऽप्यक्षररूपस्य सेवकाः सम्मताः सताम् ॥ ५॥ सर्वत्र भगवांस्तुत्यः सर्वदोषविवर्जितः । क्रीडार्थमनुकुर्वन्हि सर्वत्रैव विराजते ॥ ६॥ गुप्तानन्दा यतो जीवा निरानन्दं जगद्यतः । पूर्णानन्दो हरिस्तस्माञ्जीवैः सेव्यः सुखार्थिभिः ॥ ७॥ कृष्णे हरौ भगवति परमानन्दसागरः । वर्तते नात्र सन्देहः कथा तत्र नियामिका ॥ ८॥ असत्सङ्गो न कर्तव्यो भक्तिमार्गस्य बाधकः । देहे ह्यनुगुणे कृष्णे नेन्द्रियाणां प्रियं चरेत् ॥ ९॥ सर्व एव हरेर्भक्तास्तुल्या यान्मन्यते हरिः । अतः कृष्णो यथात्मीयान्मन्यते भजनं तथा ॥ १०॥ ज्ञानमार्गो भ्रान्तिमूलमतः कृष्णं भजेद्बुधः । प्रवर्तकं ज्ञानकाण्डं चित्तशुद्ध्यै यतो भवेत् ॥ ११॥ भ्रान्तिमूलतया सर्वसमयानामयुक्तितः । न तद्विरोधात्कृष्णाख्यं परं ब्रह्म त्यजेद्बुधः ॥ १२॥ जीवानां ब्रह्मरूपत्वाद्दोषा अपि च मानसाः । जगच्च सकलं ब्रह्य ततो दोषः कथं हरौ ॥ १३॥ सर्वथा सर्वतः शुद्धा भक्ता एव न चापरे । अतः शुद्धिमभीप्सद्भिस्सेव्या भक्ता न चापरे ॥ १४॥ सुवर्णप्रतिमावासौ सर्वानन्दमयोऽधिराट् । सर्वसेव्यो नियन्ता च निर्दुष्टः सर्वथैव हि ॥ १५॥ सर्वभावविनिर्मुक्तः पूर्णः क्रोडार्थमुद्गतः । निमित्तं तं समाश्रित्य जायन्ते जीवराशयः ॥ १६॥ नियन्ता जीवसङ्घस्य हरिस्तेनाणवो मताः । जीवा न व्यापकाः क्वापि चिन्मया ज्ञानिनो मताः ॥ १७॥ नामरूपप्रपञ्चं हि देवतिर्यङ्नरात्मकम् । कृष्णादेव समुद्भूतं लीनं तत्रैव तन्मयम् ॥ १८॥ नॄणां दुर्गतिमालोक्य ये सेवन्ते दृढव्रताः । कृष्णं तद्भ्रुकुटिः कालो न तान्हन्ति कदाचन ॥ १९॥ अदान्ते मनसि ज्ञानयोगार्थं न यतेद्बुधः । गुरुसेवापरो भूत्वा भक्तिमेव सदाभ्यसेत् ॥ २०॥ सर्वलोकोपकारार्थं कृष्णेन सहितास्तु ते । परिभ्रमन्ति लोकानां निस्ताराय महाशयाः ॥ २१॥ पुत्रादीन्सम्परित्यज्य कृष्णः सेव्यो न तैः सह । तत्सुखं भगवान्दाता ते तु क्लिष्टेऽतिदुःखदाः ॥ २२॥ परिभ्रमंस्तीर्थनिष्ठो गुरुलब्धहरिस्मृतिः । न सेवेत गृहान् दुष्टान् सद्धर्मात्यन्तनाशकान् ॥ २३॥ सद्बुद्ध्या सर्वथा सद्भिर्न सेव्यमखिलं जगत् । भ्रान्त्या सद्बुद्धिरत्रेति सन्तं कृष्णं भजेद्बुधः ॥ २४॥ खपुष्पादिसमत्वाद्धि मिथ्याभूतं जगद्यतः । अधिष्ठानाच्च सद्भानं तं कृष्णं नियतं भजेत् ॥ २५॥ कालादितृणपर्यन्ता न सेव्या मुक्तिमिच्छता । दोषत्याजनशक्तो हि सेव्यो दाता गणस्य च ॥ २६॥ जीवेषु भगवानात्मा सञ्च्छन्नस्तेन तत्र न । भजनं सर्वथा कार्यं ततोऽन्यत्रैव पूजयेत् ॥ २७॥ सुखसेवापरो यस्तु सदानन्दं हरिं भजेत् । अन्यथा सुखमप्रेप्सुः सर्वथा दुःखमाप्नुयात् ॥ २८॥ कृष्णानन्दः परानन्दो नान्यानन्दस्तथाविधः । वेदा अपि न तच्छक्ताः प्रतिपादयितुं स्वतः ॥ २९॥ इत्येव श्रुतिगीतायाः सङ्क्षेपेण निरूपितः । अर्थराशिसमुद्रो हि यथाङ्गुल्या निरूप्यते ॥ ३०॥ इति श्रीवल्लभाचार्यविरचिता श्रुतिगीता सम्पूर्णा ।