अक्षर आकार:

शङ्करगीता

Shankara Gita

शङ्करगीता

अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु प्रथमोऽध्यायः ॥१॥ मार्कण्डेय उवाच । कैलासशिखरे रम्ये नानाधातुविचित्रिते । नानाद्रुमलताकीर्णे नानापक्षिनिनादिते ॥ १॥ गङ्गानिर्झरसंजाते सततं चारुनिःस्वने । देवदेवं महादेवं पर्यपृच्छत भार्गवः ॥ २॥ राम उवाच । देवदेव महादेव गङ्गालुलितमूर्धज । शशाङ्कलेखासंयुक्त जटाभारतिभास्वर ॥ ३॥ पार्वतीदत्तदेहार्ध कामकालाङ्गनाशन । भगनेत्रान्तकाचिन्त्य पूष्णो दशनशातन ॥ ४॥ त्वत्तः परतरं देवं नान्यं पश्यामि कञ्चन । पूजयन्ति सदा लिङ्गं तव देवाः सवासवाः ॥ ५॥ स्तुवन्ति त्वामृषिगणा ध्यायन्ति च मुहुर्मुहुः । पूजयन्ति तथा भक्त्या वरदं परमेश्वर ॥ ६॥ जगतोऽस्य समुत्पत्तिस्थितिसंहारपालने । त्वामेकं कारणं मन्ये त्वयि सर्वं प्रतिष्ठितम् ॥ ७ ॥ कं त्वं ध्यायसि देवेश तत्र मे संशयो महान् । आचक्ष्व तन्मे भगवन् यद्यनुग्राह्यता मयि ॥ ८॥ प्रमादसाम्मुख्यतया मयैतद्विस्रम्भमासाद्य जगत्प्रधान । भवन्तमीड्यं प्रणिपत्य मूर्ध्ना पृच्छामि सञ्जातकुतूहलात्मा ॥ ९॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे परशुरामोपाख्याने शङ्करगीतासु रामप्रश्नो नमैकपञ्चाशत्तमोऽध्यायः ॥५१॥
अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु द्वितीयोऽध्यायः ॥२॥ शङ्कर उवाच । त्वदुक्तोऽयमनुप्रश्नो राम राजीवलोचन । त्वमेकः श्रोतुमर्होऽसि मत्तो भृगुकुलोद्वह ॥ १॥ यत्तत्परमकं धाम मम भार्गवनन्दन । यत्तदक्षरमव्यक्तं पारं यस्मान्न विद्यते । ज्ञानज्ञेयं ज्ञानगम्यं हृदि सर्वस्य चाश्रितम् ॥ २॥ त्वामहं पुण्डरीकाक्षं चिन्तयामि जनार्दनम् । एतद्राम रहस्यं ते यथावत्कथितं वचः ॥ ३॥ ये भक्तास्तमजं देवं न ते यान्ति पराभवम् । तमीशमजमव्यक्तं सर्वभूतपरायणम् ॥ ४॥ नारायणमनिर्देश्यं जगत्कारणकारणम् । सर्वतः पाणिपादं तं सर्वतोऽक्षिशिरोमुखम् ॥ ५॥ सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति । सार्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥ ६॥ असक्तं सर्वतश्चैव निर्गुणं गुणभोक्तृ च । बहिरन्तश्च भूतनामचरश्चर एव च ॥ ७॥ सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिकं च यत् । अविभक्तं विभक्तेषु विभक्तमिव च स्थितम् ॥ ८॥ भूतवर्ति च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च । भूतभर्तृ-as per BG) ज्योतिषामपि तज्ज्योतिः तमसां परमुच्यते ॥ ९॥ (तमसः-as per BG) अनादिमत्परं ब्रह्म न सत्तन्नाऽसदुच्यते । प्रकृतिर्विकृतिर्योऽसौ जगतां भूतभावनः ॥ १०॥ यस्मात्परतरं नास्ति तं देवं चिन्तयाम्यहम् । इच्छामात्रमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ ११॥ यस्य देवादिदेवस्य तं देवं चिन्तयाम्यहम् । यस्मिन् सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ॥ १२॥ यश्च सर्वमयो देवस्तं देवं चिन्तयाम्ययम् । योगीश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् ॥ १३॥ जगन्नाथं विशालाक्षं चिन्तयामि जगद्गुरुम् । शुचिं शुचिपदं हंसं तत्परं परमेष्ठिनम् ॥ १४॥ युक्त्वा सर्वात्मनाऽऽत्मानं तं प्रपद्ये जगत्पतिम् । यस्मिन् विश्वानि भूतानि तिष्ठन्ति च विशन्ति च ॥ १५॥ गुणभूतानि भूतेशे सूत्रे मणिगणा इव । यस्मिन्नित्ये तते तन्तौ दृष्टे स्रगिव तिष्ठति ॥ १६॥ सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि । हरिं सहस्रशिरसं सहस्रचरणेक्षणम् ॥ १७॥ प्राहुर्नारायणं देवं यं विश्वस्य परायणम् । अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ॥ १८॥ गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि । यं वाकेष्वनुवाकेषु निषत्सूपनिषत्स्वपि ॥ १९॥ गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु । चतुर्भिश्चतुरात्मानं सत्त्वस्थं सात्त्वतां पतिम् ॥ २०॥ यं दिव्यैर्देवमर्चन्ति मुह्यैः परमनामभिः । यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् ॥ २१॥ इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मन्यवस्थितम् । पुराणः पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु ॥ २२॥ क्षये सङ्कर्षणः प्रोक्तस्तमुपास्यमुपास्महे । यमेकं बहुधाऽऽत्मानं प्रादुर्भूतमधोक्षजम् ॥ २३॥ नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम् । यमाहुर्जगतां कोशं यस्मिन् सन्निहिताः प्रजाः ॥ २४॥ यस्मिन् लोकाः स्फुरन्तीमे जले शकुनयो यथा । ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम् ॥ २५॥ अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः । यं सुरासुरगन्धर्वास्ससिद्धर्षिमहोरगाः ॥ २६॥ प्रयता नित्यमर्चन्ति परमं दुःखभेषजम् । अनादिनिधनं देवमात्मयोनिं सनातनम् ॥ २७॥ अप्रतर्क्यमविज्ञेयं हरिं नारायणं प्रभुम् । अतिवाय्विन्द्रकर्माणं चातिसूर्याग्नितेजसम् ॥ २८॥ अतिबुद्धीन्द्रियग्रामं तं प्रपद्ये प्रजापतिम् । यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम् ॥ २९॥ वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् । यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ॥ ३०॥ चन्द्रादित्यौ च नयने तं देवं चिन्तयाम्यहम् । यस्य त्रिलोकी जठरे यस्य काष्ठाश्च वाहनाः ॥ ३१॥ यस्य श्वासश्च पवनस्तं देवं चिन्तयाम्यहम् । विषये वर्तमानानां यं तं वैशेषिकैर्गुणैः ॥ ३२॥ प्राहुर्विषयगोप्तारं तं देवं चिन्तयाम्यहम् । परः कालात्परो यज्ञात्परस्सदसतश्च यः ॥ ३३॥ अनादिरादिर्विश्वस्य तं देवं चिन्तयाम्यहम् । पद्भ्यां यस्य क्षितिर्जाता श्रोत्राभ्यां च तथा दिशः ॥ ३४॥ पूर्वभागे दिवं यस्य तं देवं चिन्तयाम्यहम् । नाभ्यां यस्यान्तरिक्षस्य नासाभ्यां पवनस्य च ॥ ३५॥ प्रस्वेदादम्भसां जन्म तं देवं चिन्तयाम्यहम् ॥ ३६॥ वराहशीर्षं नरसिंहरूपं देवेश्वरं वामनरूपरूपम् । त्रैलोक्यनाथं वरदं वरेण्यं तं राम नित्यं मनसा नतोऽस्मि ॥ ३७॥ वक्त्राद्यस्य ब्राह्मणास्सम्प्रभूता यद्वक्षसः क्षत्रियाः सम्प्रभूताः । यस्योरुयुग्माच्च तथैव वैश्याः पद्भ्यां तथा यस्य शूद्राः प्रसूताः ॥ ३८॥ व्याप्तं तथा येन जगत्समग्रं विभूतिभिर्भूतभवोद्भवेन । देवाधिनाथं वरदं वरेण्यं तं राम नित्यं मनसा नतोऽस्मि ॥ ३९॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्रीभार्गवरामप्रश्ने शङ्करगीतासु ध्येयनिर्देशो नाम द्विपञ्चाशत्तमोऽध्यायः ॥५२॥
अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु तृतीयोऽध्यायः ॥३॥ राम उवाच । वराहं नरसिंहं च वामनं च महेश्वर । त्वत्तोऽहं श्रोतुमिच्छामि प्रादुर्भावान्महात्मनः ॥ १॥ शङ्कर उवाच । अदितिश्च दितिश्चैव द्वे भार्ये कश्यपस्य च । अदितिर्जनयामास देवानिन्द्रपुरोगमान् ॥ २॥ दितिश्च जनयामास द्वौ पुत्रौ भीमविक्रमौ । हिरण्याक्षं दुराधर्षं हिरण्यकशिपुं तथा ॥ ३॥ ततोऽभिषिक्तवान् शक्रं देवराज्ये प्रजापतिः । दानवानां तथा राज्ये हिरण्याक्षं बलोत्कटम् ॥ ४॥ अभिषिच्य तयोः प्रादात्स्वर्गं पातालमेव च । पातालं शासति तथा हिरण्याक्षे महासुरे ॥ ५॥ धराधारा धरां त्यक्त्वा खमुत्पेतू रयात्पुरा । धराधरा? पक्षवन्तो महाभाग नूनं भाव्यर्थचोदिताः ॥ ६॥ धराधरपरित्यक्ता धरा चलनिबन्धना । यदा तदा दैत्यपुरं सकलं व्याप्तमम्भसा ॥ ७॥ दृष्ट्वैव स्वपुरं व्याप्तमम्भसा दितिजोत्तमः । सैन्यमुद्योजयामास जातशङ्कः सुरान् प्रति ॥ ८॥ उद्युक्तेन स सैन्येन दैत्यानां चतुरङ्गिणा । विजित्य त्रिदशाञ्जन्ये आजहार त्रिविष्टपम् ॥ ९॥ हृताधिकारास्त्रिदशा जग्मुः शरणमञ्जसा । देवराजं पुरस्कृत्य वासुदेवमजं विभुम् ॥ १०॥ त्रिदशान् शरणं प्रप्तान् हिरण्याक्षविवासितान् । संयोज्याभयदानेन विससर्ज जनार्दनः ॥ ११॥ विसृज्य त्रिदशान् सर्वान् चिन्तयामास केशवः । किन्नु रूपमहं कृत्वा घातयिष्ये सुरार्दनम् ॥ १२॥ तिर्यङ्मनुष्यदेवानामवध्यः स सुरान्तकः । ब्रह्मणो वरदानेन तस्मात्तस्य वधेप्सया ॥ १३॥ नृवराहो भविष्यामि न देवो न च मानुषः । तिर्यग्रूपेण चैवाहं घातयिष्यामि तं ततः ॥ १४॥ एतावदुक्त्वा सङ्गेन नृवराहोऽभवत्प्रभुः । चूर्णिताञ्जनशैलाभस्तप्तजाम्बूनदाम्बरः ॥ १५॥ यमुनावर्त्तकृष्णाङ्गः तदावर्ततनूरुहः । तदोघ इव दुर्वार्यस्तत्पित्रा तेजसा समः ॥ १६॥ तत्प्रवाह इवाक्षोभ्यस्तत्प्रवाह इवौघवान् । तत्प्रवाहामलतनुस्तत्प्रवाहमनोहरः ॥ १७॥ सजलाञ्जनकृष्णाङ्गः सजलाम्बुदसच्छविः । पीतवासास्तदा भाति सविद्युदिव तोयदः ॥ १८॥ उरसा धारयन् हारं शशाङ्कसदृशच्छविः । शुशुभे सर्वभूतात्मा सबलाक इवाम्बुदः ॥ १९॥ शशाङ्कलेखाविमले दंष्ट्रे तस्य विरेजतुः । मेघान्तरितबिम्बस्य द्वौ भागौ शशिनो यथा ॥ २०॥ कराभ्यां धारयन् भाति शङ्खचक्रे जनार्दनः । चन्द्रार्कसदृशे राम पादचारीव पर्वतः ॥ २१॥ महाजीमूतसङ्काशो महाजीमूतसन्निभः । महाजीमूतवद्वेगी महाबलपराक्रमः ॥ २२॥ दानवेन्द्रवधाकाङ्क्षी हिरण्याक्षसभां ययौ । हिरण्याक्षोऽपि तं दृष्ट्वा नृवराहं जनार्दनम् ॥ २३॥ दानवांश्चोदयामास तिर्यग्जातमपूर्वकम् । गृह्यतां बध्यतां चैव क्रीडार्थं स्थाप्यतां तथा ॥ २४॥ इत्येवमुक्तः संरब्धः पाशहस्तांस्तु दानवान् । जिघृक्षमाणांश्चक्रेण जघान शतशो रणे ॥ २५॥ हन्यमानेषु दैत्येषु हिरण्याक्षोऽथ दानवान् । चोदयामास संरब्धान् वराहाधिककारणात् ॥ २६॥ चोदिता दानवेन्द्रेण दानवाः शस्त्रपाणयः । प्रववर्षुस्तथा देवं शस्त्रवर्षेण केशवम् ॥ २७॥ दैत्याः शस्त्रनिपातेन देवदेवस्य चक्रिणः । नैव शेकुर्वृथाकर्तुं यत्नवन्तोऽपि निर्भयाः ॥ २८॥ हन्यमानोऽपि दैत्येन्द्रैः दानवान् मधुसूदनः । जघान चक्रेण तदा शतशोऽथ सहस्रशः ॥ २९॥ हन्यमानेषु सैन्येषु हिरण्याक्षः स्वयं ततः । उत्थाय धनुषा देवं प्रववर्ष सुरोत्तमम् ॥ ३०॥ हिरण्याक्षस्तु तान् दृष्ट्वा विफलांश्च शिलीमुखान् । शिलीमुखाभान् सम्पश्यन् समपश्यन्महद्भयम् ॥ ३१॥ ततोऽस्त्रैर्युयुधे तेन देवदेवेन चक्रिणा । तान्यस्य फलहीनानि चकार भगवान् स्वयम् ॥ ३२॥ ततो गदां काञ्चनपट्टनद्धां विभूषितां किङ्किणिजालसङ्घैः । चिक्षेप दैत्याधिपतिः स घोरां तां चापि देवो विफलीचकार ॥ ३३॥ शक्तिं ततः पट्टविनद्धमध्यामुल्कानलाभां तपनीयचित्राम् । चिक्षेप दैत्यस्स वराहकाये हुङ्कारदग्धा निपपात सा च ॥ ३४॥ ततस्त्रिशूलं ज्वलिताग्रशूलं स शीघ्रगं देवगणस्य सङ्ख्ये । दैत्याधिपस्तस्य ससर्ज वेगादवेक्षितः सोऽपि जगाम भूमिम् ॥ ३५॥ शङ्खस्वनेनापि जनार्दनश्च विद्राव्य दैत्यान् सकलान् महात्मा । सकुण्डलं दैत्यगणाधिपस्य चिच्छेद चक्रेण शिरः प्रसह्य ॥ ३६॥ निपातिते दैत्यपतौ स देवः सम्पूजितः शक्रपितामहाभ्याम् । मया च सर्वैस्त्रिदशैः समेतैर्जगाम काष्ठां मनसा त्वभीष्टाम् ॥ ३७॥ शक्रोऽपि लब्ध्वा त्रिदिवं महात्मा चिच्छेद पक्षान् धरणीधराणाम् । ररक्ष चेमां सकलां त्रिलोकीं धर्मेण धर्मज्ञभृतां वरिष्ठः ॥ ३८॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे शङ्करगीतासु नृवराहप्रादुर्भावे हिरण्याक्षवधो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥
अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु चतुर्थोऽध्यायः ॥४॥ शङ्कर उवाच । हिरण्याक्षे हते दैत्ये भ्राता तस्य महात्मनः । हिरण्यकशिपुर्नाम चकारोग्रं महत्तपः ॥ १॥ दशवर्षसहस्राणि दशवर्षशतानि च । जयोपवासनिरतः स्नानमौनाश्रितव्रतः ॥ २॥ तपःशमदमाभ्यां च ब्रह्मचर्येण चानघ । ब्रह्मा प्रीतमनास्तस्य स्वयमागत्य भार्गव ॥ ३॥ विमानेनार्कवर्णेन हंसयुक्तेन भास्वता । आदित्यैस्सहितः साध्यैस्सहितो मरुदश्विभिः ॥ ४॥ रुद्रैर्विश्वसहायैश्च यक्षराक्षसपन्नगैः । दिग्भिर्विदिग्भिश्च तथा खेचरैश्च महाग्रहैः ॥ ५॥ निम्नगाभिः समुद्रैश्च मासर्त्वयनसंधिभिः । नक्षत्रैश्च मुहूर्तैश्च कालस्यावयवैस्तथा ॥ ६॥ देवर्षिभिः पुण्यतमैः सिद्धैः सप्तर्षिभिस्तथा । राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः ॥ ७॥ चराचरगुरुः श्रीमान् वृतः सर्वैर्दिवौकसैः । ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥ ८॥ ब्रह्मोवाच । प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रत । वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥ ९॥ हिरण्यकशिपुरुवाच । न देवासुरगन्धर्वा न यक्षोरगराक्षसाः । न मानुषाः पिशाचा वा हन्युर्मां देवसत्तम ॥ १०॥ ऋषयोऽपि न मां शापं क्रुद्धा लोकपितामह । शपेयुस्तपसा युक्ता वरमेतद्वृणोम्यहम् ॥ ११॥ न शस्त्रेण न चास्त्रेण गिरिणा पादपेन च । न शुष्केन न चाऽऽर्द्रेण वधं मे स्यात्कथञ्चन ॥ १२॥ भवेयमहमेवार्कः सोमो वायुर्हुताशनः । सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश ॥ १३॥ अहं क्रोधश्च कामश्च वरुणो वासवो यमः । धनदश्च तथाध्यक्षो यक्षः किम्पुरुषाधिपः ॥ १४॥ ब्रह्मोवाच । एते दिव्यवरांस्तात मया दत्तास्तवाद्भुताः । सर्वान् कामानिमांस्तस्मात्प्राप्स्यसि त्वं न संशयः ॥ १५॥ शङ्कर उवाच । एवमुक्त्वा स भगवान् जगामाकाशमेव हि । वैराजं देवसदनं महर्षिगणसेवितम् ॥ १६॥ ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा । वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः ॥ १७॥ देवा ऊचुः । वरेणानेन भगवन् वधिष्यति स नोऽसुरः । तन्नः प्रसीद भगवन् वधोऽप्यस्य विचिन्त्यताम् ॥ १८॥ भगवान् सर्वभूतानां स्वयम्भूरादिकृत्प्रभुः । स्रष्टा च हव्यकव्यानां चाव्यक्तः प्रकृतिर्ध्रुवः ॥ १९॥ शङ्कर उवाच । सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः । प्रोवाच वरदो वाक्यं सर्वान् देवगणांस्ततः ॥ २०॥ ब्रह्मोवाच । अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् । तत(?)स्तस्य वधं विष्णुस्तपसोऽन्ते करिष्यति ॥ २१॥ शङ्कर उवाच । एवं श्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः । स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः ॥ २२॥ लघुमात्रे वरे तस्मिन् सर्वाः सोऽबाधत प्रजाः । (लब्धमात्रे?) हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥ २३॥ आश्रमेषु महात्मानो मुनीन्द्रान् संशितव्रतान् । सत्यधर्मरतान् दान्तान् दुराधर्षो भवंस्तु सः ॥ २४॥ देवन् त्रिभुवनस्थांश्च पराजित्य महासुरः । त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ॥ २५॥ यदा वरमदोन्मत्तो ह्यावासं कृतवान् दिवि । याज्ञियान् कृतवान् दैत्यानयाज्ञेयाश्च देवताः ॥ २६॥ आदित्यवसवो रुद्रा विश्वेदेवास्तथाश्विनौ । भृगवोऽङ्गिरसः साध्या मरुतश्च सवासवाः ॥ २७॥ शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम् । देवं ब्रह्ममयं विष्णुं ब्रह्मभूतसनातनम् ॥ २८॥ भूतभव्यभविष्यस्य प्रभुं लोकपरायणम् । नारायणं विभुं देवाः शरण्यं शरणं गताः ॥ २९॥ देवा ऊचुः । त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्वधात् । त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम ॥ ३०॥ प्रोत्फुल्लामलपत्राक्ष शत्रुपक्षक्षयङ्कर । क्षयाय दितिवंशस्य शरणं त्वं भवस्व नः ॥ ३१॥ श्रीभगवानुवाच । भयं त्यजध्वममरा अभयं वो ददाम्यहम् । तथैव त्रिदिवं देवाः प्रतिपद्यत माचिरम् ॥ ३२॥ एषोऽमुं सबलं दैत्यं वरदानेन दर्पितम् । अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ॥ ३३॥ शङ्कर उवाच । एवमुक्त्वा स भगवान् विसृज्य त्रिदिवेश्वरान् । नारसिंहं वपुश्चक्रे सहस्रांशुसमप्रभम् ॥ ३४॥ प्रांशुं कनकशैलाभं ज्वालापुञ्जविभूषितम् ।दैत्यसैन्यमहाम्भोधिवडवानलवर्चसम् ॥ ३५॥ सन्ध्यानुरक्तमेघाभं नीलवाससमच्युतम् । देवदारुवनच्छन्नं यथा मेरुं महागिरिम् ॥ ३६॥ सम्पूर्णवक्त्रदशनैः शशाङ्कशकलोपमैः । पूर्णं मुक्ताफलैः शुभ्रैः समुद्रमिव काञ्चनम् ॥ ३७॥ नखैर्विद्रुमसङ्काशैर्विराजितकरद्वयम् । दैत्यनाथक्षयकरैः क्रोधस्येव यथाङ्कुरैः ॥ ३८॥ सटाभारं सकुटिलं वह्निज्वालाग्रपिङ्गलम् । धारयन् भाति सर्वात्मा दावानलमिवाचलः ॥ ३९॥ दृश्यादृश्यमुखे तस्य जिह्वाभ्युदितचञ्चला । प्रलयान्ताम्बुदस्येव चञ्चला तु तडिल्लता ॥ ४०॥ आवर्तिभिर्लोमघनैः व्याप्तं विग्रहमूर्जितम् । महाकटितटस्कन्धमलातप्रतिमेक्षणम् ॥ ४१॥ कल्पान्तमेघनिर्घोषज्वालानिःश्वासमारुतम् । दुर्निरीक्ष्यं दुराधर्षं वज्रमध्यविभीषणम् ॥ ४२॥ कृत्वा मूर्तिं नृसिंहस्य दानवेन्द्रसभां ययौ । तां बभञ्ज तु वेगेन दैत्यानां भयवर्धनः ॥ ४३॥ भज्यमानां सभां दृष्ट्वा नृसिंहेन महात्मना । हिरण्यकशिपू राजा दानवान् समचोदयत् ॥ ४४॥ सत्त्वजातमिदं घोरं चापूर्वं पुनरागतम् । घातयध्वं दुराधर्षं येन मे नाशिता सभा ॥ ४५॥ तस्य तद्वचनं श्रुत्वा दैत्याः शतसहस्रशः । आयुधैर्विविधैर्जघ्नुर्देवदेवं जनार्दनम् ॥ ४६॥ नानायुधसहस्राणि तस्य गात्रेषु भार्गव । विशीर्णान्येव दृश्यन्ते मृल्लोष्टानीव पर्वते ॥ ४७॥ दैत्यायुधानां वैफल्यं कृत्वा हत्वा च दानवान् । करपादप्रहारैश्च शतशोऽथ सहस्रशः ॥ ४८॥ जग्राह वेगाद्दैतेयं हिरण्यकशिपुं ततः । नृसिंहहेतोर्विक्रान्तमस्त्रवर्षमहाम्बुदम् ॥ ४९॥ वेगेनोत्सङ्गमारोप्य कदलीदललीलया । दारयामास दैत्येशं वक्षस्थलमहागिरिम् ॥ ५०॥ कृत्वा तमसुभिर्हीनं दैत्येशं केशवः स्वयम् । असुराणां विनाशं च क्रुद्धो नरहरिर्व्यधात् ॥ ५१॥ हत्वासुरं शोणितबिन्दुचित्रं सम्पूज्य देवाः सह वासवेन । जग्मुः स्वधिष्ण्यानि मुदा समेता देवोऽप्यथान्तर्हितमूर्तिरास ॥ ५२॥ इति श्रिविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु नरसिंहप्रादुर्भावो नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥५४॥
अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु पञ्चमोऽध्यायः ॥५॥ शङ्कर उवाच । हते हिरण्यकशिपौ दानवे देवकण्टके । हतशेषास्तु दैतेयाः पातालतलमाश्रिताः ॥ १॥ पातालतलसंस्थेषु दानवेषु महायशाः । प्रह्लादपौत्रो धर्मात्मा विरोचनसुतो बलिः ॥ २॥ आराध्य तपसोग्रेण वरं लेभे पितामहात् । अवध्यत्वमजेयत्वं समरेषु सुरासुरैः ॥ ३॥ वरलब्धं बलिं ज्ञात्वा पुनश्चक्रुर्दितेः सुताः । प्रहृष्टा दैत्यराजानं प्रह्लादानुमतेर्बलिम् ॥ ४॥ सम्प्राप्य दैत्यराज्यं तु बलेन चतुरङ्गिणा । जित्वा देवेश्वरं शक्रमाजहारामरावतीम् ॥ ५॥ स्थानभ्रष्टो महेन्द्रोऽपि कश्यपं शरणं गतः । कश्यपेन तदा सार्धं ब्रह्माणं शरणं गतः ॥ ६॥ ब्रह्मणाऽभिहितो देवं जगाम शरणं हरिम् । अमृताध्मातमेघाभं शङ्खचक्रगदाधरम् ॥ ७॥ देवोऽप्यभयदानेन संयोज्य बलसूदनं । उवाच वचनं काले मेघगंभीरया गिरा ॥ ८॥ श्रीभगवानुवाच । गच्छ शक्र भविष्यामि त्राता ते बलसूदन । देवरूपधरो भूत्वा वञ्चयिष्यामि तं बलिम् ॥ ९॥ शङ्कर उवाच । एवमुक्तस्तदा शक्रः प्रययौ कश्यपाश्रमम् । आदिदेशादितेर्गर्भं चांशेनाथ च सर्वदा ॥ १०॥ गर्भस्य एव तेजांसि दानवेभ्यः स आददे । ततः कालेन सुषुवे अदितिर्वामनाकृतिम् ॥ ११॥ यस्मिन् जाते सुरगणाः प्रहर्षमतुलं गताः । ऋषयश्च महाभागास्त्रैकाल्यामलदर्शिनः ॥ १२॥ एतस्मिन्नेव काले तु हयमेधाय दीक्षितः । बलिर्दैत्यपतिः श्रिमान् स्यालिग्राममुपाश्रितः ॥ १३॥ वामस्कन्धे तमादाय तस्य यज्ञे बृहस्पतिः । अनयद्भृगुशार्दूल नूनं तस्यैव मायया ॥ १४॥ यज्ञवाटं स सम्प्राप्य यज्ञं तुष्टाव वामनः । आत्मानमात्मना ब्रह्मन् भस्मच्छन्न इवानलः ॥ १५॥ प्रवेशयामास च तं बलिर्धर्मभृतां वरः । ददर्श च महाभागं वामनं सुमनोहरम् ॥ १६॥ संयुक्तसर्वावयवैः पीनैः सङ्क्षिप्तपर्वभिः । कृष्णाजिनजटादण्डकमण्डलुविराजितम् ॥ १७॥ विक्रमिष्यन् यथा व्याघ्रो लीयति स्म स्वविग्रहम् । विक्रमिष्यंस्तथैवोर्वीं लीनगात्रः स्वविग्रहे ॥ १८॥ एतस्मिन्नेव काले तु हयमेधाय दीक्षितः । तस्मात्तु प्रार्थयद्राजन् देहि मह्यं क्रमत्रयम् ॥ १९॥ एवमुक्तस्तु देवेन बलिर्दैत्यगणाधिपः । प्रददावुदकं तस्य पावयस्वेति चाब्रवीत् ॥ २०॥ अन्न्यच्च यदभीष्टं ते तद्गृहाण द्विजोत्तम । प्रतिजग्राह च जलं प्रवात्येव तदा हरिः ॥ २१॥ उदङ्मुखैर्दैत्यवरैः वीक्ष्यमाण इवाम्बुदः । आक्रमंस्तु हरिर्लोकान् दानवाः शस्त्रपाणयः ॥ २२॥ अभिद्रवन्ति वेगेन नानावक्त्रशिरोधराः । गरुडाननाः खड्गमुखा मयूरवदनास्तदा ॥ २३॥ घोरा मकरवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः । आखुदर्दुरवक्त्राश्च घोरवृकमुखास्तथा ॥ २४॥ मार्जारशशवक्त्राश्च हंसकाकाननास्तथा । गोधाशल्यकवक्त्राश्च अजाविमहिषाननाः ॥ २५॥ सिंहव्याघ्रश‍ृगालानां द्वीपिवानरपक्षिणाम् । हस्त्यश्वगोखरोष्ट्राणां भुजगानां समाननाः ॥ २६॥ प्रतिग्रहजलं प्राप्य व्यवर्धत तदा हरिः । उदङ्मुखैर्देवगणैरीक्षमाण इवाम्बुदः ॥ २७॥ विक्रमन्तं हरिं लोकान् दानवाः शस्त्रपाणयः । मत्स्यकच्छपवक्त्राणां दर्दुराणां समाननाः ॥ २८॥ स्थूलदन्ता विवृत्ताक्षा लम्बोष्ठजठरास्तथा । पिङ्गलाक्षा विवृत्तास्या नानाबाहुशिरोधराः ॥ २९॥ स्थूलाग्रनासाश्चिपिटा महाहनुकपालिनः । चीनांशुकोत्तरासङ्गाः केचित्कृष्णाजिनाम्बराः ॥ ३०॥ भुजङ्गभरणाश्चान्ये केचिन्मुकुटभूषिताः । सकुण्डलाः सकटकाः सशिरस्त्राणमस्तकाः ॥ ३१॥ धनुर्बाणधराश्चान्ये तथा तोमरपाणयः । खड्गचर्मधराश्चान्ये तथा परिघपाणयः ॥ ३२॥ शतघ्नीचक्रहस्ताश्च गदामुसलपाणयः । अश्मयन्त्रायुधोपेता भिण्डिपालायुधास्तथा ॥ ३३॥ शूलोलूखलहस्ताश्च परश्वधधरास्तथा । महावृक्षप्रवहणा महापर्वतयोधिनः ॥ ३४॥ क्रममाणं हृषीकेशमुपावर्तन्त सर्वशः । स तान् ममर्द सर्वात्मा तन्मुखान् दैत्यदानवान् ॥ ३५॥ सरसीव महापद्मान् महाहस्तीव दानवान् । प्रमथ्य सर्वान् दैतेयान् हस्तपादतलैस्ततः ॥ ३६॥ रूपं कृत्वा महाभीममाजहाराऽऽशु मेदिनीम् । तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ॥ ३७॥ परं प्रक्रममाणस्य नाभिदेशे व्यवस्थितौ । ततः प्रक्रममाणस्य जानुदेशे व्यवस्थितौ ॥ ३८॥ ततोऽपि क्रममाणस्य पद्भ्यां देवौ व्यवस्थितौ । जित्वा स मेदिनीं कृत्स्नां हत्वा चासुरपुङ्गवान् ॥ ३९॥ ददौ शक्राय वसुधां विष्णुर्बलवतां वरः । स्वं रूपं च तथाऽऽसाद्य दानवेन्द्रमभाषत ॥ ४०॥ श्रीभगवानुवाच । यज्ञवाटे त्वदीयेऽस्मिन् सालिग्रामे महासुर । मया निविष्टपादेन मापितेयं वसुन्धरा ॥ ४१॥ प्रथमं तु पदं जातं नौर्बन्धशिखरे मम । द्वितीयं मेरुशिखरे तृतीयं नाभवत्क्वचित् ॥ ४२॥ तन्मे वरय दैत्येन्द्र यन्मयाऽऽप्तं प्रतिग्रहम् । बलिरुवाच । यावती वसुधा देव त्वयैव परिनिर्मिता ॥ ४३॥ तावती ते न सम्पूर्णा देवदेव क्रमत्रयम् । न कृतं यत्त्वया देव कुतस्तन्मे महेश्वर ॥ ४४॥ न च तद्विद्यते देव तथैवान्यस्य कस्यचित् । श्रीभगवानुवाच । न मे त्वयाऽऽपूर्यते मे दानवेन्द्र यथाश्रुतम् ॥ ४५॥ सुतलं नाम पातालं वस तत्र सुसंयतः । मयैव निर्मिता तत्र मनसा शोभना पुरी ॥ ४६॥ ज्ञातिभिः सह धर्मिष्ठैर्वस तत्र यथासुखम् । तत्र त्वं भोक्ष्यसे भोगान् विशिष्टान् बलसूदनात् ॥ ४७॥ अवाप्स्यसि तथा भोगान् लोकाद्विधिविवर्जितान् । प्राकाम्ययुक्तश्च तथा लोकेषु विहरिष्यसि ॥ ४८॥ मन्वन्तरे द्वितीये च महेन्द्रत्वं करिष्यसि । तेजसा च मदीयेन शक्रत्वे योक्ष्यसे बले ॥ ४९॥ तव शत्रुगणान् सर्वान् घातयिष्याम्यहं तदा । ब्रह्मण्यस्त्वं शरण्यस्त्वं यज्ञशीलः प्रियंवदः ॥ ५०॥ तपस्वी दानशीलश्च वेदवेदाङ्गपारगः । तस्माद्यशोभिर्वृद्ध्यर्थं मया त्वमभिसन्धितः ॥ ५१॥ देवराजाधिकान् भोगान् पातालस्थोऽपि भोक्ष्यसे । सन्निधानञ्च तत्राहं करिष्याम्यसुराधिप ॥ ५२॥ मया च रंस्यसे सार्धं स्पृहणीयः सुरैरपि । शक्रत्वं च तथा कृत्वा भाव्ये सावर्णिकेऽन्तरे ॥ ५३॥ सर्वसंधिविनिर्मुक्तो मयैव सह रंस्यसे ॥ ५४॥ शङ्कर उवाच । इत्येवमुक्त्वा सजलाम्बुदाभः प्रतप्तचामीकरधौतवस्त्रः । अदर्शनं देववरो जगाम शक्रश्च लेभे सकलां त्रिलोकीम् ॥ ५५॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु वामनप्रादुर्भावो नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥
अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु षष्ठोऽध्यायः ॥६॥ राम उवाच । तस्य देवादिदेवस्य विष्णोरमिततेजसः । त्वत्तोऽहं श्रोतुमिच्छामि दिव्या आत्मविभूतयः ॥ १॥ शङ्कर उवाच । न शक्या विस्तराद्वक्तुं देवदेवस्य भूतयः । प्राधान्यतस्ते वक्ष्यामि श‍ृणुष्वैकमना द्विज ॥ २॥ सर्गे ब्रह्मा स्थितौ विष्णुः संहारे च तथा हरः । वरुणो वायुराकाशो ज्योतिश्च पृथिवी तथा ॥ ३॥ दिशश्च विदिश्चापि तथा ये च दिगीश्वराः । आदित्या वसवो रुद्रा भृगवोऽङ्गिरसस्तथा ॥ ४॥ साध्याश्च मरुतो देवा विश्वेदेवास्तथैव च । अश्विनौ पुरुहूतश्च गन्धर्वाप्सरसां गणाः ॥ ५॥ पर्वतोदधिपाताला लोका द्वीपाश्च भार्गव । तिर्यगूर्ध्वमधश्चैव त्विङ्गितं यश्च नेङ्गते ॥ ६॥ सच्चासच्च महाभाग प्रकृतिर्विकृतिश्च यः । कृमिकीटपतङ्गानां वयसां योनयस्तथा ॥ ७॥ विद्याधरास्तथा यक्षा नागाः सर्पाः सकिन्नराः । राक्षसाश्च पिशाचाश्च पितरः कालसंधयः ॥ ८॥ धर्मार्थकाममोक्षाश्च धर्मद्वाराणि यानि च । यज्ञाङ्गानि च सर्वाणि भूतग्रामं चतुर्विधम् ॥ ९॥ जरायुजाण्डजाश्चैव संस्वेदजमथोद्भिजम् । एकज्योतिः स मरुतां वसूनां स च पावकः ॥ १०॥ अहिर्बुध्न्यश्च रुद्राणां नादैवाश्विनयोस्तथा । नारायणश्च साध्यानां भृगूणां च तथा क्रतुः ॥ ११॥ आदित्यानां तथा विष्णुरायुरङ्गिरसां तथा । विश्वेषां चैव देवानां रोचमानः सुकीर्तितः ॥ १२॥ वासवः सर्वदेवानां ज्योतिषां च हुताशनः । यमः संयमशीलानां विरूपाक्षः क्षमाभृताम् ॥ १३॥ यादसां वरुणश्चैव पवन प्लवतां तथा । धनाध्यक्षश्च यक्षाणां रुद्रो रौद्रस्तथान्तरः ॥ १४॥ अनन्तः सर्वनागानां सूर्यस्तेजस्विनां तथा । ग्रहाणां च तथा चन्द्रो नक्षत्राणां च कृत्तिका ॥ १५॥ कालः कलयतां श्रेष्ठो युगानां च कृतं युगम् । कल्पं मन्वन्तरेशाश्च मनवश्च चतुर्दश ॥ १६॥ स एव देवः सर्वात्मा ये च देवेश्वरास्तथा । संवत्सरस्तु वर्षाणां चायनानां तथोत्तरः ॥ १७॥ मार्गशीर्षस्तु मासानां ऋतूनां कुसुमाकरः । शुक्लपक्षस्तु पक्षाणां तिथीनां पूर्णिमा तिथिः ॥ १८॥ कारणानां वधः (?) प्रोक्तो मुहूर्तानां तथाऽभिजित् । पातालानां सुतलश्च समुद्राणां पयोदधिः ॥ १९॥ जम्बूद्वीपश्च द्वीपानां लोकानां सत्य उच्यते । मेरुः शिलोच्चयानां च वर्षेष्वपि च भारतम् ॥ २०॥ हिमालयः स्थावराणां जाह्नवी सरितां तथा । पुष्करः सर्वतीर्थानां गरुडः पक्षिणां तथा ॥ २१॥ गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः । ऋषीणां च भृगुर्देवो देवर्षीणां च नारदः ॥ २२॥ तथा ब्रह्मर्षीणां च अङ्गिराः परिकीर्तितः । विद्याधराणां सर्वेषां देवश्चित्राङ्गदस्तथा ॥ २३॥ कंवरः किन्नराणां च सर्पाणामथ वासुकिः । (कंधरः?) प्रह्लादः सर्वदैत्यानां रम्भा चाप्सरसां तथा ॥ २४॥ उच्चैःश्रवसमश्वानां धेनूनां चैव कामधुक् । ऐरावतो गजेन्द्राणां मृगाणां च मृगाधिपः ॥ २५॥ आयुधानां तथा वज्रो नराणां च नराधिपः । क्षमा क्षमावतां देवो बुद्धिर्बुद्धिमतामपि ।२६॥ धर्माविरुद्धः कामश्च तथा धर्मभृतां नृणाम् । धर्मो धर्मभृतां देवस्तपश्चैव तपस्विनाम् ॥ २७॥ यज्ञानां जपयज्ञश्च सत्यः सत्यवतां तथा । वेदानां सामवेदश्च अंशुनां ज्योतिषां पतिः ॥ २८॥ गायत्री सर्वमन्त्राणां वाचः प्रवदतां तथा । अक्षराणामकारश्च यन्त्राणां च तथा धनुः ॥ २९॥ अध्यात्मविद्या विद्यानां कवीनामुशना कविः । चेतना सर्वभूतानामिन्द्रियाणां मनस्तथा ॥ ३०॥ ब्रह्मा ब्रह्मविदां देवो ज्ञानं ज्ञानवतां तथा । कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा तथा क्षमा ॥ ३१॥ आश्रमाणां चतुर्थश्च वर्णानां ब्राह्मणस्तथा । स्कन्दः सेनाप्रणेतॄणां सदयश्च दयावताम् ॥ ३२॥ जयश्च व्यवसायश्च तथोत्साहवतां प्रभुः । अश्वत्थः सर्ववृक्षाणामोषधीनां तथा यवः ॥ ३३॥ मृत्युः स एव म्रियतामुद्भवश्च भविष्यताम् । झषाणां मकरश्चैव द्यूतं छलयतां तथा ॥ ३४॥ मानश्च सर्वगुह्यानां रत्नानां कनकं तथा । धृतिर्भूमौ रसस्तेजस्तेजश्चैव हुताशने ॥ ३५॥ वायुः स्पर्शगुणानां च खं च शब्दगुणस्तथा । एवं विभूतिभिः सर्वं व्याप्य तिष्ठति भार्गव ॥ ३६॥ एकांशेन भृगुश्रेष्ठ तस्यांशत्रितयं दिवि । देवाश्च ऋषयश्चैव ब्रह्मा चाहं च भार्गव ॥ ३७॥ चक्षुषा यन्न पश्यन्ति विना ज्ञानगतिं द्विज । ज्ञाता ज्ञेयस्तथा ध्याता ध्येयश्चोक्तो जनार्दनः ॥ ३८॥ यज्ञो यष्टा च गोविन्दः क्षेत्रं क्षेत्रज्ञ एव च । अन्नमन्नाद एवोक्तः स एव च गुणत्रयम् ।३९॥ गामाविश्य च भूतानि धारयत्योजसा विभुः । पुष्णाति चौषधीः सर्वा सोमो भूत्वा रसात्मकः ॥ ४०॥ प्राणिनां जठरस्थोऽग्निर्भुक्तपाची स भार्गव । चेष्टाकृत्प्राणिनां ब्रह्मन् स च वायुः शरीरगः ॥ ४१॥ यथादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजस्तत्र कीर्तितम् ॥ ४२॥ सर्वस्य चासौ हृदि सन्निविष्टस्तस्मात्स्मृतिर्ज्ञानमपोहनं च । सर्वैश्च देवैश्च स एव वन्द्यो वेदान्तकृद्वेदकृदेव चासौ ॥४३॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु विभूतिवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥५६॥
अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु सप्तमोऽध्यायः ॥७॥ राम उवाच । आराध्यते स भगवान् कर्मणा येन शङ्कर । तन्ममाचक्ष्व भगवन् सर्वसत्त्वसुखप्रदम् ॥ १॥ शङ्कर उवाच । साधु राम महाभाग साधु दानवनाशन । यन्मां पृच्छसि धर्मज्ञ केशवाराधनं प्रति ॥ २॥ दिवसं दिवसार्धं वा मुहूर्तमेकमेव वा । नाशश्चाशेषपापस्य भक्तिर्भवति केशवे ॥ ३॥ अनेकजन्मसाहस्रैर्नानायोन्यन्तरेषु च । जन्तोः कल्मषहीनस्य भक्तिर्भवति केशवे ॥ ४॥ नाधन्यः केशवं स्तौति नाधन्योऽर्चयति प्रभुम् । नमत्यधन्यश्च हरिं नाधन्यो वेत्ति माधवम् ॥ ५॥ मनश्च तद्धि धर्मज्ञ केशवे यत्प्रवर्तते । सा बुद्धिस्तद्व्रतायैव सततं प्रतितिष्ठति ॥ ६॥ सा वाणी केशवं देवं या स्तौति भृगुनन्दन । श्रवणौ तौ श्रुता याभ्यां सततं तत्कथाः शुभाः ॥ ७॥ अवेहि धर्मज्ञ तथा तत्पूजाकरणात्करौ । तदेकं सफलं कर्म केशवार्थाय यत्कृतम् ॥ ८॥ यतो मुख्यफलावाप्तौ करणं सुप्रयोजनम् । मनसा तेन किं कार्यं यन्न तिष्ठति केशवे ॥ ९॥ बुद्ध्या वा भार्गवश्रेष्ठ तया नास्ति प्रयोजनम् । रोगः सा रसना वापि यया न स्तूयते हरिः ॥ १०॥ गर्तौ ब्रह्मव्रतौ कर्णौ याभ्यां तत्कर्म न श्रुतम् । भारभूतैः करैः कार्यं कि तस्य नृपशोर्द्विज ॥ ११॥ यैर्न सम्पूजितो देवः शङ्खचक्रगदाधरः । पादौ तौ सफलौ राम केशवालयगामिनौ ॥ १२॥ ते च नेत्रे महाभाग याभ्यां सन्दृश्याते हरिः । किं तस्य चरणैः कार्यं कृतस्य निपुणैर्द्विज ॥ १३॥ याभ्यां न व्रजते जन्तुः केशवालयदर्शने । जात्यन्धतुल्यं तं मन्ये पुरुषं पुरुषोत्तम ॥ १४॥ यो न पश्यति धर्मज्ञ केशवार्चा पुनः पुनः । क्लेशसंजननं कर्म वृथा तद्भृगुनन्दन ॥ १५॥ केशवं प्रति यद्राम क्रियतेऽहनि सर्वदा । पश्य केशवमाराध्य मोदमानं शचीपतिम् ॥ १६॥ यमञ्च वरुणञ्चैव तथा वैश्रवणं प्रभुम् । देवेन्द्रत्वमतिस्फीतं सर्वभूतिस्मितं(??) पदम् ॥ १७॥ हरिभक्तिद्रुमात्पुष्पं राजसात्सात्त्विकं फलम् । अणिमा महिमा प्राप्तिः प्राकाम्यं लघिमा तथा ॥ १८॥ ईशित्वञ्च वशित्वञ्च यत्र कामावसायिता । आराध्य केशवं देवं प्रप्यन्ते नात्र संशयः ॥ १९॥ हतप्रत्यङ्गमातङ्गो रुधिरारुणभूतले । सङ्ग्रामे विजयं राम प्राप्यते तत्प्रसादतः ॥ २०॥ महाकटितटश्रोण्यः पीनोन्नतपयोधराः । अकलङ्कशशाङ्काभवदना नीलमूर्धजाः ॥ २१॥ रमयन्ति नरं स्वप्ने देवरामा मनोहराः । सकृद्येनार्चितो देवो हेलया वा नमस्कृतः ॥ २२॥ वेदवेदाङ्गवपुषां मुनीनां भावितात्मनाम् । ऋषित्वमपि धर्मज्ञ विज्ञेयं तत्प्रसादजम् ॥ २३॥ रमन्ते सह रामाभिः प्राप्य वैद्याधरं पदम् । अन्यभावतया नाम्नः कीर्तनादपि भार्गव ॥ २४॥ रत्नपर्यङ्कशयिता महाभोगाश्च भोगिनः । वीज्यन्ते सह रामाभिः केशवस्मरणादपि ॥ २५॥ सौगन्धिके वने रम्ये कैलासपर्वते द्विज । यद्यक्षा विहरन्ति स्म तत्प्राहुः कुसुमं नतेः ॥ २६॥ रत्नचित्रासु रम्यासु नन्दनोद्यानभूमिषु । क्रीडन्ति च सह स्त्रीभिर्गन्धर्वीभिः कथाश्रुतेः ॥ २७॥ चतुस्समुद्रवेलायां मेरुविन्ध्यपयोधराम् । धरां ये भुञ्जते भूपाः प्रणिपातस्य तत्फलम् ॥ २८॥ तस्मात्तवाहं वक्ष्यामि यद्यदा चरतः सदा । पुरुषस्येह भगवान् सुतोषस्तुष्यते हरिः ॥ २९॥ पूज्यः स नित्यं वरदो महात्मा स्तव्य स नित्यं जगदेकवन्द्यः । ध्येयः स नित्यं सकलाघहर्ता चैतावदुक्तं तव राम गुह्यम् ॥ ३०॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु भक्तिफलप्रदर्शनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥