अक्षर आकार:

शम्पाकगीता

shaMpAkagItA

शम्पाकगीता

अध्ययः १७६ युधिष्ठिर उवाच । धनिनश्चाधना ये च वर्तयन्ते स्वतन्त्रिणः । सुखदुःखागमस्तेषां कः कथं वा पितामह ॥ १॥ भीष्म उवाच । अत्राप्युदाहरन्तीममितिहासं पुरातनम् । शंपाकेनेह मुक्तेन गीतं शान्तिगतेन च ॥ २॥ अब्रवीन्मां पुरा कश्चिद्ब्राह्मणस्त्यागमाश्रितः । क्लिश्यमानः कुदारेण कुचैलेन बुभुक्षया ॥ ३॥ उत्पन्नमिह लोके वै जन्मप्रभृति मानवम् । विविधान्युपवर्तन्ते दुःखानि च सुखानि च ॥ ४॥ तयोरेकतरे मार्गे यदेनमभिसन्नयेत् । न सुखं प्राप्य संहृष्येन्नासुःखं प्राप्य सञ्ज्वरेत् ॥ ५॥ न वै चरसि यच्छ्रेय आत्मनो वा यदीशिषे । अकामात्मापि हि सदा धुरमुद्यम्य चैव ह ॥ ६॥ अकिञ्चनः परिपतन्सुखमास्वादयिष्यसि । अकिञ्चनः सुखं शेते समुत्तिष्ठति चैव ह ॥ ७॥ आकिञ्चन्यं सुखं लोके पथ्यं शिवमनामयम् । अनमित्रपथो ह्येष दुर्लभः सुलभो मतः ॥ ८॥ अकिञ्चनस्य शुद्धस्य उपपन्नस्य सर्वतः । अवेक्षमाणस्त्रीँल्लोकान्न तुल्यमिह लक्षये ॥ ९॥ आकिञ्चन्यं च राज्यं च तुलया समतोलयम् । अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम् ॥ १०॥ आकिञ्चन्ये च राज्ये च विशेषः सुमहानयम् । नित्योद्विग्नो हि धनवान्मृत्योरास्य गतो यथा ॥ ११॥ नैवास्याग्निर्न चारिष्टो न मृत्युर्न च दस्यवः । प्रभवन्ति धनत्यागाद्विमुक्तस्य निराशिषः ॥ १२॥ तं वै सदा कामचरमनुपस्तीर्णशायिनम् । बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः ॥ १३॥ धनवान्क्रोधलोभाभ्यामाविष्टो नष्ट चेतनः । तिर्यगीक्षः शुष्कमुखः पापको भ्रुकुटीमुखः ॥ १४॥ निर्दशन्नधरोष्ठं च क्रुद्धो दारुणभाषिता । कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम् ॥ १५॥ श्रिया ह्यभीक्ष्णं संवासो मोहयत्यविचक्षणम् । सा तस्य चित्तं हरति शारदाभ्रमिवानिलः ॥ १६॥ अथैनं रूपमानश्च धनमानश्च विन्दति । अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः ॥ १७ इत्येभिः कारणैस्तस्य त्रिभिश्चित्तं प्रमाद्यति । सम्प्रसक्तमना भोगान्विसृज्य पितृसञ्चितान् । परिक्षीणः परस्वानामादानं साधु मन्यते ॥ १८॥ तमतिक्रान्तमर्यादमाददानं ततस्ततः । प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः ॥ १९॥ एवमेतानि दुःखानि तानि तानीह मानवम् । विविधान्युपपान्ते गात्रसंस्पर्शजान्यपि ॥ २०॥ तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत् । लोकधर्ममवज्ञाय ध्रुवाणामध्रुवैः सह ॥ २१॥ नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम् । नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव ॥ २२॥ इत्येतद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम् । शंपाकेन पुरा मह्यं तस्मात्त्यागः परो मतः ॥ २३॥ इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि शंपाकगीतायां षट्सप्त्यत्यधिकशततमोऽध्यायः ॥ १७६॥ ॥ इति॥ Adhyaya numbers 179 in shAntiparva, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition they are 176.