अक्षर आकार:

शौनकगीता

shaunakagItA

शौनकगीता

॥ अथ शौनकगीता॥ शोकस्थानसहस्राणि भयस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ १॥ न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु । श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ २॥ अष्टाङ्गां बुद्धिमाहुर्या सर्वाश्रेयोविघातिनीम् । श्रुतिस्मृतिसमायुक्तां राजन्सा त्वय्यवस्थिता ॥ ३॥ अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च । शारीर मानसैर्दुःखैर्नसीदन्ति भवद्विधाः ॥ ४॥ श्रूयतां चाभिधास्यामि जनकेन यथा पुरा । आत्मव्यवस्थानकरा गीताः श्लोका महात्मना ॥ ५॥ मनोदेहसमुत्थाभ्यां दुःखाभ्यां मर्दितं जगत् । तयोर्व्याससमासाभ्यां शमोपायमिमं श्रुणु ॥ ६॥ व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात् । दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते ॥ ७॥ तदातत्प्रतिकाराच्च सततं चाविचिन्तनात् । आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु ॥ ८॥ मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते । मानसस्य प्रियाख्यानैः संभोगोपनयैर्नृणाम् ॥ ९॥ मानसेनहि दुःखेन शरीरमुपतप्यते । अयस्तप्तेन पिण्डेन कुम्भसंस्थमिवोदकम् ॥ १०॥ मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना । प्रशान्ते मानसे ह्यस्य शारीरमुपशाम्यति ॥ ११॥ मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते । स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च ॥ १२॥ स्नेहमूलानि दुःखानि स्नेहजानि भयानि च । शोकहर्षौ तथायासः सर्वस्नेहात्प्रवर्तते ॥ १३॥ स्नेहाद्भावोऽनुरागश्च प्रजज्ञे विषये तथा । अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः ॥ १४॥ कोटराग्निर्यथाशेषं समूलं पादपं दहेत् । धर्मार्थौ तु तथाऽल्पोपि रागदोषो विनाशयेत् ॥ १५॥ विप्रयोगेन तु त्यागी दोषदर्शी समागमे । विरागं भजते जन्तुर्निर्वैरो निरवग्रहः ॥ १६॥ तस्मात्स्नेहं न लिप्सेत मित्रेभ्यो धनसंचयात् । स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत् ॥ १७॥ ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु । न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् ॥ १८॥ रागाभिभूतः पुरुषः कामेन परिकृष्यते । इच्छा संजायते तस्य ततस्तृष्णा विवर्धते ॥ १९॥ तृष्णाहि सर्वपापिष्ठा नित्योद्वेगकरी स्मृता । अधर्मबहुला चैव घोरा पापानुबन्धिनी ॥ २०॥ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । योसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ २१॥ अनाद्यन्ता हि सा तृष्णा अन्तर्देहगता नृणाम् । विनाशयति भूतानि अयोनिज इवानलः ॥ २२॥ यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति । तथाऽकृतात्मा लोभेन सहजेन विनश्यति ॥ २३॥ राजतः सलिलादग्नेश्चोरतः स्वजनादपि । भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥ २४॥ यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि । भक्ष्यन्ते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान् ॥ २५॥ अर्थ एव हि केषांचिदनर्थ भजते नृणाम् । अर्थ श्रेयसि चासक्तो न श्रेयो विन्दते नरः ॥ २६॥ तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः । कार्पण्यं दर्पमानौ च भयमुद्वेग एव च ॥ २७॥ अर्थजानिं विदुः प्राज्ञा दुःखन्येतानि देहिनाम् । अर्थस्योत्पादने चैव पालने च तथाक्षये ॥ २८॥ सहन्ति च महद्दुःखं घ्नन्ति चैवार्थकारणात् । अर्थाद्दुःखं परित्यक्तं पालिताश्चैव शत्रवः ॥ २९॥ दुःखेन चाधिगम्यन्ते तस्मान्नाशं न चिन्तयेत् । असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः ॥ ३०॥ अन्तो नास्ति पिपासायाः सन्तोषः परमं सुखम् । तस्मात्सन्तोषमेवेह परं पश्यन्ति पण्डिताः ॥ ३१॥ अनित्यं यौवनं रूपं जीवितं रत्नसंचयः । ऐश्वर्यं प्रियसंवासो गृद्ध्येत्तत्र न पण्डितः ॥ ३२॥ त्यजेत सञ्चयांस्तस्मात्तज्जान्क्लेशान् सहेत च । न हि सञ्चयवान्कश्चिद्दृश्यते निरुपद्रवः । अतश्च धार्मिकैः पुंभिरनीहार्थः प्रशस्यते ॥ ३३॥ धर्मार्थ यस्य वित्तेहा वरं तस्य निरीहता । प्रक्षालनाद्धि पङ्कस्य श्रेयो न स्पर्शनं नृणाम् ॥ ३४॥ युधिष्ठिरैवं सर्वेषु न स्पृहां कर्तुमर्हसि । धर्मेण यदिते कार्य विमुक्तेच्छो भवार्थतः ॥ ३५॥ ॥ इति शौनकगीता समाप्ता ॥ From Mahabharata Vanaparva Adhyaya 2, shloka 15-48.