अक्षर आकार:

श्रीगुरुगीता

shrIgurugItA

श्रीगुरुगीता

॥ अथ श्रीगुरुगीता ॥ ऋषय ऊचुः । गुह्याद्गुह्यतरा विद्या गुरुगीता विशेषतः । ब्रूहि नः सूत कृपया श‍ृणुमस्त्वत्प्रसादतः ॥ १॥ सूत उवाच । गिरीन्द्रशिखरे रम्ये नानारत्नोपशोभिते । नानावृक्षलताकीर्णे नानापक्षिरवैर्युते ॥ २॥ सर्वर्तुकुसुमामोदमोदिते सुमनोहरे । शैत्यसौगन्ध्यमान्द्याढ्यमरुद्भिरुपवीजिते ॥ ३॥ अप्सरोगणसङ्गीतकलध्वनिनिनादिते । स्थिरच्छायाद्रुमच्छायाच्छादिते स्निग्धमञ्जुले ॥ ४॥ मत्तकोकिलसन्दोहसङ्घुष्टविपिनान्तरे । सर्वदा स्वगणैः सार्द्धमृतुराजनिपेविते ॥ ५॥ सिद्धचारणगन्धर्वगाणपत्यगणैर्वृते । तत्र मौनधरं देवं चराचरजगद्गुरुम् ॥ ६॥ सदाशिवं सदानन्दं करुणामृतसागरम् । कर्पूरकुन्दधवलं शुद्धतत्त्वमयं विभुम् ॥ ७॥ दिगम्बरं दीननाथं योगीन्द्रं योगिवल्लभम् । गङ्गाशीकरसंसिक्तजटामण्डलमण्डितम् ॥ ८॥ विभूतिभूषितं शान्तं व्यालमालं कपालिनम् । अन्धकारिं त्रिलोकेशं त्रिशूलवरधारकम् ॥ ९॥ आशुतोषं ज्ञानमयं कैवल्यफलदायकम् । निर्विकल्पं निरातङ्कं निर्विशेषं निरञ्जनम् ॥ १०॥ सर्वेषां हितकर्तारं देवदेवं निरामयम् । कैलासशिखरासीनं पञ्चवक्त्रं सुभूषितम् ॥ ११॥ सर्वात्मनाविष्टचित्तं गिरिजामुखपङ्कजे । प्रणम्य परया भक्त्या कृताञ्जलिपुटा सती ॥ १२॥ प्रसन्नवदनं वीक्ष्य लोकानां हितकाम्यया । विनयाऽवनता देवी पार्वती शिवमब्रवीत् ॥ १३॥ श्रीमहादेव्युवाच । नमस्ते देवदेवेश सदाशिव जगद्गुरो । प्राणेश्वर महादेव गुरुगीतां वद प्रभो ॥ १४॥ केन मार्गेण भोः स्वामिन् देही ब्रह्ममयो भवेत् । त्वं कृपां कुरु मे देव नमामि चरणं तव ॥ १५॥ श्री महादेव उवाच । गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तन्निरोधकः । अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते ॥ १६॥ गुकारः प्रथमो वर्णो मायादिगुणभासकः । रुकारो द्वितीयो ब्रह्म मायाभ्रान्तिविमोचकः ॥ १७॥ गकारः सिद्धिदः प्रोक्तो रेफः पापस्य दाहकः । उकारः शम्भुरित्युक्तस्त्रितयाऽऽत्मा गुरुः स्मृतः ॥ १८॥ श्रीमहादेव्युवाच । मायामोहितजीवानां जन्ममृत्युजरादितः । रक्षायै कः प्रभवति स्वामिन् संसारसागरे ॥ १९॥ त्वत्तो नाऽन्यो दयासिन्धो कश्चिच्छक्नोति वै प्रभो । दातुं प्रतिवचश्चाऽस्य लोकशोकविमोचनम् ॥ २०॥ त्रितापतप्तजीवानां कल्याणार्थं मया प्रभो । विहितः सादरं प्रश्न उत्तरेणाऽनुगृह्यताम् ॥ २१॥ श्रीमहादेव उवाच । संसाराऽपारपाथोधेः पारं गन्तुं महेश्वरि । श्रीगुरोश्चरणाऽम्भोजनौकेवैकाऽवलम्बनम् ॥ २२॥ सद्गुरो रूपमादाय जगत्यामहमेव हि । उद्धराम्यखिलाञ्जीवान्मृत्युसंसारसागरात् ॥ २३॥ यो गुरुः स शिवः साक्षाद्यः शिवः स गुरुर्मतः । गुरौ मयि न भेदोऽस्ति भेदस्तत्र निरर्थकः ॥ २४॥ गुरुर्ज्ञानप्रदो नित्यं परमाऽऽनन्दसागरे । उन्मज्जयति जीवान्स ताॅंस्तथैव निमज्जयन् ॥ २५॥ गुरुस्त्रितापतप्तानां जीवानां रक्षिता क्षितौ । सच्चिदानन्दरूपं हि गुरुर्ब्रह्म न संशयः ॥ २६॥ यादृगस्तीह सम्बन्धो ब्रह्माण्डस्येश्वरेण वै । तथा क्रियाऽऽख्ययोगस्य सम्बन्धो गुरुणा सह ॥ २७॥ दीक्षाविधावीश्वरो वै कारणस्थलमुच्यते । गुरुः कार्यस्थलञ्चाऽतो गुरुर्ब्रह्म प्रगीयते ॥ २८॥ गुरौ मानुपबुद्धिं तु मन्त्रे चाऽक्षरभावनाम् । प्रतिमासु शिलाबुद्धिं कुर्वाणो नरकं व्रजेत् ॥ २९॥ जन्महेतू हि पितरौ पूजनीयौ प्रयत्नतः । गुरुर्विशेषतः पूज्यो धर्माऽधर्मप्रदर्शकः ॥ ३०॥ गुरुः पिता गुरुर्माता गुरुर्देवो गुरुर्गतिः । शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥ ३१॥ श्रीमहादेव्युवाच । जगन्मङ्गलकृन्नाथ विशेषेणोपदिश्यताम् । लक्षणं सद्गुरोर्येन सम्यग्ज्ञातं भवेद्ध्रुवम् ॥ ३२॥ आचार्यगुरुभेदोऽपि येन स्याद्विदितो मम । श्रेष्ठत्वं वा तयोः केन लक्षणेनाऽनुमीयते ॥ ३३॥ श्रीमहादेव उवाच । सर्वशास्त्रपरो दक्षः सर्वशात्रार्थवित्सदा । सुवचाः सुन्दरः स्वङ्गः कुलीनः शुभदर्शनः ॥ ३४॥ जितेन्द्रियः सत्यवादी ब्राह्मणः शान्तमानसः । मातृपितृहिते युक्तः सर्वकर्मपरायणः ॥ ३५॥ आश्रमी देशवासी च गुरुरेवं विधीयते । आचार्यगुरुशब्दौ द्वौ क्वचित्पर्यायवाचकौ ॥ ३६॥ एवमर्थगतो भेदो भवत्यपि तयोः क्वचित् । उपनीय ददद्वेदमाचार्यः स उदाहृतः ॥ ३७॥ यः साधनप्रकर्षार्थं दीक्षयेत्स गुरुः स्मृतः । औपपत्तिकमंशन्तु धर्मशास्त्रस्य पण्डितः ॥ ३८॥ व्याचष्टे धर्ममिच्छूनां स आचार्यः प्रकीर्तितः । सर्वदर्शी तु यः साधुर्मुमुक्षूणां हिताय वै ॥ ३९॥ व्याख्याय धर्मशास्त्राणां क्रियासिद्धिप्रबोधकम् । उअपासनाविधेः सम्यगीश्वरस्य परात्मनः ॥ ४०॥ भेदान्प्रशास्ति धर्मज्ञः स गुरुः समुदाहृतः । सप्तानां ज्ञानभूमीनां शास्त्रोक्तानां विशेषतः ॥ ४१॥ प्रभेदान् यो विजानाति निगमस्याऽऽगमस्य च् अ । ज्ञानस्य चाऽधिकाराॅंस्त्रीन्भवतात्पर्यलक्ष्यतः ॥ ४२॥ तन्त्रेषु च पुराणेषु भाषायास्त्रिविधां सृतिम् । सम्यग्भेदैर्विजानाति भाषातत्त्वविशारदः ॥ ४३॥ निपुणो लोकशिक्षायां श्रेष्ठाऽऽचार्यः स उच्यते । पञ्चतत्त्वविभेदज्ञः पञ्चभेदां विशेषतः ॥ ४४॥ सगुणोपासनां यस्तु सम्यग्जानाति कोविदः । चातुर्विध्येन विततां ब्रह्मणः समुपासनाम् ॥ ४५॥ गम्भीरार्थां विजानीते बुधो निर्मलमानसः । सर्वकार्येषु निपुणो जीवन्मुक्तस्त्रितापहृत् ॥ ४६॥ करोति जीवकल्याणं गुरुः श्रेष्ठः स कथ्यते ॥ ४७॥ श्रीमहादेव्युवाच । सच्छिष्यलक्षणं नाथ उक्षूणां त्रितापहृत् । गुरुभक्तस्य शिष्यस्य कर्तव्यञ्चाऽपि मे वद ॥ ४८॥ मुमुक्षुभिश्च शिष्यैः कैः शुभाऽऽचारैरवाप्यते । आत्मज्ञानं दयासिन्धो कृपया ब्रूहि तानपि ॥ ४९॥ येन ज्ञानेन लब्धेन शुभाऽऽचारान्वितैर्द्रुतम् । मुच्यते बन्धनान्नाथ शिष्यैः सद्गुरुसेवकैः ॥ ५०॥ श्रीमहादेव उवाच । शिष्यः कुलीनः शुद्धाऽऽत्मा पुरुषार्थपरायणः । अधीतवेदः कुशलो दूरमुक्तमनोभवः ॥ ५१॥ हितैषी प्राणिनां नित्यमास्तिकस्त्यक्तवञ्चनः । स्वधर्मनिरतो भक्त्या पितृमातृहिते स्थितः ॥ ५२॥ गुरुशुश्रूषणरतो वाङ्मनःकायकर्मभिः । शिष्यस्तु स गुणैर्युक्तो गुरुभक्तिरतः सदा ॥ ५३॥ धर्मकामादिसंयुक्तो गुरुमन्त्रपरायणः । सत्यबुद्धिर्गुरोमन्त्रे देवपूजनतत्परः ॥ ५४॥ गुरूपदिष्टमार्गे च सत्यबुद्धिरुदारधीः । अलुब्धः स्थिरगात्रश्च आज्ञाकारी जितेन्द्रियः ॥ ५५॥ एवंविधो भवेच्छिष्य इतरो दुःखकृद्गुरोः । शरीरमर्थं प्राणाॅंश्च गुरुभ्यो यः समर्पयन् ॥ ५६॥ गुरुभिः शिष्यते योगं स शिष्य इति कथ्यते । दीर्घदण्डवदानम्य सुमना गुरुसन्निधौ ॥ ५७॥ आत्मदाराऽऽदिकं सर्वं गुरवे च निवेदयेत् । आसनं शयनं वस्त्रं वाहनं भूषणाऽऽदिकम् ॥ ५८॥ साधकेन प्रदातव्यं गुरोः सन्तोषकारणात् । गुरुपादोदकं पेयं गुरोरुच्छिष्टभोजनम् ॥ ५९॥ गुरुमूर्तेः सदा ध्यानं गुरुस्तोत्रं सदा जपेत् । ऊर्ध्वं तिष्ठेद्गुरोरग्रे लब्धाऽनुज्ञो वसेत् पृथक् ॥ ६०॥ निवीतवासा विनयी प्रह्वस्तिष्ठेद्गुरौ परम् । गुरौ तिष्ठति तिष्ठेच्चोपविष्टेऽनुज्ञया वसेत् ॥ ६१॥ सेवताऽङ्घ्री शयानस्य गच्छन्तञ्चाऽप्यनुव्रजेत् । शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च ॥ ६२॥ नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम् । नित्यमुद्रितपाणिः स्यात् साध्वाचारः सुसंयतः ॥ ६३॥ आस्यतामिति चोक्तः सन्नासीताऽभिमुखं गुरोः । हीनान्नवस्त्रवेशः स्यात् सर्वदा गुरुसन्निधौ ॥ ६४॥ उत्तिष्ठेत् प्रथमं चाऽस्य चरमं चैव संविशेत् । दुष्कृतं न गुरोर्ब्रूयात् क्रुद्धं चैनं प्रसादयेत् ॥ ६५॥ परिवादं न श्रुणुयादन्येषामपि कुर्वताम् । नीचं शय्यासनं चाऽस्य सर्वदा गुरुसन्निधौ ॥ ६६॥ गुरोस्तु चक्षुर्विषये न यथेष्टाऽऽसनो भवेत् । चापल्यं प्रमदागाथामहङ्कारं च वर्जयेत् ॥ ६७॥ नाऽपृष्टो वचनं किंचिद्ब्रूयान्नाऽपि निषेधयेत् । गुरुमूर्तिं स्मरेन्नित्यं गुरुनाम सदा जपेत् ॥ ६८॥ गुरोराज्ञां प्रकुर्वीत गुरोरन्यं न भावयेत् । गुरुरूपे स्थितं ब्रह्म प्राप्यते तत्प्रसादतः ॥ ६९॥ जात्याश्रमयशोविद्यावित्तगर्वं परित्यजन् । गुरोराज्ञां प्रकुर्वीत गुरोरन्यं न भावयेत् ॥ ७०॥ गुरुवक्त्रे स्थिता विद्या गुरुभक्त्याऽनुलभ्यते । तस्मात् सर्वप्रयत्नेन गुरोराराधनं कुरु ॥ ७१॥ नोदाहरेदस्य नाम परोक्षमपि केवलम् । न च वाऽस्याऽनुकुर्वीत गतिभाषितचेष्टितम् ॥ ७२॥ गुरोर्यत्र परीवादो निन्दा वाऽपि प्रवर्तते । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ ७३॥ परीवादात् खरो भवेत् श्वा वै भवति निन्दकः । परिभोक्ता भवेत्कृमिः कीटो भवति मत्सरी ॥ ७४॥ गुरोः शय्याऽसनं यानं पादुकोपानौत्पीठकम् । स्नानोदकं तथा छायां कदापि न विलङ्घयेत् ॥ ७५॥ गुरोरग्रे पृथक् पूजामौद्धत्यं च विवर्जयेत् । दीक्षां व्याख्यां प्रभुत्वं च गुरोरग्रे परित्यजेत् ॥ ७६॥ ऋणदानं तथाऽऽदानं वस्तूनां क्रयविक्रयम् । न कुर्याद्गुरुणा सार्द्धे शिष्यो भृत्वा कदाचन ॥ ७८॥ न प्रेरयेद्गुरुं तातं शिष्यः पुत्रश्च कर्मसु । गुरवे देवि पित्रे च नित्यं सर्वस्वमर्पयेत् ॥ ७९॥ स च शिष्यः स च ज्ञानी य आज्ञां पालयेद्गुरोः । न क्षेमं तस्य मूढस्य यो गुरोरवचस्करः ॥ ८०॥ गुरोर्हितं प्रकर्तव्यं वाङ्मनःकायकर्मभिः । अहिताऽऽचरणाद्देवि विष्ठायां जायते कृमिः ॥ ८१॥ यथा खनन् खनित्रेण नरो वार्य्यधिगच्छति । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥ ८२॥ आसमाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् । स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥ ८३॥ श्रीमहादेव्युवाच । हे विश्वात्मन् महायोगिन् दीनबन्धो जगद्गुरो । त्रितापाद्रक्षितुं जीवान्नेतुं मुक्तेः पदं तथा ॥ ८४॥ योगमार्गप्रचारोऽत्र गुरुभिर्यः प्रकाशितः । तल्लक्षणानि भेदाॅंश्च कृपया वद मे प्रभो ॥ ८५॥ श्रीमहादेव उवाच । मन्त्रयोगो लयश्चैव राजयोगो हठस्तथा । योगश्चतुर्विधः प्रोक्तो योगिभिस्तत्त्वदर्शिभिः ॥ ८६॥ नामरूपात्मिका सृष्टिर्यस्मात्तदवलम्बनात् । बन्धनान्मुच्यमानोऽयं मुक्तिमाप्नोति साधकः ॥ ८७॥ तामेव भूमिमालम्ब्य स्खलनं यत्र जायते । उत्तिष्ठति जनस्सर्वोऽध्यक्षेणैतत्समीक्ष्यते ॥ ८८॥ नामरूपात्मकैर्भावैर्बध्यन्ते निखिला जनाः । अविद्याकलिताश्चैव तादृक्प्रकृतिवैभवात् ॥ ८९॥ आत्मनस्सूक्ष्मप्रकृतिं प्रवृत्तिञ्चाऽनुसृत्य वै । नामरूपात्मनोश्शब्दभावयोरवलम्बनात् ॥ ९०॥ यो योगः साध्यते सोऽयं मन्त्रयोगः प्रकीर्तितः । प्राणाऽपाननादबिन्दुजीवात्मपरमात्मनाम् ॥ ९१॥ मेलनाद्घटते यस्मात्तस्माद्वै घट उच्यते । आमकुम्भमिवाऽम्भस्थं जीर्यमाणं सदा घटम् ॥ ९२॥ योगानलेन सन्दह्य घटशुद्धिं समाचरेत् । घटयोगसमायोगाद्धठयोगः प्रकीर्तितः ॥ ९३॥ मन्त्राद्धठेन सम्पाद्यो योगोऽयमिति वा प्रिये । हठयोग इति प्रोक्तो हठाज्जीवशुभप्रदः ॥ ९४॥ हठयोगेन प्रथमं जीर्यमाणामिमां तनुम् । द्रढ्यन्सूक्ष्मदेहं वै कुर्याद्योगयुजं पुनः ॥ ९५॥ स्थूलः सूक्ष्मस्य देहो वै परिणामान्तरं यतः । कादिवर्णान्समभ्यस्य शास्त्रज्ञानं यथाक्रमम् ॥ ९६॥ यथोपलभ्यते तद्वत्स्थूलदेहस्य साधनैः । योगेन मनसो योगो हठयोगः प्रकीर्तितः ॥ ९७॥ ब्रह्माण्डपिण्डे सदृशे ब्रह्मप्रकृतिसम्भवात् । समष्टिव्यष्टिसम्बन्धादेकसम्बन्धगुम्फिते ॥ ९८॥ ऋषिदेवाश्च पितरो नित्यं प्रकृतिपूरुषौ । तिष्ठन्ति पिण्डे ब्रह्माण्डे ग्रहनक्षत्रराशयः ॥ ९९॥ पिण्डज्ञानेन ब्रह्माण्डज्ञानं भवति निश्चितम् । गुरूपदेशतः पिण्डज्ञानमाप्त्वा यथायथम् ॥ १००॥ ततो निपुणया युक्त्या पुरुषे प्रकृतेर्लयः । लययोगाऽभिधेयः स्यात् कृतः शुद्धैर्महर्षिभिः ॥ १०१॥ भवन्ति मन्त्रयोगस्य षोडशाङ्गानि निश्चितम् । यथा सुधांशोर्जायन्ते कलाः षोडश शोभनाः ॥ १०२॥ भक्तिः शुद्धिश्चाऽऽसनञ्च पञ्चाङ्गस्याऽपि सेवनम् । आचारधारणे दिव्यदेशसेवनमित्यपि ॥ १०३॥ प्राणक्रिया तथा मुद्रा तर्पणं हवनं बलिः । यागो जपस्तथा ध्यानं समाधिश्चेति षोडश ॥ १०४॥ षट्कर्माऽऽसनमुद्राः प्रत्याहारः प्राणसंयमश्चैव । ध्यानसमाधी सप्तैवाङ्गानि स्युर्हठस्य योगस्य ॥ १०५॥ अङ्गानि लययोगस्य नवैवेति बुधा विदुः । यमश्च नियमश्चैव स्थूलसूक्ष्मक्रिये तथा ॥ १०६॥ प्रत्याहारो धारणा च ध्यानञ्चापि लयक्रिया । समाधिश्च नवाङ्गानि लययोगस्य निश्चितम् ॥ १०७॥ ध्यानं वै मन्त्रयोगस्याऽध्यात्मभावाद्विनिर्गतम् । परानन्दमये भावेऽतीन्द्रिये च विलक्षणे ॥ १०८॥ भ्रमद्भिः साधकश्रेयोवाञ्छद्भिर्योगवित्तमैः । उपासनां पञ्चविधां ज्ञात्वा साधकयोग्यताम् ॥ १०९॥ मन्त्रध्यानं हि कथितमध्यात्मस्याऽनुसारतः । वेदतन्त्रपुराणेषु मन्त्रशास्त्रप्रवर्तकैः ॥ ११०॥ वर्णितं श्रेयैच्छद्भिर्मन्त्रयोगपरस्य वै । ध्यानानां वै बहुत्वेऽपि तत्प्रोक्तं पञ्चधैव हि ॥ १११॥ तेषां भावमयत्वेन समाधिरधिगम्यते । मन्त्रयोगो हठश्चैव लययोगः पृथक् पृथक् ॥ ११२॥ स्थूलं ज्योतिस्तथा बिन्दु ध्यानं तु त्रिविधं विदुः । स्थूलं मूर्तिमयं प्रोक्तं ज्योतिस्तेजोमयं भवेत् ॥ ११३॥ बिन्दुं बिन्दुमयं ब्रह्म कुण्डली परदेवता । सृष्टिस्थितिविनाशानां हेतुता मनसि स्थिता ॥ ११४॥ तत्साहाय्यात्साध्यते यो राजयोग इति स्मृतः । मन्त्रे हठे लये चैव सिद्धिमासाद्य यत्नतः ॥ ११५॥ पूर्णाऽधिकारमाप्नोति राजयोगपरो नरः । समाधिर्मन्त्रयोगस्य महाभाव इतीरितः ॥ ११६॥ हठस्य च महाबोधः समाधिस्तेन सिध्यति । प्रशस्तो लययोगस्य समाधिर्हि महालयः ॥ ११७॥ विचारबुद्धेः प्राधान्यं राजयोगस्य साधने । ब्रह्मध्यानं हि तद्ध्यानं समाधिर्निर्विकल्पकः ॥ ११८॥ तेनोपलब्धसिद्धिर्हि जीवन्मुक्तः प्रकथ्यते । उपलब्ध महाभावा महाबोधाऽन्विताश्च वा ॥ ११९॥ महालयं प्रपन्नाश्च तत्त्वज्ञानाऽवलम्बतः । योगिनो राजयोगस्य भूमिमासादयन्ति ते ॥ १२०॥ योगसाधनमूर्द्धर्न्यो राजयोगोऽभिधीयते ॥ १२१॥ श्रीमहादेव्युवाच । योगेश जगदाधार कतिधोपासना च के । तद्विधेर्भगवन् भेदा मुक्तिमार्गप्रदर्शिनः ॥ १२२॥ तस्या के दिव्यदेशाश्च दिव्यभावेन भास्वराः । तत्सर्वं कृपया नाथ वदस्व वदतां वर ॥ १२३॥ श्रीमहादेव उवाच । सगुणो निर्गुणश्चाऽपि द्विविधो भेद ईर्यते । उपासनाविधेर्देवि सगुणोऽपि द्विधा मतः ॥ १२४॥ सकामोपासनायाश्च भेदा यद्यपि नैकशः । परन्त्वनन्यभक्तानां जनानां मुक्तिमिच्छताम् ॥ १२५॥ भेदत्रितयमेवैतद्रहस्यं देवि गोपितम् । वक्ष्ये गुप्तरहस्यं तद्भवतीं भाग्यशालिनीम् ॥ १२६॥ समाहितेन शान्तेन स्वान्तेनैवाऽवधार्यताम् । पञ्चानामपि देवानां ब्रह्मणो निर्गुणस्य च ॥ १२७॥ लीलाविग्रहरूपाणाञ्चेत्युपास्तिस्त्रिधा मता । विष्णुः सूर्यश्च शक्तिश्च गणाधीशश्च शङ्करः ॥ १२८॥ पञ्चोपास्याः सदा देवि सगुणोपासनाविधौ । एते पञ्च महेशानि सगुणो भेद ईरितः ॥ १२९॥ सच्चिदानन्दरूपस्य ब्रह्मणो नाऽत्र संशयः । निर्गुणोऽपि निराकारो व्यापकः स परात्परः ॥ १३०॥ साधकानां हि कल्याणं विधातुं वसुधातले । बिभर्ति सगुणं रूपं त्वत्साहाय्यात्पतिव्रते ॥ १३१॥ यथा गवां शरीरेषु व्याप्तं दुग्धं रसात्मकम् । परं पयोधरादेव केवलं क्षरते ध्रुवम् ॥ १३२॥ तथैव सर्वव्याप्तोऽपि देवो व्यापकभावतः । दिव्यषोडशदेशेषु पूज्यते परमेश्वरः ॥ १३३॥ वह्न्यम्बुलिङ्गकुड्यानि स्थण्डिलं पटमण्डले । विशिखं नित्ययन्त्रञ्च भावयन्त्रञ्च विग्रहः ॥ १३४॥ पीठश्चापि विभूतिश्च हृन्मूर्द्धापि महेश्वरि । एते षोडश दिव्याश्च देशाः प्रोक्ता मयाऽनघे ॥ १३५॥ यद्यच्छरीरमाश्रित्य भगवान्सर्वशक्तिमान् । वतीर्णो विविधा लीला विधाय वसुधातले ॥ १३६॥ जगत्पालयते देवि लीलाविग्रह एव सः । उपासनाऽनुसारेण वेदशास्त्रेषु भूरिशः ॥ १३७॥ लीलाविग्रहरूपाणामितिहासोऽपि लभ्यते । तदुपासनकञ्चाऽपि सगुणं परिकीर्तितम् ॥ १३८॥ विष्णोः सूर्यश्च शक्तेश्च गणेशस्य शिवस्य च । गीतासु गीता ये शब्दा विष्णुसूर्यादयः प्रिये ॥ १३९॥ ब्रह्मणश्चाद्वितीयस्य साक्षात्ते चापि वाचकः । भक्तिस्तु त्रिविधा ज्ञेया वैधी रागात्मिका परा ॥ १४०॥ देवे परोऽनुरागस्तु भक्तिः सम्प्रोच्यते बुधैः । विधिना या विनिर्णीता निषेधेन तथा पुनः ॥ १४१॥ साध्यमाना च या धीरैः सा वैधी भक्तिरुच्यते । ययाऽऽस्वाद्य रसान्भक्तेर्भावे मज्जति साधकः ॥ १४२॥ रागात्मिका सा कथिता भक्तियोगविशारदैः । पराऽऽनन्दप्रदा भक्तिः पराभक्तिर्मता बुधैः ॥ १४३॥ या प्राप्यते समाधिस्थैर्योगिभिर्योगपारगैः । त्रैगुण्यभेदास्त्रिविधा भक्ता वै परिकीर्तिताः ॥ १४४॥ आर्तो जिज्ञासुरर्थार्थी तथा त्रिगुणतः परः । पराभक्त्यधिकारी यो ज्ञानिभक्तः स तुर्यकः ॥ १४५॥ उपासकाः स्युस्त्रिविधास्त्रिगुणस्याऽनुसारतः । ब्रह्मोपासक एवाऽत्र श्रेष्ठः प्रोक्तो मनीषिभिः ॥ १४६॥ प्रथमा सगुणोपास्तिरवताराऽर्चनाश्च याः । विहिता ब्रह्मबुद्ध्या चेदत्रैवाऽन्तर्भवन्ति ताः ॥ १४७॥ सकामबुद्ध्या विहितं देवर्षिपितृपूजनम् । मध्यमं मध्यमा ज्ञेयास्तत्कर्तारस्तथा पुनः ॥ १४८॥ अधमा वै समाख्याताः क्षुद्रशक्तिसमर्चकाः । प्रेत्याद्युपासङ्काश्चैव विज्ञेया ह्यधमाऽधमाः ॥ १४९॥ सर्वोपासनहीनास्तु पशवः परिकीर्तिताः । ब्रह्मोपासनमेवाऽत्र मुख्यं परममङ्गलम् ॥ १५०॥ निःश्रेयसकरं ज्ञेयं सर्वश्रेष्ठं शुभावहम् ॥ १५१॥ श्रीमहादेव्युवाच । यथा मे गुरुमाहात्म्यं सम्यग्ज्ञातं भवेत्प्रभो । तथा विस्तरतो नाथ तन्माहात्म्यमुदाहर ॥ १५२॥ सद्गुरोमहिमा देव सम्यग्ज्ञातः श्रुतो भुवि । अज्ञानतमसाऽऽच्छन्नं मनोमलमपोहति ॥ १५३॥ श्रीमहादेव उवाच । गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ १५४॥ अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १५५॥ अज्ञानतिमिराऽन्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ १५६॥ स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराऽचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १५७॥ चिन्मयं व्याप्नुवन्सर्वं त्रैलोक्यं सचराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १५८॥ सर्वश्रुतिशिरोरत्नविराजितपदाऽम्बुजः । वेदान्ताऽम्बुजसूर्यो यस्तस्मै श्रीगुरवे नमः ॥ १५९॥ चेतनः शाश्वतः शान्तो व्योमाऽतीतो निरञ्जनः । बिन्दुनादकलातीतस्तस्मै श्रीगुरवे नमः ॥ १६०॥ ज्ञानशक्तिसमारूढस्तत्त्वमालाविभूषितः । भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥ १६१॥ अनेकजन्मसम्प्राप्तकर्मबन्धविदाहिने । आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥ १६२॥ शोषणं भवसिन्धोश्च ज्ञापनं सारसम्पदः । गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥ १६३॥ न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः । तत्त्वज्ञानात्परं नाऽस्ति तस्मै श्रीगुरवे नमः ॥ १६४॥ मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः । मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ १६५॥ गुरुरादिरनादिश्च गुरुः परमदैवतम् । गुरोः परतरं नाऽस्ति तस्मै श्रीगुरवे नमः ॥ १६६॥ ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् । मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ १६७॥ सप्तसागरपर्यन्ततीर्थस्नानादिकैः फलम् । गुरोरङ्घ्रिपयोबिन्दुसहस्रांशेन दुर्लभम् ॥ १६८॥ गुरुरेव जगत्सर्वं ब्रह्मविष्णुशिवात्मकम् । गुरोः परतरं नाऽस्ति तस्मात् सम्पूजयेद्गुरुम् ॥ १६९॥ ज्ञानं विना मुक्तिपदं लभते गुरुभक्तितः । गुरोः परतरं नाऽस्ति ध्येयोऽसौ गुरुमार्गिणा ॥ १७०॥ गुरोः कृपाप्रसादेन ब्रह्मविष्णुसदाशिवाः । सृष्ट्यादिकसमर्थास्ते केवलं गुरुसेवया ॥ १७१॥ देवकिन्नरगन्धर्वाः पितरो यक्षचारणाः । मुनयोऽपि न जानन्ति गुरुशुश्रूषणाविधिम् ॥ १७२॥ न मुक्ता देवगन्धर्वाः पितरो यक्षकिन्नराः । ऋषयः सर्वसिद्धाश्च गुरुसेवापराङ्मुखाः ॥ १७३॥ श्रुतिस्मृतिमविज्ञाय केवलं गुरुसेवया । ते वै संन्यासिनः प्रोक्ता इतरे वेषधारिणः ॥ १७४॥ गुरोः कृपाप्रसादेन आत्मारामो हि लभ्यते । अनेन गुरुमार्गेण आत्मज्ञानं प्रवर्तते ॥ १७५॥ सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् । सर्वतीर्थावगाहस्य फलं प्राप्नोति निश्चितम् ॥ १७६॥ यज्ञव्रततपोदानजपतीर्थाऽनुसेवनम् । गुरुतत्त्वमविज्ञाय निष्फलं नाऽत्र संशयः ॥ १७७॥ मन्त्रराजमिदं देवि गुरुरित्यक्षरद्वयम् । श्रुतिवेदान्तवाक्येन गुरुः साक्षात्परं पदम् ॥ १७८॥ गुरुर्देवो गुरुर्धर्मो गुरुनिष्ठा परं तपः । गुरोः परतरं नास्ति नास्ति तत्त्वं गुरोः परम् ॥ १७९॥ धन्या माता पिता धन्यो धन्यो वंशः कुलं तथा । धन्या च वसुधा देवि गुरुभक्तिः सुदुर्लभा ॥ १८०॥ शरीरमिन्द्रियप्राणा अर्थस्वजनबान्धवाः । माता पिता कुलं देवि गुरुरेव न संशयः ॥ १८१॥ आजन्मकोट्यां देवेशि जपव्रततपःक्रियाः । एतत्सर्वं समं देवि गुरुसन्तोषमात्रतः ॥ १८२॥ विद्याधनमदेनैव मन्दभाग्याश्च ये नराः । गुरोः सेवां न कुर्वन्ति सत्यं सत्यं वदाम्यहम् ॥ १८३॥ गुरुसेवापरं तीर्थमन्यत्तीर्थमनर्थकम् । सर्वतीर्थाश्रयं देवि सद्गुरोश्चरणाम्बुजम् ॥ १८४॥ गुरुध्यानं महापुण्यं भुक्तिमुक्तिप्रदायकम् । वक्ष्यामि तव देवेशि श‍ृणुष्व कमलानने ॥ १८५॥ प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम् । वराऽभयकरं शान्तं स्मरेत्तन्नामपूर्वकम् ॥ १८६॥ वामोरुशक्तिसहितं कारुण्येनाऽवलोकितम् । प्रियया सव्यहस्तेन धृतचारुकलेवरम् ॥ १८७॥ वामेनोत्पलधारिण्या रक्ताऽऽभरणभूषया । ज्ञानाऽऽनन्दसमायुक्तं स्मरेत्तन्नामपूर्वकम् ॥ १८८॥ अखण्डमण्डलाऽऽकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १८९॥ नमोऽस्तु गुरवे तस्मै इष्टदेवस्वरूपिणे । यस्य वाक्याऽमृतं हन्ति विषं संसारसंज्ञितम् ॥ १९०॥ श्रीमहादेव्युवाच । मदेकहृदयाऽऽनन्द जगदात्मन् महेश्वर । उपास्यस्य रहस्यं मे माहात्म्यञ्चापि सद्गुरोः ॥ १९१॥ वर्णितं यत्त्वया नाथ कृतकृत्याऽस्मि साम्प्रतम् । भूयोऽपि श्रोतुमिच्छामि त्वन्मुखाज्जगदीश्वर ॥ १९२॥ परतत्त्वैकरूपस्य तत्त्वाऽतीतपराऽऽत्मनः । समासेन स्वरूपं मे वर्णयित्वा कृपां कुरु ॥ १९३॥ श्रीमहदेव उवाच । स एक एव सद्रूपः सत्योऽद्वैतः परात्परः । स्वप्रकाशः सदा पूर्णः सच्चिदानन्दलक्षणः ॥ १९४॥ निर्विकारो निराधारो निर्विशेषो निराकुलः । गुणातीतः सर्वसाक्षी सर्वात्मा सर्वदृग्विभुः ॥ १९५॥ गूढः सर्वेषु भूतेषु सर्वव्यापी सनातनः । सर्वेन्द्रिय गुणाभासः सर्वेन्द्रियविवर्जितः ॥ १९६॥ लोकाऽतीतो लोकहेतुरवाङ्मनसगोचरः । स वेत्ति विश्वं सर्वज्ञस्तं न जानाति कश्चन ॥ १९७॥ तदधीनं जगत्सर्वं त्रैलोक्यं सचराऽचरम् । तदालम्बनतस्तिष्ठेदवितर्क्यमिदं जगत् ॥ १९८॥ तत्सत्यतामुपाऽऽश्रित्य सद्वद्भाति पृथक् पृथक् । तेनैव हेतुभूतेन वयं जाता महेश्वरि ॥ १९९॥ कारणं सर्वभूतानां स एकः परमेश्वरः । लोकेषु सृष्टिकरणात्स्रष्टा ब्रह्मेति गीयते ॥ २००॥ विष्णुः पालयिता देवि संहर्ताऽहं तदिच्छया । इन्द्राऽऽदयो लोकपालाः सर्वे तद्वशवर्तिनः ॥ २०१॥ स्वे स्वेऽधिकारे निरतास्ते शासति तदाज्ञया । त्वं पुरा प्रकृतिस्तस्य पूज्याऽसि भुवनत्रये ॥ २०२॥ तेनाऽन्तर्यामिरूपेण तत्तद्विपययोजिताः । स्वस्वकर्म प्रकुर्वन्ति न स्वतन्त्राः कदाचन ॥ २०३॥ यद्भयाद्वाति वातोऽपि सूर्यस्तपति यद्भयात् । वर्षन्ति तोयदाः काले पुष्ष्यन्ति तरवो वने ॥ २०४॥ कालं कलयते काले मृत्योर्मृत्युर्भियो भयम् । वेदान्तवेद्यो भगवान्यत्तच्छब्दोपलक्षितः ॥ २०५॥ सर्वे देवाश्च देव्यश्च तन्मयाः सुरवन्दिते । आब्रह्मस्तम्बपर्यन्तं तन्मयं सकलं जगत् ॥ २०६॥ तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते प्रीणितं जगत् । तदाराधनतो देवि सर्वेषां प्रीणनं भवेत् ॥ २०७॥ तरोर्मूलाऽभिषीकेण यथा तद्भुजपल्लवाः । तृप्यन्ति तदनुष्ठानात्तथा सर्वेऽमरादयः ॥ २०८॥ श्रीमहादेव्युवाच । संसाररोगहृन्नाथ करुणावरुणाऽऽलय । गुरोत्माहात्म्यपूर्णा या गुरोर्गीता सुवर्णिता ॥ २०९॥ तत्स्वाध्यायस्य माहात्म्यं फलञ्चाऽपि विनिर्दिश । जीवमङ्गलमेतेन कृपातोऽतः कृपाऽर्णव ॥ २१०॥ सम्यग्विविच्य संवर्ण्य विनोदय दयार्णव । त्वदृते को हि देवेश शिक्षां मेऽन्यो विधास्यति ॥ २११॥ श्रीमहादेव उवाच । इदं तु भक्तिभावेन पठ्यते श्रूयतेऽथवा । लिखित्वा वा प्रदीयेत सर्वकामफलप्रदम् ॥ २१२॥ गुरुगीताऽभिधं देवि शुद्धं तत्त्वं मयोदितम् । भवव्याधिविनाशार्थं स्वयमेव सदा जपेत् ॥ २१३॥ गुरुगीताऽक्षरैकैकं मन्त्रराजमिदं प्रिये । अनेन विविधा मन्त्राः कलां नार्हन्ति षोडशीम् ॥ २१४॥ सर्वपापहरं स्तोत्रं सर्वदारिद्र्यनाशनम् । अकालमृत्युहरणं सर्वसङ्कटनाशनम् ॥ २१५॥ यक्षराक्षसभूतानां चौरव्याघ्रभयाऽपहम् । महाव्याधि हरञ्चैव विभूतिसिद्धिदं ध्रुवम् ॥ २१६॥ मोहनं सर्वभूतानां परं बन्धनमोचनम् । देवभूतप्रियकरं लोकान्स्ववशमानयेत् ॥ २१७॥ मुखस्तम्भकरं नॄणां सद्गुणानां विवर्धनम् । दुष्कर्मनाशनञ्चैव सत्कर्मसिद्धिदं भवेत् ॥ २१८॥ भक्तिदं सिद्धयेत् कार्यं नवग्रहभयाऽपहम् । दुःस्वप्ननाशनञ्चैव सत्कर्मसिद्धिदं भवेत् ॥ २१९॥ सर्वशान्तिकरं नित्यं वन्ध्यापुत्रफलप्रदम् । अवैधव्यकरं स्त्रीणां सौभाग्यदायकं परम् ॥ २२०॥ आयुरारोग्यमैश्वर्यपुत्रपौत्रादिवर्धकम् । निष्कामतस्त्रिवारं वा जपन्मोक्षमवाप्नुयात् ॥ २२१॥ सर्वदुःखभयं विघ्नं नाशयेत्तापहारकम् । सर्वबाधाप्रशमनं धर्माऽर्थकाममोक्षदम् ॥ २२२॥ यो यं चिन्तयते कामं स तमाप्नोति निश्चितम् । कामिनां कामधेनुश्च कल्पितं च सुरद्रुमः ॥ २२३॥ चिन्तामणिं चिन्तितस्य सर्वमङ्गलकारकम् । जपेच्छाक्तस्य शैवश्च गाणपत्यश्च वैष्णवः ॥ २२४॥ सौरश्च सिद्धिदं देवि धर्मार्थकाममोक्षदम् । संसारमलनाशाऽर्थं भवतापनिवृत्तये ॥ २२५॥ गुरुगीताऽम्भसि स्नानं तत्त्वज्ञः कुरुते सदा । योगयुञ्जानचित्तानां गीतेयं ज्ञानवर्धिका ॥ २२६॥ त्रितापतापितानाञ्च जीवानां परमौषधम् । संसाराऽपारपाथोधौ मज्जतां तरणिः शुभा ॥ २२७॥ देशः शुद्धः स यत्राऽसौ गीता तिष्ठति दुर्लभा । तत्र देवगणाः सर्वे क्षेत्रपीठे वसन्ति हि ॥ २२८॥ शुचिरेव सदा ज्ञानी गुरुगीताजपेन तु । तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते ॥ २२९॥ सत्यं सत्यं पुनः सत्यं निजधर्मो मयोदितः । गुरुगीतासमो नाऽस्ति सत्यं सत्यं वरानने ॥ २३०॥ इति श्रीगुरुगीता समाप्ता । Dharmamandala print version