अक्षर आकार:

षड्जगीता

ShaDjagItA

षड्जगीता

अध्यायः १६१ व् इत्युक्तवति भीष्मे तु तूष्णी भूते युधिष्ठिरः । पप्रच्छावसरं गत्वा भ्रातॄन्विदुर पञ्चमान् ॥ १॥ धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता । तेषां गरीयान्कतमो मध्यमः को लघुश्च कः ॥ २॥ कस्मिंश्चात्मा नियन्तव्यस्त्रिवर्गविजयाय वै । सन्तुष्टा नैष्ठिकं वाक्यं यथावद्वक्तुमर्हथ ॥ ३॥ ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान् । जगाद विरुदो वाक्यं धर्मशास्त्रमनुस्मरन् ॥ ४॥ बाहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा । भावशुद्धिर्दया सत्यं संयमश्चात्मसम्पदः ॥ ५॥ एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः । एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम् ॥ ६॥ धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः । धर्मेण देवा दिविगा धर्मे चार्थः समाहितः ॥ ७॥ धर्मो राजन्गुणश्रेष्ठो मध्यमो ह्यर्थ उच्यते । कामो यवीयानिति च प्रवदन्ति मनीषिणः । तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना ॥ ८॥ समाप्तवचने तस्मिन्नर्थशास्त्रविशारदः । पार्थो वाक्यार्थतत्त्वज्ञो जगौ वाक्यमतन्द्रितः ॥ ९॥ कर्मभूमिरियं राजन्निह वार्ता प्रशस्यते । कृषिवाणिज्य गोरक्ष्यं शिल्पानि विविधानि च ॥ १०॥ अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः । न ऋतेऽर्थेन वर्तेते धर्मकामाविति श्रुतिः ॥ ११॥ विजयी ह्यर्थवान्धर्ममाराधयितुमुत्तमम् । कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः ॥ १२॥ अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः । अर्थसिद्ध्या हि निर्वृत्तावुभावेतौ भविष्यतः ॥ १३॥ उद्भूतार्थं हि पुरुषं विशिष्टतर योनयः । ब्रह्माणमिव भूतानि सततं पर्युपासते ॥ १४॥ जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः । मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक् ॥ १५॥ काषायवसनाश्चान्ये श्मश्रुला ह्रीसुसंवृताः । विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः ॥ १६॥ अर्थार्थिनः सन्ति के चिदपरे स्वर्गकाङ्क्षिणः । कुलप्रत्यागमाश्चैके स्वं स्वं मार्गमनुष्ठिताः ॥ १७॥ आस्तिका नास्तिकाश्चैव नियताः संयमे परे । अप्रज्ञानं तमो भूतं प्रज्ञानं तु प्रकाशता ॥ १८॥ भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान् । एतन्मतिमतां श्रेष्ठ मतं मम यथातथम् । अनयोस्तु निबोध त्वं वचनं वाक्यकण्ठयोः ॥ १९॥ ततो धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम् । नकुलः सहदेवश्च वाक्यं जगदतुः परम् ॥ २०॥ आसीनश्च शयानश्च विचरन्नपि च स्थितः । अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि ॥ २१॥ अस्मिंस्तु वै सुसंवृत्ते दुर्लभे परमप्रिय । इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः ॥ २२॥ योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः । मध्विवामृत संयुक्तं तस्मादेतौ मताविह ॥ २३॥ अनर्थस्य न कामोऽस्ति तथार्थोऽधर्मिणः कुतः । तस्मादुद्विजते लोको धर्मार्थाद्यो बहिष्कृतः ॥ २४॥ तस्माद्धर्मप्रधानेन साध्योऽर्थः संयतात्मना । विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि ॥ २५॥ धर्मं समाचरेत्पूर्वं तथार्थं धर्मसंयुतम् । ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम् ॥ २६॥ विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ । भीमसेनस्तदा वाक्यमिदं वक्तुं प्रचक्रमे ॥ २७॥ नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति । नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते ॥ २८॥ कामेन युक्ता ऋषयस्तपस्येव समाहिताः । पलाशफलमूलाशा वायुभक्षाः सुसंयताः ॥ २९॥ वेदोपवादेष्वपरे युक्ताः स्वाध्यायपारगाः । श्राद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे ॥ ३०॥ वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा । दैवकर्म कृतश्चैव युक्ताः कामेन कर्मसु ॥ ३१॥ समुद्रं चाविशन्त्यन्ये नराः कामेन संयुताः । कामो हि विविधाकारः सर्वं कामेन सन्ततम् ॥ ३२॥ नास्ति नासीन्नाभविष्यद्भूतं कामात्मकात्परम् । एतत्सारं महाराज धर्मार्थावत्र संश्रितौ ॥ ३३॥ नव नीतं यथा दध्नस्तथा कामोऽर्थधर्मतः । श्रेयस्तैलं च पिण्याकाद्धृतं श्रेय उदश्वितः ॥ ३४॥ श्रेयः पुष्पफलं काष्ठात्कामो धर्मार्थयोर्वरः । पुष्पितो मध्विव रसः कामात्सञ्जायते सुखम् ॥ ३५॥ सुचारु वेषाभिरलङ्कृताभिर् मदोत्कटाभिः प्रियवादिनीभिः । रमस्व योषाभिरुपेत्य कामं कामो हि राजंस्तरसाभिपाती ॥ ३६॥ बुद्धिर्ममैषा परिषत्स्थितस्य मा भूद्विचारस्तव धर्मपुत्र । स्यात्संहितं सद्भिरफल्गुसारं समेत्य वाक्यं परमानृशंस्यम् ॥ ३७॥ धर्मार्थकामाः सममेव सेव्या यस्त्वेकसेवी स नरो जघन्यः । द्वयोस्तु दक्षं प्रवदन्ति मध्यं स उत्तमो यो निरतिस्त्रिवर्गे ॥ ३८॥ प्राज्ञः सुहृच्चन्दनसारलिप्तो विचित्रमाल्याभरणैरुपेतः । ततो वचः सङ्ग्रहविग्रहेण प्रोक्त्वा यवीयान्विरराम भीमः ॥ ३९॥ ततो मुहूर्तादथ धर्मराजो वाक्यानि तेषाम् अनुचिन्त्य सम्यक् । उवाच वाचावितथं स्मयन्वै बहुश्रुतो धर्मभृतां वरिष्ठः ॥ ४०॥ निःसंशयं निश्चित धर्मशास्त्राः सर्वे भवन्तो विदितप्रमाणाः । विज्ञातु कामस्य ममेह वाक्यम् उक्तं यद्वै नैष्ठिकं तच्छ्रुतं मे । इह त्ववश्यं गदतो ममापि वाक्यं निबोधध्वमनन्यभावाः ॥ ४१॥ यो वै न पापे निरतो न पुण्ये नार्थे न धर्मे मनुजो न कामे । विमुक्तदोषः समलोष्ट काञ्चनः स मुच्यते दुःखसुखार्थ सिद्धेः ॥ ४२॥ भूतानि जाती मरणान्वितानि जरा विकारैश्च समन्वितानि । भूयश्च तैस्तैः प्रतिबोधितानि मोक्षं प्रशंसन्ति न तं च विद्मः ॥ ४३॥ स्नेहे न बुद्धस्य न सन्ति तानीत्य् एवं स्वयम्भूर्भगवानुवाच । बुधाश्च निर्वाणपरा वदन्ति तस्मान्न कुर्यात्प्रियमप्रियं च ॥ ४४॥ एतत्प्रधानं न तु कामकारो यथा नियुक्तोऽस्मि तथा चरामि । भूतानि सर्वाणि विधिर्नियुङ्क्ते विधिर्बलीयानिति वित्तसर्वे ॥ ४५॥ न कर्मणाप्नोत्यनवाप्यमर्थं यद्भावि सर्वं भवतीति वित्त । त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं तस्मादिदं लोकहिताय गुह्यम् ॥ ४६॥ ततस्तदग्र्यं वचनं मनोऽनुगं समस्तमाज्ञाय ततोऽतिहेतुमत् । तदा प्रणेदुश्च जहर्षिरे च ते कुरुप्रवीराय च चक्रुरञ्जलीन् ॥ ४७॥ सुचारु वर्णाक्षर शब्दभूषितां मनोऽनुगां निर्धुत वाक्यकण्टकाम् । निशम्य तां पार्थिव पार्थ भाषितां गिरं नरेन्द्राः प्रशशंसुरेव ते । पुनश्च पप्रच्छ सरिद्वरासुतं ततः परं धर्ममहीन सत्त्वः ॥ ४८॥ ॥ इति षड्जगीता समाप्ता ॥ Adhyaya number 161 in shAntiparva, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition it is 167.