अक्षर आकार:

श्रीमद् गीतासारः

shrImad gItAsAraH

श्रीमद् गीतासारः

श्रीभगवानुवाच -- गीतासारं प्रवक्ष्यामि अर्जुनायोदितं पुरा । अष्टाङ्गयोगयुक्तात्मा सर्ववेदान्तपारगः ॥ १॥ आत्मलाभः परो नान्य आत्मा देहादिवर्जितः। रूपादिहीनो देहान्तःकरणत्वादिलोचनम् ॥ २॥ विज्ञानरहितः प्राणः सुषुप्तोऽहं प्रतीयते । नाहमात्मा च दुःखादि संसारादिसमन्वयात् ॥ ३॥ विधूम इव दीप्तार्चिरादीप्त इव दीप्तिमान् । वैद्युतोऽग्निरिवाकाशे हृत्सङ्गे आत्मनाऽऽत्मनि ॥ ४॥ श्रोत्रादीनि न पश्यन्ति स्वं स्वमात्मानमात्मना । सर्वज्ञः सर्वदर्शी च क्षेत्रज्ञस्तानि पश्यति ॥ ५॥ सदा प्रकाशते ह्यात्मा पटे दीपो जलन्निव । ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः ॥ ६॥ यथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि । इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्चकम् ॥ ७॥ मनोबुद्धिरहङ्कारमव्यक्तं पुरुषस्तथा । प्रसंख्यानपराव्याप्तो विमुक्तो बन्धनैर्भवेत् ॥ ८॥ इन्द्रियग्राममखिलं मनसाभिनिवेश्य च । मनश्चैवाप्यहङ्कारे प्रतिष्ठाप्य च पाण्डव ॥ ९॥ अहङ्कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि । प्रकृतिं पुरुषे स्थाप्य पुरुषं ब्रह्मणि न्यसेत् ॥ १०॥ नवद्वारमिदं गेहं तिसॄणां पञ्चसाक्षिकम् । क्षेत्रज्ञाधिष्ठितं विद्वान् यो वेद स परः कविः ॥ ११॥ अश्वमेधसहस्राणि वाजपेयशतानि च । ज्ञानयज्ञस्य सर्वाणि कलां नार्हन्ति षोडशीम् ॥ १२॥ श्रीभगवानुवाच -- यमश्च नियमः पार्थ आसनं प्राणसंयमः । प्रत्याहारस्तथा ध्यानं धारणार्जुन सप्तमी । समाधिविधि चाष्टाङ्गो योग उक्तो विमुक्तये ॥ १३॥ कायेन मनसा वाचा सर्वभुतेषु सर्वदा । हिंसाविरामको धर्मो ह्यहिंसा परमं सुखम् ॥ १४॥ विधिना या भवेद्धिंसा सा त्वहिंसा प्रकीर्तिता । सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ १५॥ यच्च द्रव्यापहरणं चौर्याद्वाथ बलेन वा । स्तेयं तस्यानाचरणं अस्तेयं धर्मसाधनम् ॥ १६॥ कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा। सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते ॥ १७॥ द्रव्याणामप्यनादानमापत्स्वपि तथेच्छया । अपरिग्रहमित्याहुस्तं प्रयत्नेन वर्जयेत् ॥ १८॥ द्विधा शौचं मृज्जलाभ्यां बाह्यं भावादथान्तरम्। यदृच्छालाभतस्तुष्टिः सन्तोषः सुखलक्षणम् ॥ १९॥ मनसश्चेन्द्रियाणां च ऐकाग्र्यं परमं तपः । शरीरशोषणं वापि कृच्छ्रचान्द्रायणादिभिः ॥ २०॥ वेदान्तशतरुद्रीयप्रणवादि जपं बुधाः । सत्त्वशुद्धिकरं पुंसां स्वाध्यायं परिचक्षते ॥ २१॥ स्तुतिस्मरणपूजादि वाङ्मनःकायकर्मभिः । अनिश्चला हरौ भक्तिरेतदीश्वरचिन्तनम् ॥ २२॥ आसनं स्वस्तिकं प्रोक्तं पद्ममर्धासनस्तथा । प्राणः स्वदेहजो वायुरारामस्तन्निरोधनम् ॥ २३॥ इन्द्रियाणां विचरतां विषयेषु त्वसत्स्विव । निरोधः प्रोच्यते सद्भिः प्रत्याहारस्तु पाण्डव ॥ २४॥ मूर्तामूर्तब्रह्मरूपचिन्तनं ध्यानमुच्यते । योगारम्भे मूर्तहरिं अमूर्तमपि चिन्तयेत् ॥ २५॥ अग्निमण्डलमध्यस्थो वायुर्देवश्चतुर्भुजः । शंखचक्रगदापद्मयुक्तः कौस्तुभसंयुतः ॥ २६॥ वनमाली कौस्तुभेन रतोऽहं ब्रह्मसंज्ञकः । धारणेत्युच्यते चेयं धार्यते यन्मनोलये ॥ २७॥ अहं ब्रह्मेत्यवस्थानं समाधिरभिधीयते । अहं ब्रह्मास्मि वाक्याच्च ज्ञानान्मोक्षो भवेन्नृणाम् ॥ २८॥ श्रद्धयानन्दचैतन्यं लक्षयित्वा स्थितस्य च । ब्रह्माहमस्म्यहं ब्रह्म अहं-ब्रह्म-पदार्थयोः ॥ २९॥ हरिरुवाच -- गीतासारमिति प्रोक्तं विधिनापि मया तव । यः पठेत् श‍ृणुयाद्वापि सोऽपि मोक्षमवाप्नुयात् ॥ ३०॥ इति ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रीमद्गीतासारः समाप्तः ॥